________________
आभाणकजगन्नाथ
आभाणकजगन्नाथ
[६२-६२]
२३. यवागूपायी सुवर्णमौल्यं जिज्ञासते। २४. वामनं दृष्टा खो गर्वं बिभर्ति। २५. शृङ्गवता शृगालेन उपद्रवोऽधिकः । २६. सर्वतोदिशं हितं गर्वहीनानाम् । २७. सर्वे पाचका: स्वपाकं नलपाकं ब्रुवते । २८. सर्वेषु सर्वाधिपेषु गर्वस्य साम्राज्यम् । २९. हलं किंचुलुको हन्तुं यतते ! [७७१]
६२.सामर्थ्यहीनता १. अङ्गुलीदघ्नस्य कलविङ्कस्य भङ्गलीला गृधैः ! २. अजातशत्रु: सुजातजाड्यः ।
अदृष्टहिमालयानां भस्मराशिरेव पर्वतराजः ।
अरित्रमजानानां नौकायां किं कृत्यम् ? ५. आसवपानमेव भीरोर्वीरपाणम् । ६. कच्चरपरीवाह एव पङ्गो रासभस्य भागीरथी। ७. कनिक्रन्दन्ति कर्माशुषा। ८. कर्णेटिरिटिरिणा किमपि न साध्यते। ६१.२९.किंचुलुक: गण्डूपदी Earthworm.६२.१.अङ्गलीदनस्य-अडलीपरिणामस्य । कलविङ्कस्य-चटकस्य । ६२.२.अजातशत्रु-युधिष्ठिरः। ६२.४. अरित्रम्-उडुपस्य जले नोदनायोपयुज्यमानो दण्डाकारका सामग्रीविशेषः । ६२.५.आसव-मद्यम् । वीरपाणम्-युद्धे क्रियमाणं पानम्। ६२.७.कनिक्रन्दन्ति -अतिशयेन उच्चैर्वा गर्जन्ति। वैदिकोऽयं शब्दः । कर्मणि अश्रूषा-बलहीनाः । शूषशब्दो वैदिको बलार्थकः । ६२.८.कर्णेटिरिटिरिणा-किमपि जल्पित्वा जीवता सामर्थ्यहीनेन । ('कणे किमपि जल्पित्वा जीवति, नास्य विक्रम इति भावः'
९. कर्दमे लुण्ठनं किटीनामभ्यञ्जनम् । १०. कापेये शक्तिशून्यः कपिवृक्षमाक्षिपति। ११. गन्धमूषिका किं गन्धमादनं गिरति ? १२. झञ्झां किं जरद्गवः प्रतिरुणद्धि ? १३. दर्वीमधिक्षिपन्ति दुष्पाचकाः । १४. भग्नदन्तानां शरावे पृथुकतण्डुलः । १५. भानुं किं वर्णयन्त्यभिनिमुक्ता ? १६. मशको मृगाधिपं भाययति। १७. महिषस्य किं मार्जार प्रतिमल्ल ? १८. मूषिकमल्लं मातङ्गमाणवको मर्दयति। गणरत्नमहोदधि(पद्यसंख्या १०४) ६२.९.किटीना-वराहाणाम्। ६२.११. गन्धमादनं-पर्वतविशेषम् । गिरति-गिलति । ६२.१२.झज्झाम्-वातं सवृष्टिकम् । जरद्व-वृद्धो वृषभः । ६२.१५.भानु-रूढयोदयमानं सूर्यम्। अभिनिमुक्ता-अत्यलसा ये सूर्यास्तात् प्रागेव स्वपन्ति। 'सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नदेति च । अंशुमानभिनिसक्ताभ्यूदितौ तौ यथाक्रमम।' इत्यमरः । अत्र 'अभिनिर्मुक्त' इत्यपपाठः । अन्धपरम्परया व्याख्यासु कोशादिषु च 'अभिनिर्मुक्त' इत्येव पाठोऽन्वसारि। वस्तुतस्तु 'मुचु गतौ' इति धातोर्निपूर्वकादस्तमयार्थकात् 'निमुक्त', 'निमुक्', 'निमोचन्' इत्यादयः प्रयोगासिद्ध्यन्ति। 'निमोचन्नधरान् कृधि', 'उपाश्च तस्मै निमुक्च', 'श्रद्धा सूर्यस्य निमुचि' 'या इष्टा उषसो निमुचश्च' इत्यादयो वैदिका प्रयोगा। तैत्तिरीयब्राह्मणे चायं प्रयोगg-"देवा वै हविर्भूत्वाब्रुवन् । कस्मिन्निदं प्रक्ष्यामह इति । आप्या अमृजत सूर्याभ्युदिते। सूर्याभ्युदितः सूर्याभिनिमुक्ते।सूर्याभिनिमुक्त कुनविनि।" शिष्टप्रयोगसंग्रहे तिरुमङ्गलं नडादूर् नरसिंहाचार्यरचिते (सनातनधर्मकार्यालय, ट्रिप्लिकेन्, तमिळुनाडु १९३४) प्रपञ्चोऽस्य द्रष्टव्यः ।