Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 28
________________ [४०-४१] ४०. कार्यकालः १. अपभ्रंशमप्यजानानाः सपर्यया पाणिनीयैः सम्मान्यन्ते । कण्ठीरवेणापि रोगिणा शुण्ठी सेव्यताम् । कार्यकाले कर्दम एव यक्षकर्दमः । कार्यार्थिभिः करीषमपि कबलीकरणीयम् । ५. द्वारपालो वा धरणीपालो वा ? ६. पुत्तिकापुरे जिजीविषुणा मृत्तिकाभक्षणं शिक्षणीयम् । मर्कटेन नृत्ते मणीचकगुच्छानि तस्मै मयूरः ७. समर्पयति । २. ३. ४. ८. ९. आभाणकजगन्नाथः १. २. सलिलाकाङिणा सरोवरे मङ्कव्यम् । सुधालाभाय सैरिभलाङ्गले सुगन्धं लेपय । [ ४९५ ] ४१. कार्यहीनाः अटाट्यते वटान् परितो जटाधारी । अट्टालिकायां विट्ठलभट्टाचार्यस्तण्डुलं कुट्टयति । असति वरकार्ये घघति परनिन्दा | ३. ४०.२. कण्ठीरवेण - सिंहेन । ४०.३. यक्षकर्दम:- अतिसुगन्धिद्रव्य-साधितानुलेपनभेदः। ‘कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः । स्याद् यक्षकर्दमो मिश्रैः' इति अभिधानचिन्तामणौ(३.६३८ ) । कर्पूरस्थाने कुङ्कुमो धन्वन्तरि निघण्टौ पठित इति तत्रत्येन देवसागरगणिकृत - व्युत्पत्तिरत्नाकरव्याख्योद्धृतेन पद्येन ज्ञायते । ४०.७. मणीचकं पुष्पम् । ४०.८. सैरिभः- महिषः । ४१.१. अटाट्यते भृशमटति । अट्+यडुक् । ४१.३.घघति-उच्चैर्हसति । घघ हसने । अत्र परनिन्दा कर्त्री । ३४ आभाणकजगन्नाथः ४. अस्ति ममाप्रकृतं बहु कार्यम् । ५. उभयोः कार्यं नास्ति, सभयं सर्वं तत्त्वम् । ६. करपादा विश्रान्ता जिह्वा किं न श्रान्ता ? ७. कार्यशून्याः कार्पासपुरे कोलाहलं कुर्वन्ति । केशान् पत्युर्लुञ्चति कार्यहीना भार्या । ८. S. क्रुद्धो भोजराजो दग्धं बीजं खादति । [४१-४२] १०. जोषमनुपविश्य जर्णात् पतित्वा जीवसंकटं प्राप्नोत् । ११. तण्डुलध्वंसी मण्डनमिश्र मुण्डनं कुरुते । १२. भस्मविषये भयानकं ताण्डवम् । १३. मल्लाधीशो रल्लकमाच्छाद्य स्वप्ने भल्लेशेन युद्ध्यति । मृत्पिण्डं महापर्वतं चिकीर्षति । १४. १५. वीतकार्या देवताऽपि प्रेततायै स्पृहयते । [५१०] ४२. कृपण: १. आघोणलाङ्गलं कृपणाग्रेसरचक्रवर्ती। २. कर्णयोर्नाणकध्वनौ पतिते कृपणानां गोण्डलीनृत्यम् । ३. कूटनाणकैः कोटिदानम्। ४. मुखे कारुण्यं करे कार्पण्यम् । [५१४] ४१.१०.जोषम्-गात्रसंयमपूर्वकम् । जर्णात् जीर्णद्रुमात् । ४१.१३.रल्लकम्राङ्कवजातीयकम् अतिस्थूलमाच्छादनवस्त्रम् । भल्लेशेन भल्लूकेन । ४१.१४.चिकीर्षति-कर्तुमिच्छति । अपरिगणनीयां क्षुद्रां घटनां महाघटनामिव वर्णयतीत्यर्थः । ४१.१५. वीतकार्या सप्रयोजनकार्यरहिता । ४२.२. गोण्डलीनृत्यम् - नृत्यविशेषः । संगीतरत्नाकरेऽस्य प्रपञ्चः । ३५

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73