Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 27
________________ [३६-३७] आभाणकजगन्नाथः १७. भूलोकस्यान्तरङ्गे वल्मीकस्यान्तरङ्गे बिलस्यान्तरङ्गे वराहस्य शैत्यमभूदिति हेतोः पर्वतस्योपरि निर्वाचितः सर्वमठाधिपः 'आक्षि', 'आक्षि' इति क्षुतवान् । १८. मीनापणे महावीरविग्रहं मीमांसते ! १९. वार्तायां पृष्टायां वृन्ताकः क्षुत इत्यार्तनादं करोति । २०. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् । २१. व्याघ्रस्य वायसेन किम् ? [४७०] १. २. ३७.कोऽपि गूढः संबन्धः स्यादेव । चरिल्ली चोरीत्युक्ते चञ्चुसूच्या चञ्चूराकुञ्चिता । तायें भर्त्विते तापसः किमिति ताण्डवमारभते ? ३. दार्वाघाटं दृष्ट्वा देवदत्तो दन्तान् दर्पणे दृष्टवान् । ४. नकुलो दस्युरित्युक्ते नहिकुटी नहि नहीति नर्दति । ५. महाकङ्कस्य मर्दले भग्ने महाक्रौञ्चस्य कण्ठे किमर्थं कण्डूः ? ६. शृङ्गं भुग्नमित्युक्ते पुच्छस्य किमित्याधिः ? [ ४७६ ] ३७.१. चरिल्ली - Common House Swift or Swallow | चज्बुसूची - Weaver bird | ३७.२ तापस- बकः तपोनिष्ठश्च । ३७.३. दार्वाघाट:- Wood-pecker | ३७.४. नहिकुटी - Crag Martin or IndianSand Martin | ३७.५. महाकङ्क:- Great Whitebelled Heran | महाक्रौञ्च:- Great White Crane Birds in Sanskrit literature:Sanskrit-English Index' by Elfrun Linke.ABORI LXXVIII parts1-4 1998 PP. 121-141३७.६. भुग्नं वक्रम् । आधि:- मानसी व्यथा । ३२ ४. आभाणकजगन्नाथः ३८. असंभवः १. पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति । २. भ्रंशानन्तरं मुसलः पल्लवितः। ३. मल्लिका यदि नारिकेलवृक्षे फुल्लेत्, मम गृहे कनकवर्षणं भवेत् । यदा देवः सुवर्णं वर्षति, तदा मम पितामहाय पीताम्बरं क्रेष्यामि । शृगालीकाकयोर्विवाहे शोभते मूर्खस्य मस्तिष्के पल्लवः । समुद्रे तृषिते सलिलं कुत आनेयम् ? [४८२] ३९. उत्कोचः ५. ६. [३८-३९] १. उत्कोचतिमिङ्गिले लब्धे किं वेतनशफर्या बकासुरस्य ? काकिणीदाने काको भव्यः,कार्षापणदाने घूको दिव्यः । २. ३. मम पितुः शृङ्गपुच्छानि न सन्ति । मम तु शृङ्गपञ्चकं, पुच्छषद्धं च तत् कथम् ? [४८६ ] ४. लक्षमुत्कुच्य शतं प्रकुरुते । ३८.१. पृथुकतण्डुलः- कृष्णाय कुचेलेन यो दत्तः सः । ३९.१. शफर्यामीनविशेषेण । ३९.२. काकिणी-धनस्यात्पतमो भागः । 'पैसे' इति कन्नडे । कार्षापणं-सुवर्णनाणकम् । ३९.३. शृङ्गपुच्छानि - लक्षणया धनम् । दरिद्रे वंशे जातोऽपि उत्कोचगिलनेन धनवानस्मि । ३९.४. लक्षमुत्कुच्य लक्षरूप्यकाणि उत्कोचत्वेन स्वीकृत्य । शतं प्रकुरुते शतं रूप्यकाणि ददाति । प्राचीनतमोऽयं प्रयोगः । भक्षितस्योत्कोचस्य सदृश्या मात्रया कार्यम् अकृतवति पुरुषे ( पुरुषविषये) उत्कोचं दत्तवतां दूयमानानां चेयमुक्तिः । ३३

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73