________________
[३६-३७]
आभाणकजगन्नाथः
१७. भूलोकस्यान्तरङ्गे वल्मीकस्यान्तरङ्गे बिलस्यान्तरङ्गे वराहस्य शैत्यमभूदिति हेतोः पर्वतस्योपरि निर्वाचितः सर्वमठाधिपः 'आक्षि', 'आक्षि' इति क्षुतवान् ।
१८. मीनापणे महावीरविग्रहं मीमांसते !
१९. वार्तायां पृष्टायां वृन्ताकः क्षुत इत्यार्तनादं करोति ।
२०. वेतण्डस्य व्रणे जाते वराहस्योपरि चण्डोष्णं तैलमसिञ्चन् ।
२१. व्याघ्रस्य वायसेन किम् ?
[४७०]
१.
२.
३७.कोऽपि गूढः संबन्धः स्यादेव ।
चरिल्ली चोरीत्युक्ते चञ्चुसूच्या चञ्चूराकुञ्चिता ।
तायें भर्त्विते तापसः किमिति ताण्डवमारभते ?
३.
दार्वाघाटं दृष्ट्वा देवदत्तो दन्तान् दर्पणे दृष्टवान् । ४. नकुलो दस्युरित्युक्ते नहिकुटी नहि नहीति नर्दति ।
५.
महाकङ्कस्य मर्दले भग्ने महाक्रौञ्चस्य कण्ठे किमर्थं कण्डूः ? ६. शृङ्गं भुग्नमित्युक्ते पुच्छस्य किमित्याधिः ? [ ४७६ ]
३७.१. चरिल्ली - Common House Swift or Swallow | चज्बुसूची - Weaver bird | ३७.२ तापस- बकः तपोनिष्ठश्च । ३७.३. दार्वाघाट:- Wood-pecker | ३७.४. नहिकुटी - Crag Martin or IndianSand Martin | ३७.५. महाकङ्क:- Great Whitebelled Heran | महाक्रौञ्च:- Great White Crane Birds in Sanskrit literature:Sanskrit-English Index' by Elfrun Linke.ABORI LXXVIII parts1-4 1998 PP. 121-141३७.६. भुग्नं वक्रम् । आधि:- मानसी व्यथा ।
३२
४.
आभाणकजगन्नाथः
३८. असंभवः
१. पृथुकतण्डुलराज्ये पट्टाभिषिक्तः पौरवपुरं पाति ।
२.
भ्रंशानन्तरं मुसलः पल्लवितः।
३.
मल्लिका यदि नारिकेलवृक्षे फुल्लेत्, मम गृहे कनकवर्षणं भवेत् ।
यदा देवः सुवर्णं वर्षति, तदा मम पितामहाय पीताम्बरं क्रेष्यामि ।
शृगालीकाकयोर्विवाहे शोभते मूर्खस्य मस्तिष्के पल्लवः । समुद्रे तृषिते सलिलं कुत आनेयम् ? [४८२] ३९. उत्कोचः
५.
६.
[३८-३९]
१. उत्कोचतिमिङ्गिले लब्धे किं वेतनशफर्या बकासुरस्य ? काकिणीदाने काको भव्यः,कार्षापणदाने घूको दिव्यः ।
२.
३. मम पितुः शृङ्गपुच्छानि न सन्ति । मम तु
शृङ्गपञ्चकं, पुच्छषद्धं च तत् कथम् ?
[४८६ ]
४. लक्षमुत्कुच्य शतं प्रकुरुते । ३८.१. पृथुकतण्डुलः- कृष्णाय कुचेलेन यो दत्तः सः । ३९.१. शफर्यामीनविशेषेण । ३९.२. काकिणी-धनस्यात्पतमो भागः । 'पैसे' इति कन्नडे । कार्षापणं-सुवर्णनाणकम् । ३९.३. शृङ्गपुच्छानि - लक्षणया धनम् । दरिद्रे वंशे जातोऽपि उत्कोचगिलनेन धनवानस्मि । ३९.४. लक्षमुत्कुच्य लक्षरूप्यकाणि उत्कोचत्वेन स्वीकृत्य । शतं प्रकुरुते शतं रूप्यकाणि ददाति । प्राचीनतमोऽयं प्रयोगः । भक्षितस्योत्कोचस्य सदृश्या मात्रया कार्यम् अकृतवति पुरुषे ( पुरुषविषये) उत्कोचं दत्तवतां दूयमानानां चेयमुक्तिः ।
३३