________________
[४०-४१]
४०. कार्यकालः
१. अपभ्रंशमप्यजानानाः सपर्यया पाणिनीयैः
सम्मान्यन्ते ।
कण्ठीरवेणापि रोगिणा शुण्ठी सेव्यताम् । कार्यकाले कर्दम एव यक्षकर्दमः ।
कार्यार्थिभिः करीषमपि कबलीकरणीयम् ।
५.
द्वारपालो वा धरणीपालो वा ?
६. पुत्तिकापुरे जिजीविषुणा मृत्तिकाभक्षणं शिक्षणीयम् ।
मर्कटेन नृत्ते मणीचकगुच्छानि तस्मै मयूरः
७.
समर्पयति ।
२.
३.
४.
८.
९.
आभाणकजगन्नाथः
१.
२.
सलिलाकाङिणा सरोवरे मङ्कव्यम् ।
सुधालाभाय सैरिभलाङ्गले सुगन्धं लेपय । [ ४९५ ]
४१. कार्यहीनाः
अटाट्यते वटान् परितो जटाधारी ।
अट्टालिकायां विट्ठलभट्टाचार्यस्तण्डुलं कुट्टयति । असति वरकार्ये घघति परनिन्दा |
३.
४०.२. कण्ठीरवेण - सिंहेन । ४०.३. यक्षकर्दम:- अतिसुगन्धिद्रव्य-साधितानुलेपनभेदः। ‘कर्पूरागुरुकक्कोलकस्तूरीचन्दनद्रवैः । स्याद् यक्षकर्दमो मिश्रैः' इति अभिधानचिन्तामणौ(३.६३८ ) । कर्पूरस्थाने कुङ्कुमो धन्वन्तरि निघण्टौ पठित इति तत्रत्येन देवसागरगणिकृत - व्युत्पत्तिरत्नाकरव्याख्योद्धृतेन पद्येन ज्ञायते । ४०.७. मणीचकं पुष्पम् । ४०.८. सैरिभः- महिषः । ४१.१. अटाट्यते भृशमटति । अट्+यडुक् । ४१.३.घघति-उच्चैर्हसति । घघ हसने । अत्र परनिन्दा कर्त्री ।
३४
आभाणकजगन्नाथः
४.
अस्ति ममाप्रकृतं बहु कार्यम् ।
५.
उभयोः कार्यं नास्ति, सभयं सर्वं तत्त्वम् ।
६.
करपादा विश्रान्ता जिह्वा किं न श्रान्ता ?
७. कार्यशून्याः कार्पासपुरे कोलाहलं कुर्वन्ति । केशान् पत्युर्लुञ्चति कार्यहीना भार्या ।
८.
S. क्रुद्धो भोजराजो दग्धं बीजं खादति ।
[४१-४२]
१०. जोषमनुपविश्य जर्णात् पतित्वा जीवसंकटं प्राप्नोत् ।
११. तण्डुलध्वंसी मण्डनमिश्र मुण्डनं कुरुते ।
१२. भस्मविषये भयानकं ताण्डवम् ।
१३. मल्लाधीशो रल्लकमाच्छाद्य स्वप्ने भल्लेशेन युद्ध्यति । मृत्पिण्डं महापर्वतं चिकीर्षति ।
१४.
१५. वीतकार्या देवताऽपि प्रेततायै स्पृहयते । [५१०]
४२. कृपण:
१.
आघोणलाङ्गलं कृपणाग्रेसरचक्रवर्ती।
२.
कर्णयोर्नाणकध्वनौ पतिते कृपणानां गोण्डलीनृत्यम् ।
३.
कूटनाणकैः कोटिदानम्।
४. मुखे कारुण्यं करे कार्पण्यम् ।
[५१४]
४१.१०.जोषम्-गात्रसंयमपूर्वकम् । जर्णात् जीर्णद्रुमात् । ४१.१३.रल्लकम्राङ्कवजातीयकम् अतिस्थूलमाच्छादनवस्त्रम् । भल्लेशेन भल्लूकेन । ४१.१४.चिकीर्षति-कर्तुमिच्छति । अपरिगणनीयां क्षुद्रां घटनां महाघटनामिव वर्णयतीत्यर्थः । ४१.१५. वीतकार्या सप्रयोजनकार्यरहिता । ४२.२. गोण्डलीनृत्यम् - नृत्यविशेषः । संगीतरत्नाकरेऽस्य प्रपञ्चः ।
३५