________________
[३-४]
आभाणकजगन्नाथः
१२. मत्कुणात् कम्प्रा मातङ्गेन युयुत्सन्ति ।
१३.
मितौ नष्टायां मुसलेन संभाषे । १४. मुसले किसलयः ।
१५. यज्ञे दग्धं यजमानस्य श्मश्रु ।
१६. विश्ववेदसो विचित्रचरित्राः ।
१७. वृद्धा विदग्धाः पाकैर्दग्धाः ।
१८. वैनतेयं वेतण्डो लङ्कनेन विस्माययति । १९. शशकं दृष्ट्वा शलल: शल्यानि तेजयति । २०. सिंही सूकरं सूते ।
२१. स्थगिता वृष्टिः स्थगितो पातो न विटपिदलगतबिन्दूनाम् ।
४. अज्ञानम्
१. अज्ञाननिगूहनं विज्ञानविशेषः ।
२.
अटनमकृत्वा रटति ।
३.
अर्धबोधो बाधः ।
४.
[८४]
अलंकारविद्यार्थिनो बलं वदनपिधानम् ।
३. १२. युयुत्सन्ति योद्धुमिच्छन्ति । युध् + सन् । ३.१६. विश्ववेदसः - विश्वप्रज्ञाः । वैदिकोऽयं शब्दः । ३.१७. पाकै अल्पवयस्कैः डिम्भैः । दग्धा:- लक्षणया पराजिताः । ३. १९. शलल४ - देहे शललानि ( कण्टकान् ) धरन् चतुष्पात् प्राणिविशेषः । एष भीतः सन् स्वकीयानि शललानि शत्रौ क्षिपति । तेजयतितीक्ष्णीकरोति । ३.२१. वृष्टिः स्थगिता, वृक्षपत्रगतानां जलबिन्दूनां भूमी पातस्तु न स्थगितः । ४.४. अलंकारविद्यार्थिनः- अलंकारप्रियस्य विद्यार्थिनः ।
५.
६.
एडमूकः पित्रोः पीडनाय । ज्ञानहीनस्य श्मश्रु मानरक्षणाय ।
७.
“रे हय " इत्युक्ते “हे वय " मिति प्रत्युत्तरति ।
८. वामहस्ताङ्गुलीविदग्धस्य पुरस्तादज्ञानी सर्वज्ञः ।
९.
सामिज्ञानं संकटाय ।
१.
२.
३.
१.
२.
आभाणकजगन्नाथः
३.
४.
[४-६]
५.
६. मृदमदन्ति मृदुललिताः ।
७.
५.धर्मसंकटम्
इष्टा बन्धवः कष्टा च धान्यहानिः ।
भक्ष्ये रक्तिर्भिषजि च भक्तिः ।
भिस्सटायास्त्यागे प्रीतिभङ्गः, भोगे स्वास्थ्यभङ्गः । [९६]
६. अतिमार्दवम्
उपलहृदयानां द्वारि उत्पलहृदया भिक्षन्ते ।
करी मृदुवचनः कबलितः काकेन।
भीरूणां शशकानां तृणकम्पोऽपि व्याघ्रझम्पः । मल्लिकया सह मल्लयुद्धम् ।
मशको महानादेन महिषस्य कर्णकुहरं भनक्ति ।
सर्व सहमाना गर्ववद्भिर्गीर्यन्ते ।
[93]
४.५ एडमूक - वक्तुं श्रोतुं चाशिक्षितः । ४.८. वामहस्ताङ्गलीविदग्धस्यनिरक्षरभट्टाचार्यस्य । ४.९. सामि - अर्धम् । ५.३. भिस्सटायाः- दग्धस्योदनस्य । ५.१. उपलहृदयानां कठिनमनस्कानाम् । ६.३. झम्प:- jump.