________________
[२-२]
आभाणकजगन्नाथ
आभाणकजगन्नाथः
२-३]
२०. नरोऽन्यः शूलीति शिरो मम शिलायां घट्टनीयं किम्? २१. नादत्ते नाविकः किमातरं कातरात् ? २२. परगृहीयंरन्ध्रकर्णरसायनं,स्वगृहीयं छिद्रं कर्णारुन्तुदम् । २३. पापिष्ठानां पादेषु पुष्पोपहारः । २४. प्रत्यग्रेण जलेन पुराण कर्दम प्रवाहित । २५. भक्तेषु भैरवेषु भवत्सु भगवान् भीरुभवति । २६. भर्म दत्वा भर्त्सनां कारयते। २७. मम कष्टं मम कृते बंहिष्ठम् । २८. मयूरस्य चार्यां चिन्ता मर्कटस्य चौर्ये चिन्ता। २९. महादेवतासु मृदं खादन्तीषु क्षुद्रा देवताः क्षुधा क्षुभ्यन्ति । ३०. मुद्गराद् घातो हृद्राद् वरम्। ३१. लिखिते सकले कवने, क्रुष्टं सर्वं गानम् । ३२. लोकज्ञानां पाण्डित्यं नास्ति पण्डितानां लोक्ज्ञानं नास्ति। ३३. वञ्चके विश्वस्य विमलाशये विचिकित्सति। ३४. विष्टिकरणेऽपि विविधा निन्दा। ३५. शिरस्स्वन्येषां स्फूर्जथौ पतिते करः किं मम कर्तनीय ? ३६. शुभ्रमतिः श्वभे पतति। ३७. सग्धये निमन्त्रणं समाप्नुवन्ति चीत्कृत्य। २.२०.शूली-शिरःशूलादिपीडायुक्तः । २.२१.आतरम्-नौकाप्रयाणशुल्कम् । २.२४.प्रत्यग्रेण-नूतनेन । २.२७.बंहिष्ठम्-बहुलम् (अष्टा.६.४.१५७)२.२८. चार्याम्-नृत्यभङ्गीविशेषे। २.३०.हृद्गरात्-हृदये वर्तमानाद् विषात् । २.३३. विश्वस्य-विश्वासं कृत्वा । विचिकित्सति-संशेते। २.३४.विष्टि-विना वेतनम्। २.३६.श्वभे-नरके। २.३७.सग्धये-सहभोजनाय ।
ॐFusic
३८. सत्त्वगुणभक्तास्तमोगुणशक्ता। ३९. सदा वक्रं सारमेयपुच्छम्। ४०. सम्माजन्या साधूनां समाराधना। ४१. सर्वेषां कटु मरिचम्, एतेषां कटु पायसम् । ४२. सेवका प्रत्यग्रा प्रसेवं प्रकर्षण घट्टयन्ति। [६३]
३.एवमपि कदाचित् । १. उक्तिभिरोषाः कृतिपीयूषाः । २. उद्घटा एव कदाचिदुद्भटाः । ३. करकाघातानन्तरं मधुपाता।
कुरङ्ग क्रोष्ट्रवद् भवति। खरस्याक्रोशं श्रुत्वा कुहूरव शिरोऽकम्पयत। गिरिकायाः पुरस्ताद् गोमायोर्माया गतासुरभूत् । दग्धाद् घटादाम कुम्भो दृढतरः। द्विष्टा कदाचिन्मिष्टं पाययन्ति।
नवनीताज्ज्वाला निस्सरति। १०. प्रतिमायोगी प्लवङ्गमति। ११. भानु प्रतीच्या भासते। २.४२.प्रत्यग्रा-नूतना ।३.१.ओषा तापका। वैदिकोऽयं शब्दः। ३.४.क्रोष्ट्रवत्-शृगालवत् । ३.५.कुहूरव-कोकिल: । ३.६.गिरिका-बालमूषिका । ३.६.गोमायो:-शृगालस्य । ३.१०.प्रतिमायोगो नाम प्रतिमावद् दैहिक कम्पलेशोऽपि यथा न स्यात् तथा स्थित्वा ध्यानानुष्ठानम्। बाहुबलिन प्रतिमायोग प्रख्याततमः । तादृशयोगवान् प्रतिमायोगी।