________________
[६-८]
आभाणकजगन्नाथ
आभाणकजगन्नाथ
[८-१०]
८. सुलभ्यः सार्वभौम खलपूनां पादसंवाहकः । [१०४]
७.अतिभाषणम्। १. कथां कृत्वा व्यथां विस्तारयति। २. कथायाः शृङ्गमपि नास्ति, लालमपि नास्ति। ३. कुवित् कत्थते, कुत्सितं श्रन्थते। ४. परवातैव वाचाटानां विश्वम् । ५. परुषवचनानां प्रतिपदं प्रतिपक्षाः । ६. वाग्यतो वर्तमानानां पुरस्ताद्वाचाटानां नरकदर्शनम् । ७. वाचाटानां बहुकपटानां बहुलं शूषं गच्छति शोषम् । ८. शृगालस्यापेक्षया लाङ्गुलमेव दीर्घतरम्। [११२]
८.मौनम् १. असति ज्ञाने मौनेन मानः । २. कदाचिन्मौनेन कृपीटयोनिचलति।
मौनवीरा मेहं गिलन्ति।
मौनव्रते सति किमर्थं मण्डूकेन सख्यम् ? ५. मौनेन कनकाभिषेकोऽपि, कर्दमाभिषेकोऽपि । ६. मौनेन मानो न मीयते। ६.८.खलपूना-सम्मार्जन्या मालिन्यपरिमार्जकानाम् । ७.३.कुवित्-बहु । वैदिकोऽयं शब्दः । थन्यते-शैथिल्यमाप्नोति। ७.६.वाग्यत-मौनेन। ७.७.शुषं-बलम् । वैदिकोऽयं शब्दः।८.२.कृपीटयोनि:-अग्नि । लक्षणया क्रोधः । मौनं क्रोधस्य कारणं संभवतीत्यर्थः ।
७. मौनेन मूढा जेतव्या। ८. सर्वदा मौनं गर्वसंसूचनम्। [१२०]
९.अतिरेक १. अतिकरणान्मतिभ्रंशः। २. अतिनाट्ये मतिधूर्तता।
अतिपठनं गतिहीनम् । अतिपरिचयेन बन्धुरन्धुः संवृत्तः । अतिबुद्धिमताम् अधिकं मौढ्यम् । अतिभुग्नं भग्नम्। अतिमथनेन चन्दनादप्यग्निर्धगधगायते।
अतिमैत्री धर्मसंकटाय। ९. अतिशुद्धम् असंबद्धम्। १०. रपप्राचुर्यमपि राक्षसेषु जीर्यति। ११. स्नेहातिरेके मोहातिरेकः ।
Fusi
१०.अत्याशा
१. करो दीर्घो, जिह्वा दीर्घतरा। २. गजे दत्ते, भूतिर्न दत्तेति व्याघ्रासने तिष्ठति। ९.४.अन्धु:-कूप४।९.६.भुग्न-वक्रम् । ९.१०.रप-विषम् । शौनक-शाखायां (६.९१.२)वर्तमानस्यास्य शब्दस्य संवादितया पैप्पलादशाखायां(१.१११.१) विषमिति शब्दो दत्त: । "Nature of Vedic sakhās" (The Poona Orientalist. XVI. No.1 to 4) सुधीरकुमारगुप्तः ।