Book Title: Abhanakajagannatha
Author(s): Jagannatha
Publisher: Jagannath Ambaram

View full book text
Previous | Next

Page 20
________________ [१५-१६] ६. १. २. ३. ४. ५. ६. ७. आभाणकजगन्नाथः सहसा कृत्यं तरसा चित्यम् । १६. तस्माज्जागृत जागृत अवनिराकर्णयति । अ - विदितानामालिङ्गनं लवित्रेण लाङ्गूलच्छेदनाय । इक्षुरसे मधुरे किम् इक्षुयन्त्रं मधुरम् ? कपिना साकं क्रीडा वा व्रीडा वा ? कुञ्जराणां दर्शनं कमलानां रोदनाय । केषाञ्चिल्लाङ्गलं शृङ्गात् तीक्ष्णतरम् । क्रमेण व्याघ्रो वानरोऽभवत् । क्रोशस्थोऽपीक्ष्यतेऽक्ष्णोः कथमपि कुधरः प्रस्तरक्षेपदूरः । गवाक्षाणां श्रवाः सन्ति । ८. ९. १०. घटद्वयसं क्षीरमाशु स्फुटति चिञ्चाबिन्दुना । ११. चषकं नव्यं यत्र च गव्यम् । १२. दन्तदर्शने नान्तर्दर्शनम् । १३. नक्तं शुक्तिर्मुक्तया स सज्जा । १४. बालव्रणो ब्रह्मराक्षसः । १५. भानुमण्डलेऽपि तमःखण्डोऽस्ति । [२६३] १५.६. तरसा वेगेन । चित्यम्-मृतम् (अभिधानचिन्तामणिः) । १६.२. लवित्रेणकर्तनार्थेन साधनविशेषेण । १६.८. कुधरः पर्वतः । १६.९. श्रवा: कर्णाः । १६.१०. घटद्वयसं घटप्रमाणकम् । स्फुटति भिन्नं भवति । चिञ्चाया:तिन्त्रिण्याः, लक्षणया तद्रसस्य बिन्दुना । १६.११. चषकम् - पानपात्रम् । १६.१३. नक्तं- रात्रौ । सङ्घसजा सधाय युद्धाय, सज्जा-सन्नद्धा । १८ आभाणकजगन्नाथः १६. भिन्ने स्वान्ते बन्धनं क्लेशसाध्यम् । १७. मर्त्या द्विकर्णा भित्तिस्त्रिकर्णा । १८. मषीबिन्दुनिपातेन मदनो मर्कटायते । १९. महतामन्तरङ्गे गहना कुहना । २०. महामहोपाध्यायो महोपद्रवकारी । २१. महाशा मोघाशा । २२. माननाशाय महामानवैर्मैत्री । २३. मुक्तिकाभ्रान्त्या शुक्तिकायै पट्टाभिषेकः । २४. मुञ्चति जलूका नाञ्चति नक्षत्रकः । २५. रसज्ञा रसान् विरसयति । २६. लालनार्थो गर्दभपोतः पालकं पाडयति । २७. लालितः सारमेयो लीलया दशति । २८. लालितो मूषिको लुलायो बभूव । २९. विटपिनि फलपूर्णे प्रस्तरैर्हा ! प्रहारः । ३०. विदितं मौल्यं वज्रे नष्टे । [१६-१६] ३१. विदिता देवता विपर्यस्ता जाता । ३२. शैवालच्छन्नस्तटाको गभीरो वाऽऽश्यानो वा ? १६.२१. मोघाशा व्यर्थाशा । १६.२४. जलूका रक्तं बलवच्चूषन् कृमिविशेषः । अञ्चति गच्छति । नक्षत्रिका हरिश्चन्द्रोपाख्याने हरिश्चन्द्रं धनाय बहुधा पीडितवान् विश्वामित्रशिष्यः । १६.२५. रसज्ञा-जिह्वा । १६.२६.पाडयतिपादाभ्यां ताडयति । पाड लत्ताप्रहारे इति नवीन एष धातुर्मयैव सृष्ट इति ज्ञेयम् । १६.२८. लुलाय:- महिषः । १६.३२. आश्यान:- पेलव, गभीरत्वधर्मप्रति योगी । १९

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73