________________
[१५-१६]
६.
१.
२.
३.
४.
५.
६.
७.
आभाणकजगन्नाथः
सहसा कृत्यं तरसा चित्यम् ।
१६. तस्माज्जागृत जागृत
अवनिराकर्णयति ।
अ - विदितानामालिङ्गनं लवित्रेण लाङ्गूलच्छेदनाय ।
इक्षुरसे मधुरे किम् इक्षुयन्त्रं मधुरम् ?
कपिना साकं क्रीडा वा व्रीडा वा ?
कुञ्जराणां दर्शनं कमलानां रोदनाय ।
केषाञ्चिल्लाङ्गलं शृङ्गात् तीक्ष्णतरम् । क्रमेण व्याघ्रो वानरोऽभवत् ।
क्रोशस्थोऽपीक्ष्यतेऽक्ष्णोः कथमपि कुधरः प्रस्तरक्षेपदूरः ।
गवाक्षाणां श्रवाः सन्ति ।
८.
९.
१०. घटद्वयसं क्षीरमाशु स्फुटति चिञ्चाबिन्दुना ।
११. चषकं नव्यं यत्र च गव्यम् ।
१२. दन्तदर्शने नान्तर्दर्शनम् ।
१३. नक्तं शुक्तिर्मुक्तया स सज्जा ।
१४. बालव्रणो ब्रह्मराक्षसः ।
१५. भानुमण्डलेऽपि तमःखण्डोऽस्ति ।
[२६३]
१५.६. तरसा वेगेन । चित्यम्-मृतम् (अभिधानचिन्तामणिः) । १६.२. लवित्रेणकर्तनार्थेन साधनविशेषेण । १६.८. कुधरः पर्वतः । १६.९. श्रवा: कर्णाः । १६.१०. घटद्वयसं घटप्रमाणकम् । स्फुटति भिन्नं भवति । चिञ्चाया:तिन्त्रिण्याः, लक्षणया तद्रसस्य बिन्दुना । १६.११. चषकम् - पानपात्रम् । १६.१३. नक्तं- रात्रौ । सङ्घसजा सधाय युद्धाय, सज्जा-सन्नद्धा ।
१८
आभाणकजगन्नाथः
१६. भिन्ने स्वान्ते बन्धनं क्लेशसाध्यम् । १७. मर्त्या द्विकर्णा भित्तिस्त्रिकर्णा । १८. मषीबिन्दुनिपातेन मदनो मर्कटायते । १९. महतामन्तरङ्गे गहना कुहना ।
२०. महामहोपाध्यायो महोपद्रवकारी ।
२१.
महाशा मोघाशा ।
२२.
माननाशाय महामानवैर्मैत्री ।
२३. मुक्तिकाभ्रान्त्या शुक्तिकायै पट्टाभिषेकः ।
२४. मुञ्चति जलूका नाञ्चति नक्षत्रकः ।
२५. रसज्ञा रसान् विरसयति ।
२६. लालनार्थो गर्दभपोतः पालकं पाडयति । २७. लालितः सारमेयो लीलया दशति ।
२८. लालितो मूषिको लुलायो बभूव ।
२९. विटपिनि फलपूर्णे प्रस्तरैर्हा ! प्रहारः ।
३०. विदितं मौल्यं वज्रे नष्टे ।
[१६-१६]
३१. विदिता देवता विपर्यस्ता जाता ।
३२. शैवालच्छन्नस्तटाको गभीरो वाऽऽश्यानो वा ?
१६.२१. मोघाशा व्यर्थाशा । १६.२४. जलूका रक्तं बलवच्चूषन् कृमिविशेषः । अञ्चति गच्छति । नक्षत्रिका हरिश्चन्द्रोपाख्याने हरिश्चन्द्रं धनाय बहुधा पीडितवान् विश्वामित्रशिष्यः । १६.२५. रसज्ञा-जिह्वा । १६.२६.पाडयतिपादाभ्यां ताडयति । पाड लत्ताप्रहारे इति नवीन एष धातुर्मयैव सृष्ट इति ज्ञेयम् । १६.२८. लुलाय:- महिषः । १६.३२. आश्यान:- पेलव, गभीरत्वधर्मप्रति योगी ।
१९