Book Title: Saklarhat Stotram
Author(s): Punyavijay
Publisher: Atmanand Jain Sabha
Catalog link: https://jainqq.org/explore/003674/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्द-जैनग्रन्थरत्नमाला रत्नम् ८९ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं सकलार्हत्स्तोत्रम्। श्रीकनककुशलगणिविहितया वृत्त्या समलङ्कृतम् संशोधितं च तत् प्रवर्तकश्रीकान्तिविजयमहाराजशिष्यात्मानन्दजैनग्रन्थरत्नमालाऽऽद्यसम्पादकमहाराजश्रीचतुरविजया न्तेवासिना मुनिपुण्यविजयेन । प्रकाशितं च तत् भावनगरस्थया श्रीजैनआत्मानन्दसभया । वीर संवत् २४६८ । प्रथमावृत्तिः । विक्रम संवत् १९९८ आत्म संवत् ४६ प्रतयः ७०० । इस्वीसन् १९४२ Page #2 -------------------------------------------------------------------------- ________________ श्रीआत्मानन्द-जैनग्रन्थरत्नमाला रत्नम् ८९ ~ ~ ~ ~ ~ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं सकलार्हत्स्तोत्रम्। श्रीकनककुशलगणिविहितया वृत्त्या समलङ्कृतम् संशोधितं च तत् प्रवर्तकश्रीकान्तिविजयमहाराजशिष्यात्मानन्दजैनग्रन्थरत्नमालाऽऽद्यसम्पादकमहाराजश्रीचतुरविजया न्तेवासिना मुनिपुण्यविजयेन । प्रकाशितं च तत् भावनगरस्थया श्रीजैनआत्मानन्दसभया । वीर संवत् २४६८ । प्रथमावृत्ति: विक्रम संवत् १९९८ आत्म संवत् ४६ । प्रतय : ७०० (इस्वीसन् १९४१ Page #3 -------------------------------------------------------------------------- ________________ पुस्तकमिदं राजनगरे ( अमदावाद - नगरे) 'पानकोरनाका जुमा मस्जीद' स्थानस्थे श्रीशारदामुद्रणालये मास्तर हीराचन्द्र देवचन्द्रद्वारा मुद्रयितम् । प्रकाशितं च तत् " वल्लभदास त्रिभुवनदास गांधी, सेक्रेटरी श्रीजैन आत्मानन्द सभा भावनगर " इत्यनेन । Page #4 -------------------------------------------------------------------------- ________________ ॥ जयन्तु वीतरागाः॥ प्रासङ्गिकं निवेदनम् । अद्य किलेदं सवृत्तिकं सकलार्हत्स्तोत्रेतिप्रसिद्धाभिख्यं चतुर्विशतिजिननमस्कारस्तवनमुपदीक्रियते विद्वद्वन्दकरकमलेषु । स्तोत्रं ह्येतत् प्रणीतं स्याद्वादविज्ञानघटितमूर्त्तिना कलिकालसर्वज्ञेन भगवता श्रीहेमचन्द्रसरिणा। नह्येतत्स्तोत्रमाचार्येण स्वतन्त्रं सूत्रितं किन्तु त्रिषष्टिशलाकापुरुषचरितमहाकाव्याघमङ्गलत्वेनोपन्यस्तमिदम् । आकृष्टं चैतत् ततः पृथग् विबुधजनैः महाप्रभावमत्यद्भुतप्रतिभासम्पन्नमिति । एतच्चाधिजिगांसूनामतीवोपयोगीति सवृत्तिकं प्रकाश्यतेऽस्माभिः । एषा च वृत्तिस्तपोगच्छाधीशाचार्यपुरन्दरश्रीविजयसेनसूरिशिष्येण श्रीमता कनककुशलेन वैक्रमीये १६५४ मितेऽब्दे निर्मितेति प्रकटमेवावसीयते वृत्तिप्रान्तगतप्रशस्तिपद्यावलोकनेन । एतवृत्तिकारविहिता अन्येऽप्येतदतिरिक्ता दानप्रकाश-ज्ञानपञ्चमीकथा-दीपालिकाकल्प-देवाः प्रभोस्तोत्रवृत्ति-भक्तामरस्तोत्रवृत्ति-चतुर्विशतिजिनस्तोत्रवृत्ति प्रमुखा ग्रन्था उपलभ्यन्ते। वृत्तिरियमाद्यपिपठिषूणां तत्पिपाठयिषूणां चातीवोपयोगिनी, यतोऽत्र वृत्तिकृता प्रतिश्लोकं तद्गतानि सामासिकपदानि तथा व्युत्पादितानि वर्त्तन्ते यथाऽभ्यस्तसद्यस्कव्याकरणानां नव्यविनेयानां विशेषतः तद्विषयं कौशलमापादयतीति। Page #5 -------------------------------------------------------------------------- ________________ संशोधनसमये सवृत्तिकस्यास्यातीवाशुद्धा एकैव प्रतिरासादिता । तदाधारेणास्य संशोधनं प्रकाशनं च व्यधायीति यदत्र किञ्चित् क्षुण्णं स्खलितं वा स्यात् तत् क्षन्तव्यं धीधनैरित्यभ्यर्थयते--- महाराजश्रीचतुरविजयचरणसरोरुहचश्चरीकः मुनिः पुण्यविजयः S Page #6 -------------------------------------------------------------------------- ________________ ॥ अहम् ॥ ॥ प्रवर्तकश्रीकान्तिविजयपादपद्मभ्यो नमः ॥ कलिकालसर्वज्ञप्रभुश्रीहेमचन्द्रमुरिविरचितं सकलार्हत्स्तोत्रम्। श्रीकनककुशलगणिविनिर्मितया वृत्त्या समलङ्कृतम् । सकलार्हत्प्रतिष्ठानमधिष्ठानं शिवश्रियः। भूर्भुवः-स्वस्त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥१॥ व्याख्या—वयम् आर्हन्त्यं प्रणिदध्महे इत्यन्वयः। वयमिति शेषः । अर्हतो भाव आर्हन्त्यं-तीर्थकृत्त्वम् । 'प्रणिदध्महे' प्रणमामः । किंलक्षणमार्हन्त्यम् ? 'सकलाईप्रतिष्ठान' सकलाः-समस्ता ये अर्हन्तःजिनाः तेषु प्रतिष्ठानम्-अवस्थानं यस्य तत् ; कोऽर्थः ? यथा घटत्वं घटे स्थितं तथा आर्हन्त्यमपि अर्हत्सु स्थितमित्यर्थः । सकलाश्च तेऽहन्तश्च सकलार्हन्तः, सकलार्हत्सु प्रतिष्ठानं यस्य तत् सकलाईप्रतिठानम् । पुनः किंविशिष्टमार्हन्त्यम् ? 'अधिष्ठानं' नगरम् , यतः"अधिष्ठानं प्रभावेऽध्यासने नगर-चक्रयोः" इत्यनेकार्थे (हैम०चतुःस्वरकाण्ड श्लो० १५२९)। कस्याः ? 'शिवश्रियः' मोक्षलक्ष्म्याः। शिवस्य श्रीः शिवश्रीः, तस्याः शिवश्रियः। पुनः किंविशिष्टमार्हन्त्यम् ? 'भूर्भुवःस्वस्त्रयीशानं' भूः रसातलं भुवः-मर्त्यलोकः स्वः-स्वर्गः एतेषां या Page #7 -------------------------------------------------------------------------- ________________ त्रयी-त्रिकं तस्या ईशानं–नायकम् । भूर्भुवः स्वःशब्दा अव्ययत्वेन प्रसिद्धा ज्ञेयाः । भूर्भुवःशब्दो क्रमेण नागलोक-मर्त्यलोकवाचकाविति बृहन्न्यासे। भूश्च भुवश्च स्त्रश्च भूर्भुवः स्वः, त्रयाणां समाहारः त्रयी, भूर्भुवः स्वः त्रयी भूर्भुवः-वस्त्रयी, भूर्भुवः स्वस्त्रय्या ईशानं भूर्भुवःस्वस्त्रयीशानम् । इत्याद्यश्लोकार्थः ॥१॥ नामा-ऽऽकृति-द्रव्य-भावैः पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नहतः समुपास्महे ॥२॥ व्याख्या-वयम् अर्हतः समुपास्महे इत्यन्वयः । वयमिति शेषः। 'अर्हतः तीर्थकरान् 'समुपास्महे' सेवामहे । अर्हतः किंकुर्वतः ? 'पुनतः' पवित्रीकुर्वतः। किं कर्मतापन्नम् ? 'त्रिजगज्जन' त्रिभुवनलोकम् । त्रयाणां जगतां समाहारः त्रिजगत् , त्रिजगतो जनः त्रिजगज्जनः, तं त्रिजगज्जनम् । कैः ? 'नामा-ऽऽकृति-द्रव्य-भावैः' नामानि ऋषभ इत्यादिकानि, आकृतयः-प्रतिमाः, द्रव्याणि-जिनजीवाः, भावाःसमवसरणस्था अर्हन्तः तैः। नामानि च आकृतयश्च द्रव्याणि च भावाश्च नामा-ऽऽकृति-द्रव्य-भावास्तैः। एतदर्थप्रतिपादिका गाथा चेयम् - "नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ। दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ॥” इति। कस्मिन् ? 'क्षेत्रे' पञ्चभरतैरावत-विदेहलक्षणे । कथम्भूते क्षेत्रे ? 'सर्वस्मिन् सकले। १ "भू सत्तायामु" इत्यतः "मिथि-रज्युषि-तृ-श-भू-वष्टिम्यः कित्' (उ• ९७१) इत्यसि उवादेशे पृषोदरादित्वादकारलोपे च भूस् भुवस् प्रथाकर्म नाग़-मनुष्यलोकवाचकौ” इति "स्वरादयोऽव्ययम्" इति सिद्भहेम १-१-३० सूत्रबृहन्न्यासे ॥ Page #8 -------------------------------------------------------------------------- ________________ 'च' पुनः। कस्मिन् ? 'काले' उत्सर्पिण्यवसर्पिणीरूपे। कथम्भूले काले ? 'सर्वस्मिन् समये । इति द्वितीयश्लोकार्थः ॥२॥ आदिम पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, वृषभस्वामिनं स्तुमः ॥३॥ व्याख्या-वयं वृषभस्वामिनं स्तुम इत्यन्वयः । वयमिति शेषः । वृषभश्चासौ स्वामी च वृषभस्वामी, तं वृषभस्वामिन-वृषभ इति नाना प्रभुम् । 'स्तुमः' स्तुतिं कुर्मः, “ष्टुंग्क् स्तुतौ" । वृषभस्वामिनं किंलक्षणम् ? 'पृथिवीनाथं' राजानम् । पृथिव्या नाथः पृथिवीनाथः, तं पृथिवीनाथम् । पृथिवीनाथं किंविशिष्टम् ? 'आदिम' प्रथमम् । पुनः किंलक्षणं वृषभस्वामिनम् ? 'निष्परिग्रहं' भिक्षुम् । निर्गतः परिग्रहादिति निष्परिग्रहः, तं निष्परिग्रहम् । किंलक्षणं निष्परिग्रहम् ? आदिमप्रथमम् । पुनः किम्भूतं वृषभस्वामिनम् ? 'तीर्थनाथम्' अर्हन्तम् । तीर्थस्य नाथः तीर्थनाथः, तं तीर्थनाथम् । किम्भूतं तीर्थनाथम् ? 'आदिम' प्रथमम् । इति तृतीयश्लोकार्थः ॥३॥ अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलादर्शसङ्क्रान्तजगतं स्तुवे ॥४॥ व्याख्या--अहम् अजितं स्तुवे इत्यन्वयः। अहमिति शेषः । 'अजितम्' अजितनामानं द्वितीयतीर्थकरं 'स्तुवे' स्तुतिं कुर्वे । किंलक्षणमजितम् ? 'अर्हन्तम्' अर्हति-त्रिभुवनकृतायाः पूजाया योग्यो भवति इत्यर्हन् , तम् अर्हन्तम् , तीर्थकरमित्यर्थः । पुनः किंलक्षणमजितम् ? 'विश्वकमलाकरभास्कर' विश्व-जगत् तदेव कमलाकरः-सरोजखाति Page #9 -------------------------------------------------------------------------- ________________ तत्र भास्करः सूर्यः प्रबोधकत्वात् । कमलानाम् आकरः कमलाकरः, विश्वमेव कमलाकरः विश्वकमलाकरः, विश्वकमलाकरे भास्करः विश्वकमलाकर भास्करः तम् । पुनः किंलक्षणमजितम् ? 'अम्लान केवलादर्शसङ्क्रान्तजगतम्' अम्लानः-- सशोभो यः केवलादर्श:- केवलज्ञानदर्पणः तेन सङ्क्रान्तानि –प्रतिबिम्बितानि जगन्ति - भुवनानि यस्मिन् स तम् । न म्लानः अम्लानः, केवलमेव आदर्शः केवलादर्शः, अम्लानश्वासौ केवलादर्शश्च अम्लानकेवलादर्शः, सङ्क्रान्तानि च तानि जगन्ति च सङ्क्रान्तजगन्ति, अम्लानकेवलादर्शेन सङ्क्रान्तजगन्ति यस्मिन् सोऽम्लानकेवलादर्शसङ्क्रान्तजगत्, तम् अम्लानकेवलादर्शसङ्क्रान्तजगतम् । इति चतुर्थश्लोकार्थः ॥ ४ ॥ विश्वभव्यजनारामकुल्यातुल्या जयन्ति ताः । देशनासमये वाचः, श्रीसम्भवजगत्पतेः ||५|| व्याख्या— श्रीसम्भवजगत्पतेः देशनासमये वाचो जयन्ति इत्यन्वयः । श्रिया -लक्ष्म्या युक्तो यः सम्भवः - सम्भवनामा जगत्पतिःविश्वस्वामी तस्य । श्रिया युक्तः सम्भवः श्रीसम्भवः, जगतां पतिर्जगत्यतिः, श्रीसम्भवश्चासौ जगत्पतिश्च श्रीसम्भवजगत्पतिः, तस्य श्रीसम्भवजगत्पतेः । 'देशनासमये' धर्मोपदेशप्रस्तावे । देशनायाः समयः देशनासमयः, तस्मिन् देशनासमये । 'वाचः ' गिरः । 'जयन्ति' सर्वोत्कर्षेण वर्तन्त इत्यर्थः, “जि जये" इति धातुः । किंलक्षणा वाचः ? 'विश्वभव्य जनारामकुल्यातुल्याः' विश्वे- समस्ता ये भव्यजनाः - भव्यप्राणिनः त एव आरामाः - वनानि तत्र कुल्यातुल्याः - सारणिसदृशाः, विश्वेषु - जगत्सु ये भव्यजना इति वा । भव्याश्च ते जनाश्च भव्यजनाः, Page #10 -------------------------------------------------------------------------- ________________ विश्वे च ते भव्यजनाश्च विश्वभव्यजनाः, विश्वभव्यजना एव आरामाः विश्वभव्यजनारामाः, कुल्यानां तुल्याः कुल्यातुल्याः, विश्वभव्यजनारामेषु कुल्यातुल्या विश्वभव्यजनारामकुल्यातुल्याः । पुनः किम्भूता वाचः ? ' ताः' प्रसिद्धाः । इति पञ्चमश्लोकार्थः ||५|| अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । दद्यादमन्दमानन्दं, भगवानभिनन्दनः || ६ || व्याख्या— अभिनन्दनः आनन्दं दद्याद् इत्यन्वयः । 'अभिनन्दनः' अभिनन्दननामा [ चतुर्थो जिनः ] 'आनन्द' प्रमोदं 'दद्याद्' दिश्यात्, “डुदाञ् दाने” इति धातुः । किंलक्षणोऽभिनन्दनः ? 'अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः' अनेकान्तमतं - स्याद्वादमतं तदेव अम्भोधिः - समुद्रः तस्य समुल्लासनं समुद्दीपनं तत्र चन्द्रमाः - विधुः । न विद्यते एकान्तो यत्र तद् अनेकान्तम्, अनेकान्तं च तद् मतं च अनेकान्तमतम्, अनेकान्तमतमेव अम्भोधिः अनेकान्तमताम्भोधिः, अनेकान्तमताम्भोधेः समुल्लासनं अनेकान्तमताम्भोधिसमुल्लासनम्, अनेकान्तमताम्भोधिसमुल्लासने चन्द्रमाः अनेकान्तमताम्भोधिसमुल्लासनचन्द्रमाः । किंलक्षणमानन्दम् ? [ अमन्दं ' ] सज्जं कार्यकरणक्षममित्यर्थः, अनल्पमिति वा । किंलक्षणोऽभिनन्दनः ? 'भगवान्' "भगोऽर्क १ ज्ञान २ माहात्म्य ३ यशो ४ वैराग्य ५ मुक्तिषु ६ । रूप ७ वीर्य ८ प्रयत्ने९ च्छा १० श्री ११ धर्मै १२ श्वर्य १३ योनिषु १४ ॥” (हैमा - नेकार्थ द्विस्वरकाण्ड श्लो० ५२) अर्क -योन्यर्थी वर्जयित्वा अत्र भगशब्दार्था ज्ञेयाः, भगः अस्यास्तीति भगवान् । इति षष्ठ श्लोकार्थः ॥ ६ ॥ " Page #11 -------------------------------------------------------------------------- ________________ धुसकिरीटशाणायोत्तेजिताहिनखावलिः। भगवान् सुंमतिखामी, तनोत्वभिमतानि वः ॥७॥ व्याख्या-सुमतिस्वामी वः अभिमतानि तनोतु इत्यन्वयः । सुमतिः-सुमतिनामी स्वामी प्रभुः । सुष्टु-शोभना मतिर्यस्य सः सुमतिः, सुमतिश्चासौ स्वामी च सुमतिस्वामी । 'वः' युष्माकम् । अभिमतानि-वाञ्छितानि । 'तनोतु' विस्तारयतु, "तनूयी विस्तारे" इति धातुः। किंलक्षणः सुमतिस्वामी ? 'धुसकिरीटशाणामोत्तेजितांहिनखावलिः' द्युसदः-देवाः तेषां किरीटानि-मुकुटानि तानि एव शाणाःनिकषाः तेषाम् अग्राणि-उपरितनभागाः तैः उत्तेजिता-उच्छाता अहिनखावलिः-चरणनखश्रेणियस्य सः । द्युसदां किरीटानि बुसकिरीटानि, घुसत्किरीटान्येव शाणाः घुसकिरीटशाणाः, धुसकिरीटशाणानाम् अग्राणि घुसंकिरीटशाणाग्राणि, अंड्योर्नखाः अहिनखाः, अहिनखानाम् आवलिः अहिनखावलिः, घुसकिरीटशाणाप्रैः उत्तेजिता धुसत्किरीटशाणाप्रोत्तेजिता, द्युसकिरीटशाणागोत्तेजिता अहिनखावलियस्य सः धुसकिरीटशाणायोत्तेजितांहिनखावलिः। पुनः किंविशिष्टः सुमतिस्वामी ? 'भगवान्' भगोऽस्यातीति भगवान्। भगशब्दार्थः पूर्वोक्तो शेयः । इति सप्तमश्लोकार्थः ॥७॥ पद्मप्रभप्रभोर्दैहभासः पुष्णन्तु वः शिवम् । अन्तरङ्गारिमथने, कोपाटोपादिवारुणाः ॥८॥ १ .ऐश्वर्यस्य समप्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, घण्णां भग इतीङ्गना ॥१॥ इत्यप्युच्यते ॥ २ उपसगैपूर्वकस्य “शोंच तन्करण" इति धातोः कान्तमिदै रूपम् ।। Page #12 -------------------------------------------------------------------------- ________________ व्याख्या – पद्मप्रभप्रभोर्देहभासः वः शिवं पुष्णन्तु इत्यन्वयः पद्मप्रभः - पद्मप्रभनामा प्रभुः - स्वामी । पद्मवत् प्रभा यस्य सः पद्मप्रभः, पद्मशब्देन अत्र पद्मरागो ज्ञेयः, “पदैकदेशे पदसमुदायोपचरिद्” इतिन्यायात्, पद्मप्रभश्चासौ प्रभुश्च पद्मप्रभप्रभुः तस्य । 'देहभासः' शरीरकान्तयः । देहस्य भासः देहभासः । 'वः' युष्माकम् । 'शिव' कल्याणम् । 'पुष्णन्तु' पुष्टीकुर्वन्तु, "पुष्श पुष्टौ ” इति धातुः । कथम्भूता देहभासः ? 'अरुणाः' रक्ताः । अत्रोत्प्रेक्षा 'इव' उत्प्रेक्ष्यते । 'कीपाटोपात ' क्रोधावेशात् । कीपस्य आटोपः कोपाटोपः, तस्मात् कोपाटौपात् । कस्मिन् ? ‘अन्तरङ्गारिमथने' अन्तरङ्गाः - आभ्यन्तरा ये अरेयः -मद-मदन- क्रोध-लोभ- मायाद्यास्तेषां मंथन - विलोडनं तत्र अन्तरङ्गाश्च ते अरयश्च अन्तरङ्गारयः, अन्तरङ्गारीणां मथनं अन्तरङ्गारिमथनम्, तस्मिन् अन्तरङ्गारिमथने । इत्यष्टम श्लोकार्थः ॥ ८॥ Ï श्री सुपार्श्व जिनेन्द्राय, महेंन्द्रमहितहिये । नमंश्चतुर्वर्णसङ्घगगनाभोगभास्वते ॥९॥ , " व्याख्या — श्रीसुपार्श्वजिनेन्द्राय नमः अस्तु इत्यन्वयः । श्रियाप्रातिहार्यलक्ष्म्या युक्तः सुपार्श्वः -सुपार्श्वाभिधः जिनेन्द्रः- तीर्थकृत् तस्मै । सुष्ठु - शोभने पार्श्व-समीपं यस्य सः सुपार्श्वः श्रिया युक्तः सुपार्श्वः श्रीसुपार्श्वः, जिनानाम् इन्द्रः जिनेन्द्र श्रीसुपार्श्वश्वासौ जिनेन्द्रश्व श्रीसुपविजिनेन्द्रः, तस्मै श्रीसुपविजिनेन्द्राय । 'नमः' नमस्कारो भवतु । अस्त्विति शेषः, “यंत्रान्यत् क्रियापदं न श्रयते तत्रास्ति भवतीत्यादिक प्रयुज्यते" इतिन्यायात् । किविशिष्टाय श्रीसुपाश्वजिनेन्द्रीय ? 'महेन्द्र-' महितार्ह्रये' महेन्द्राः- वासवाः तैः महितो- पूजितौ अह्री चरणों यस्य Page #13 -------------------------------------------------------------------------- ________________ सः,“महेन्द्रो वासवे शैले" इत्यनेकार्थे(हैम० त्रिस्वरकाण्ड श्लो०११९३) महान्तश्च ते इन्द्राश्चेति वा । महेन्द्रर्महितौ महेन्द्रमहितो, महेन्द्रमहिती अही यस्य सः महेन्द्रमहितांहिः, तस्मै महेन्द्रमहितांहये । पुनः किंलक्षणाय श्रीसुपार्श्वजिनेन्द्राय ? 'चतुर्वर्णसङ्घगगनाभोगभास्वते' चत्वारः-चतुःसङ्ख्याका वर्णाः-साधु-साध्वी-श्रावक-श्राविकालक्षणा यत्र स एवंविधो यः सङ्घः-समुदायः स एव गगनम्-आकाशं तस्य आभोगः-विस्तारः तत्र भास्वान्-सूर्यः तस्मै । चत्वारो वर्णा यत्र सः चतुर्वर्णः, चतुर्वर्णश्चासौ सङ्घश्च चतुर्वर्णसङ्घः, चतुर्वर्णसङ्घ एव गगनं चतुर्वर्णसङ्घगगनम् , चतुर्वर्णसङ्घगगनस्य आभोगः चतुवर्णसङ्घगगनाभोगः, चतुर्वर्णसङ्घगगनाभोगे भास्वान् चतुर्वर्णसङ्घगगनाभोगभास्वान् तस्मै । इति नवमश्लोकाक्षरार्थः ॥९॥ चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्ज्वला । मूर्तिमूर्त्तसितध्याननिर्मितेव श्रियेऽस्तु वः ॥१०॥ व्याख्या--चन्द्रप्रभप्रभोः मूर्तिः वः श्रियेऽस्तु इत्यन्वयः । चन्द्रप्रभः चन्द्रप्रभनामा अष्टमतीर्थकृत् प्रभुः-स्वामी तस्य । चन्द्रवत् प्रभा यस्य सः चन्द्रप्रभः, चन्द्रप्रभश्चासौ प्रभुश्च चन्द्रप्रभप्रभुः तस्य । 'मूर्तिः' कायः। 'वः' युष्माकम् । 'श्रिये लक्ष्म्यै अस्तु । किंलक्षणा मूर्तिः ? 'चन्द्रमरीचिनिचयोज्ज्वला' चन्द्रः-विधुः तस्य मरीचयः-किरणाः तेषां निचयः-समूहः तदिव उज्ज्वला-धवला । चन्द्रस्य मरीचयः चन्द्रमरीचयः, चन्द्रमरीचीनां निचयः चन्द्रमरीचिनिचयः, चन्द्रमरीचिनिचयवद् उज्ज्वला चन्द्रमरीचिनिचयोज्ज्वला । 'इव' उत्प्रेक्ष्यते । 'मूर्त्तसितध्याननिर्मिता' मूर्त-मूर्तिमत् सशरीरमिति यावद् यत् सितध्यानं ___ Page #14 -------------------------------------------------------------------------- ________________ शुक्लध्यानं तेन निर्मिता - निष्पादिता । सितं च तद् ध्यानं च सितध्या-" नम्, मूर्त च तत् सितध्यानं च मूर्चसितध्यानम्, मूर्त्तसितध्यानेन निर्मिता मूर्त्तसितध्याननिर्मिता । इति दशम श्लोकार्थः ॥१०॥ करामलकवद् विश्वं, कलयन केवलश्रिया । अचिन्त्यमाहात्म्यनिधिः, सुविधिर्बोधयेऽस्तु वः ॥ ११॥ व्याख्या — सुविधिः वः बोधयेऽस्तु इत्यन्वयः । 'सुविधिः' सुविघिनामा नवमतीर्थकरः । सुष्ठु - शोभनो विधिर्यत्र स सुविधिः । 'वः' युष्माकम् । बोधिः - जिनधर्मप्राप्तिः तस्यै, बोधिशब्दः स्त्रीलिङ्गः । 'अस्तु' भवतु । सुविधिः किं कुर्वन् ? ' कलयन् ' जानन् । किं कर्मतापन्नम् ? 'विश्व' जगत् । कया ? 'केवलश्रिया' केवलज्ञानकमलया, “पदैकदेशे पदसमुदायोपचाराद्” इतिन्यायात् केवलशब्देन केवलज्ञानमुच्यते । केवलस्य श्रीः केवलश्रीः, तया केवलश्रिया । किंवत् ? 'करामलकवत्' हस्तगतामलकफलवदित्यर्थः । करे आमलकं करामलकम्, करामलकमिव करामलकवत् । पुनः किंलक्षणः सुविधिः ? ' अचिन्त्यमाहात्म्य - निधिः' अचिन्त्यं-विचारयितुमशक्यं यद् माहात्म्यम् - अनुभावः तस्य निधिः - निधानम् । चिन्तनार्ह चिन्त्यम्, न चिन्त्यम् अचिन्त्यम्, महांवासौ आत्मा च महात्मा, महात्मनः भावः माहात्म्यम्, अचिन्त्यं च तद् माहात्म्यं च अचिन्त्यमाहात्म्यम्, अचिन्त्यमाहात्म्यस्य निधिः अचिन्त्यमाहात्म्यनिधिः । इत्येकादश श्लोकार्थः ॥ ११ ॥ १ करे-हस्ते अमलं-निर्मलं यत् कं जलं तद्वद्, इत्येवमपि केचिद् व्याख्यान्ति ॥ Page #15 -------------------------------------------------------------------------- ________________ -: - - सत्त्वानों परमानन्दकन्दोंढ़ेदनवाम्बुदः । स्थाद्वादामृतनिःस्यन्दी, शीतलः पातु वो जिनः ॥१२॥ व्याख्या शीतलः वः पातु इत्यन्वयः । 'शीतलः' शीतलनामा दशमोऽर्हन् 'वः' युष्मान् 'पातु' रक्षतु, “पांक् रक्षणे" इति धातुः। किंलक्षणः शीतलः ? 'परमानन्दकन्दोद्भेदनवाम्बुदः' परमःप्रकृष्टो य आनन्दः-हर्षः स एव कन्दः-भूमिगतवनस्पतिविशेषः तस्य उद्भेदः-प्रकटता तत्र नवः-नवीनः अम्बुदः मेघः । परमश्चासौ आनन्दश्च परमानन्दः, परमानन्द एव कन्दः परमानन्दकन्दः, परमानन्दकन्दस्य उद्भेदः परमानन्दकन्दोद्भेदः, नवश्चासौ अम्बुदश्व नवाम्बुदः, परमानन्दकन्दोद्भेदे नवाम्बुदः परमानन्दकन्दोद्भेदनवाबुदः । केषाम् ? 'सत्त्वानां' प्राणिनाम् । पुनः किंलक्षणः शीतलः । 'स्याद्वादामृतनिःस्यन्दी' स्याद् इत्यव्ययपदम् अनेकान्तवाचकम्, तस्य वादः-जल्पनं स्याद्वादः-अनेकान्तवादः तदेव अमृत-पीयूष तर्दै निःस्यन्दतें-श्रवतीत्येवंशीलः, "स्यन्दौङ् श्रवणे" इति धातुः भ्वादिरात्मनेपदी, अत्र अन्तस्थीयो यकारः सकारे ज्ञेयो न तु पवर्गीयः प:। स्याद् वादः स्याद्वादः, स्याद्वाद एवं अमृतं स्याद्वादामृतम् , स्याद्वादामृत निःस्यन्दत इत्येवंशीलः स्याद्वादामृतनिःस्यन्दी। पुन: किलक्षणः शीतल ? जिनः केवली । इति द्वादशश्लोकार्थः ।।१२॥ भवरोगाऽऽत्तजन्तूनामगर्दवारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयासः श्रेयसैऽस्तु वः ॥१३॥ व्याख्या-श्रेयांसः श्रेयसे वः अस्तु इत्यन्वयः । श्रेयांसः' श्रेयांसनामा एकादशोऽर्हन् 'श्रेयसे' कल्याणाय मोक्षाय वा 'वः' युष्माकम् . . . Page #16 -------------------------------------------------------------------------- ________________ ११ 'अस्तु' भवतु । कथम्भूतः श्रेयांसः ? 'अगदङ्कारदर्शनः' वैद्यनिरीक्षणः । अगदङ्कारस्य दर्शनमिव दर्शन यस्य सः अगदङ्कारदर्शनः । केषाम् ? 'भवरोगाऽऽत्तेजन्तूनाम्' भवः - संसारः स एव जन्म - जरा - मरणादिदुःखहेतुत्वाद् रोगः- आमयः तेन आर्त्ताः पीडिता ये जन्तवः - प्राणिनः तेषाम् । भव एव रोगः भवरोगः, भवरोगे आर्त्ता भवरोगार्त्ताः, भवरोगाऽऽर्त्ताश्च ते जन्तवश्च भवरोगाऽऽर्त्तजन्तवः, तेषां भवरोगाऽऽ--- जन्तूनाम् । पुनः किंलक्षणः श्रेयांसः ? 'निःश्रेयसश्रीरमणः' निःश्रेयसः --- मोक्षः तस्य श्री : - लक्ष्मीः तस्या रमणः - भर्त्ता । निःश्रेयसस्य श्री :: निःश्रेयसश्रीः, निःश्रेयसश्रियः रमणः निःश्रेयसश्रीरमणः । इति त्रयोंदशश्लोकार्थः ॥१३॥ विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । सुरा - सुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥ व्याख्या -- वः वासुपूज्यः पुनातु इत्यन्वयः । ' वः' युष्मान् । 'वासुपूज्यः' वासुपूज्यनामा द्वादशतीर्थकरः । वसुभिः - देवविशेषैः पूज्यो वसुपूज्यः, वसुपूज्यस्यापत्यं वासुपूज्यः । 'पुनातु' पवित्रयतु, “ पुग्श् पवने” इति धातुः । किंलक्षणो वासुपूज्यः ? 'पूज्यः' अर्च्यः । कैः ? 'सुरा - ऽसुर-नरैः' सुराः - स्वर्गवासिनो देवाः असुराः -- पातालवासिनः नराः - मनुष्याः तैः । सुराश्व असुराश्च नराश्च सुरा - ऽसुर-नराः, तैः सुरा - सुर-नरैः । पुनः किंविशिष्टो वासुपूज्यः ? 'विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः' जगदुपकृतीभूतार्हत्कर्मनिर्माणः । विश्वेषामुपकारकं विश्वोपकारकम्, अविश्वोपकारक विश्वोपकारकं भूतमिति विश्वोपकारकीभूतम्, तीर्थं करोतीति तीर्थकृत्, तीर्थकृच्च तत् कर्म च तीर्थ- Page #17 -------------------------------------------------------------------------- ________________ १२ कृत्कर्म, विश्वोपकारकीभूतं च तत् तीर्थकृत्कर्म च विश्वोपकारकीभूततीर्थकृत्कर्म, विश्वोपकारकी भूततीर्थकृत्कर्मणो निर्मितिर्यस्य स विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः । इति चतुर्दशश्लोकाक्षरार्थः ॥ १४ ॥ विमलस्वामिनो वाचः कतकक्षोदसोदराः । जयन्ति त्रिजगच्चे तो जलनैर्मल्यहेतवः ॥१५॥ - व्याख्या — विमलस्वामिनो वाचो जयन्तीत्यन्वयः । विमल :विमलनामा स्वामी - प्रभुः तस्य । विगतो मलो यस्मात् सः विमलः, विमलश्वास स्वामी च विमलस्वामी, तस्य विमलस्वामिनः । ' वाचः ' 'गिरः । ' जयन्ति' सर्वोत्कर्षेण वर्तन्त इत्यर्थः । किंलक्षणा वाचः ? ' कतकक्षोदसोदराः ' कतकं - कतकफलं तस्य क्षोदः - चूर्णः तस्य सोदरा:तुल्याः । कतकस्य क्षोदः कतकक्षोदः, कतकक्षोदस्य सोदराः कलकक्षोदसोदराः । पुनः किंलक्षणा वाचः ? 'त्रिजगच्चेतोजलनैर्मल्यहेतवः' त्रिभुवनमनः सलिलविमलताकारणम् । त्रयाणां जगतां समाहारः त्रिजगत्, त्रिजगतः चेतांसि त्रिजगच्चेतांसि, त्रिजगच्चेतांसि एव जलानि त्रिजगच्चेतोजलानि, निर्मलस्य भावः नैर्मल्यम्, त्रिजगच्चेतोजलस्य नैर्मल्यं त्रिजगच्चतोजलनैर्मल्यम्, त्रिजगच्चेतोजलनैर्मल्यस्य हेतवः त्रिजग'चेतोजलनैर्मल्यहेतवः । कोऽर्थः ? यथा कतकफलचूर्णेन सकलुषमपि सलिलं निर्मलीभवति तथा भगवद्वाण्या सकलुषाण्यपि त्रिजगचेतांसि निर्मलीभवन्ति । इति पञ्चदशश्लोकार्थः ॥ १५॥ स्वयम्भूरमणस्पर्द्धा, करुणारसवारिणा । अनन्तजिदनन्तां वः प्रयच्छतु सुखश्रियम् ॥ १६ ॥ Page #18 -------------------------------------------------------------------------- ________________ १३ व्याख्या - अनन्तजित् सुखश्रियं वः प्रयच्छतु इत्यन्वयः । 'अनन्तजिद्' अनन्तनामा अर्हन् । 'सुखश्रियं' शर्मलक्ष्मीम् । सुखस्य श्रीः सुखश्रीः ताम् । 'वः' युष्माकम् । 'प्रयच्छतु' प्रददातु, “दाम् दाने" इति धातुः । किंलक्षणां सुखश्रियम् ? 'अनन्त' न विद्यते अन्तो यस्याः सा अनन्ता ताम्, अविनाशामित्यर्थः । कथम्भूतः अनन्तजित् ? 'स्वयम्भूरमणस्पर्द्ध' स्वयम्भूरमणं - स्वयम्भूरमणनामानमन्त्यसागरं स्पति इत्येवंशीलः स्वयम्भूरमणस्पर्द्धा । केन ? 'करुणारसवारिणा ' करुणायाः - दयाया यो रसः - स्वादः स एव वारि - जलं तेन, अथवा करुणाख्यः तृतीयो रसः । करुणाया रसः करुणारसः, करुणारस एव वारि करुणारसवारि, तेन करुणारसवारिणा, "रसः स्वादे जले वीर्ये" इत्यनेकार्थे (हैम ० द्विस्वरकाण्ड श्लो० ५९० ) । इति षोडश श्लोकार्थः ॥१६॥ कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् । चतुर्धा धर्मदेष्टारं, धर्मनाथमुपास्महे ॥ १७ व्याख्या - धर्मनार्थं वयम् उपास्महे इत्यन्वयः । धर्मः - धर्मनामा K नाथः - प्रभुः । धर्मश्चासौ नाथश्च धर्मनाथः, तं धर्मनाथम् । वयमिति शेषः।‘उपास्महे' सेवामहे, उपपूर्वः “आसिक् उपवेशने” इति धातुः । किंलक्षणं धर्मनाथम् ? 'कल्पद्रुमसधर्माण' सुरतरुसदृशम् । कल्पश्चासौ द्रुमश्च कल्पद्रुमः, समानः धर्मो यस्य स सधर्मा, कल्पद्रुमस्य धर्मा कल्पद्रुमसधर्मा, तं कल्पद्रुमसधर्माणम् । कस्याम् ? 'इष्टप्राप्तौ ' वाञ्छितलब्धौ । इष्टानां प्राप्तिः इष्टप्राप्तिः, तस्यामिष्टप्राप्तौ । केषाम् ? 'शरीरिणां' प्राणिनाम् । शरीरं विद्यते येषां ते शरीरिणः, तेषां शरीरिणाम् । पुनः किंलक्षणं धर्मनाथम् ? 'धर्मदेष्टारम्' धर्मोपदेशकम् । धर्मस्य Page #19 -------------------------------------------------------------------------- ________________ १४ देष्टा धर्मदेष्टा, तं धर्मदेष्टारम् । कथम् ? 'चतुर्धा' चतुर्भिः प्रकारै:दान-शील-तपो-भावरूपैः । चत्वारः प्रकारा अस्येति चतुर्धा । इति सप्तदशश्लोकार्थः ॥ १७॥ सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः । मृगलक्ष्मा तमःशान्त्यै, शान्तिनाथजिनोऽस्तु वः ॥ १८ ॥ व्याख्या— शान्तिनाथजिनः वः तमः शान्त्यै अस्तु इत्यन्वयः । शान्तिः शान्तिनामा नाथः - प्रभुः जिनः - केवली । शान्तिश्वासौ नाथश्व शान्तिनाथः, शान्तिनाथश्वासौ जिनश्व शान्तिनाथजिनः । 'वः' युष्मा - कम् | 'तमः शान्त्यै' अज्ञानप्रशमनाय । तमसः शान्तिः तमः शान्तिः, तस्यै तमः शान्त्यै । 'अस्तु' भवतु । किंलक्षणः शान्तिनाथजिनः ? 'मृगलक्ष्मा' हरिणलाञ्छनः । मृगस्य लक्ष्म यस्य स मृगलक्ष्मा । पुनः किंलक्षणः शान्तिनाथजिनः 'सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः’ सुधासोदरा - अमृततुल्या या वाग् - गीः सा एव ज्योत्स्ना - चन्द्रिका तया निर्मलीकृतानि - धवलीकृतानि दिशां - ककुभां मुखानि - वदनानि येन सः । सुधायाः सोदरा सुधासोदरा, सुधासोदरा चासौ वाक् च सुधासोदरवाक्, सुधासोदरवाग् एव ज्योत्स्ना सुधासोदरवाग्ज्योत्स्ना, अनिर्मलानि निर्मलानि कृतानि इति निर्मलीकृतानि, दिशां मुखानि दिङ्मुखानि, सुधासोदरवाग्ज्योत्स्नया निर्मलीकृतानि सुधासोदरवारज्योस्नानिर्मलीकृतानि, सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतानि दिङ्मुखानि येन स सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः । इत्यष्टादशश्लोकार्थः ॥ श्रीकुन्थुनाथो भगवान्, सनाथोऽतिशयर्द्धिभिः । सुरा - सुर-नृनाथानामेकनाथोऽस्तु वः श्रिये ॥ १९ ॥ Page #20 -------------------------------------------------------------------------- ________________ व्याख्या-श्रीकुन्थुनाथः वः श्रिये अस्तु इत्यन्वयः । श्रियाअष्टप्रातिहार्यलक्ष्म्या युक्तः कुन्थुः-कुन्थुनामा नाथः-प्रभुः। 'श्रिया युक्तः कुन्थुः श्रीकुन्थुः, श्रीकुन्थुश्चासौ नाथश्च श्रीकुन्थुनाथः । 'वः युष्माकं "श्रिये' लक्ष्यै 'अस्तु' भवतु। किम्भूतः श्रीकुन्थुनाथः ? 'भगवान्' भगोऽस्यास्तीति भगवान् , भगशब्दार्थः पूर्वोक्तो ज्ञेयः । पुनः किंलक्षणः श्रीकुन्थुनाथः ? 'सनाथः' सहितः । काभिः ? 'अतिशर्द्धिभिः' अतिशयाः-देहाद्भुतादिकाः चतुस्त्रिंशत् तेषां ऋद्धयःविभूतयः ताभिः । अतिशयानां ऋद्धयः अतिशयर्द्धयः, ताभिः अतिशयर्द्धिभिः। पुनः किंलक्षणः श्रीकुन्थुनाथः ? 'एकनाथः' एकस्वामी। एकश्वासौ नाथश्च एकनाथः । केषाम् ? 'सुरा-ऽसुर-नृनाथानां' देवेन्द्रा-ऽसुरेन्द्र-चक्रवर्तिनाम् । सुराः-देवलोकवासिनः असुराः-पातालवासिनः नरः-मनुष्याः तेषां नाथाः-प्रभवः तेषाम् । सुराश्च असुराश्च नरश्च सुरा-ऽसुर-नरः, सुरा-ऽसुर-नृणां नाथाः सुरा-ऽसुर-नृनाथाः, तेषां सुरा-ऽसुर-नृनाथानाम् । इत्येकोनविंशतितमश्लोकार्थः ॥१९॥ अरनाथः स भगवाँश्चतुर्थारनभोरविः। चतुर्थपुरुषार्थश्रीविलासं वितनोतु वः ॥२०॥ व्याख्या-अरनाथः वः चतुर्थपुरुषार्थश्रीविलासं वितनोतु इत्यन्वयः । अरः-अरनामा नाथः-प्रभुः । अरश्चासौ नाथश्च अरनाथः । 'वः' युष्माकम् । 'चतुर्थपुरुषार्थश्रीविलासं' चतुर्थपुरुषार्थः-मोक्षः, "त्रिवर्गो धर्मकामार्थश्चतुर्वर्गः समोक्षकः” इति वचनात् , तस्य श्रीःलक्ष्मीः तस्या विलासः-क्रीडाविशेषः तम् । चतुर्णा सङ्ख्यापूरकः चतुर्थः, पुरुषस्य अर्थः पुरुषार्थः, चतुर्थश्चासौ पुरुषार्थश्च चतुर्थपुरुषार्थः, Page #21 -------------------------------------------------------------------------- ________________ १६ चतुर्थपुरुषार्थस्य श्रीः चतुर्थपुरुषार्थ श्रीः, चतुर्थपुरुषार्थश्रियः विलासः चतुर्थपुरुषार्थ श्रीविलासः, तं चतुर्थपुरुषार्थ श्रीविलासम् । किंलक्षणोऽरनाथः ? 'सः' प्रसिद्धः । पुनः किंलक्षणोऽरनाथ: : 'भगवान्' भगोऽस्यास्तीति भगवान्, भगशब्दार्थः पूर्वोक्तो ज्ञेयः । पुनः किंलक्षणोऽरनाथः ? 'चतुर्थारनभोरविः' चतुर्थारः - दुष्षमसुषमाख्यः स एव नभः - गगनं तत्र रविः सूर्यः तत्प्रकाशकत्वात् । चतुर्णां सङ्ख्यापूरकः चतुर्थः, चतुर्थश्चासौ अरश्च चतुर्थारः, चतुर्थार एव नभः चतुर्थारनभः, चतुथरनभसि रविः चतुर्थारनभोरविः । इति विंशतितम श्लोकार्थः ॥ २० ॥ सुरा - सुर-नराधीशमयूरनववारिदम् । कर्मन्मूलने हस्तिम मल्लिमभिष्टुमः ॥ २१ ॥ व्याख्या -- वयं मल्लिम् अभिष्टुमः इत्यन्वयः । वयमिति शेषः । 'मल्लिं' मल्लिनामानम् एकोनविंशतितमतीर्थकरम् 'अभिष्टुमः' स्तुतिं कुर्मः, “टुंगुक् स्तुतौ” इति धातुः । किंलक्षणं मल्लिम् ? 'सुराऽसुर-नराधीशमयूरनववारिदं' देव-दनुज-मनुजपतिकेकिनवीनमेघम्, तद्धर्षोत्पादकत्वात् । सुराश्व असुराश्च नराश्व सुराऽसुर-नराः, सुरासुर-नराणाम् अधीशाः सुरा - ऽसुर-नराधीशाः, सुरा-ऽसुर-नराघीशा एव मयूराः सुरासुर - नराधीशमयूराः, वारि ददातीति वारिदः, नवश्वासौ वारिदश्व नववारिदः, सुराऽसुर-नराधीशमयूरेषु नववारिदः, सुरा - सुर-नराधीशमयूरनववारिदः, तम् सुरा -ऽसुर-नराधीशमयूरनववारिदम् । पुनः किंविशिष्ट मल्लिम् ? ' हस्तिमल्लम्' ऐरावणम् । कस्मिन् ? 'कर्मद्रून्मूलने' कर्माणि - ज्ञानावरणादीनि तान्येव द्रवःतरवः तेषाम् उन्मूलनम्—उत्खननं तत्र । कर्माणि एव द्रवः कर्मद्रवः, Page #22 -------------------------------------------------------------------------- ________________ कर्मद्रूणां उन्मूलनं कर्मन्मूलनम् , तस्मिन् कर्मद्रून्मूलने। इत्येकविंशतितमश्लोकार्थः ॥२१॥ जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥२२॥ व्याख्या-वयं मुनिसुव्रतनाथस्य देशनावचनं स्तुम इत्यन्वयः । वयमिति शेषः । मुनिसुव्रतः-मुनिसुव्रतनामा विंशतितमतीर्थकरः नाथःप्रभुः तस्य । सुष्ठु च तद् व्रतं च सुव्रतम् , मुनिवत् सुव्रतं यस्य स मुनिसुव्रतः, मुनिसुव्रतश्चासौ नाथश्च मुनिसुव्रतनाथः, तस्य मुनिसुव्रतनाथस्य । 'देशनावचनं' धर्मोपदेशवचनम् । देशनाया वचनं देशनावचनम् , पुनर्द्वितीयाज्ञापनाय तदिति । 'स्तुमः" स्तवनं कुर्मः, "ष्टुंगा स्तुतौ” इति धातुः । किंलक्षणं देशनावचनम् ? 'जगन्महामोहनिद्राप्रत्यूषसमयोपमं' जगतां "तात्स्थ्यात् तद्व्यपदेशः” इतिन्यायाद् जगजनानां महामोह:-प्रबलमोहनीयकर्मोदयः स एव निद्रा-तन्द्रा तत्र प्रत्यूषसमयः-प्रभातकालः तस्य उपमा यस्य तत् । महाँश्चासौ मोहश्च महामोहः, महामोह एव निद्रा महामोहनिद्रा, जगतां महामोहनिद्रा जगन्महामोहनिद्रा, प्रत्यूषस्य समयः प्रत्यूषसमयः, जगन्महामोहनिद्रायां प्रत्यूषसमयः जगन्महामोहनिद्राप्रत्यूषसमयः, जगन्महामोहनिद्राप्रत्यूषसमयस्य उपमा यस्य तद् जगन्महामोहनिद्राप्रत्यूषसमयोपमम् तद् । इति द्वाविंशतितमश्लोकार्थः ॥२२॥ लुठन्तो नमतां मूनि, निर्मलीकारकारणम् । पारिप्लवा इव नमः, पान्तु पादनखांशवः॥२३॥ Page #23 -------------------------------------------------------------------------- ________________ १८ व्याख्या -नमेः पादनखांशवः पान्तु इत्यन्वयः । नमिः - नमिनामा अर्हन् तस्य । 'पादनखांशवः' चरणनखकिरणाः । पादयोः नखाः पादनखाः, पादनखानां अंशवः पादनखांशवः । ' पान्तु' रक्षन्तु, “पांकू रक्षणे" इति धातुः । 'इव' उत्प्रेक्ष्यते । 'वारिप्लवाः' जलप्रवाहाः । वारिणः प्लवाः वारिप्लवाः । किंलक्षणाः पादनखांशवः ? 'निर्मलीकारकारणं' पवित्रीकारहेतवः । अनिर्मलं निर्मलं करोतीति निर्मलीकारः, निर्मलीकारस्य कारणं निर्मलीकारकारणम् । पुनः किंकुर्वन्तः पादनखांशवः ? 'लुठन्तः' पतन्तः । कस्मिन् ? 'मूर्ध्नि' मस्तके । केषाम् ? जनानामिति शेषः । जनानां किंकुर्वताम् ? 'नमतां' प्रणामं कुर्वताम् । इति त्रयोविंशतितमश्लोकार्थः ॥२३॥ यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः । अरिष्टनेमिर्भगवान्, भूयाद् वोऽरिष्टनाशनः ॥ २४ ॥ व्याख्या—अरिष्टनेमिः वः अरिष्टनाशनः भूयाद् इत्यन्वयः । 'अरिष्टनेमिः' अरिष्टनेमिनामा । 'वः' युष्माकम् । 'अरिष्टनाशनः' उपद्रवनिवारकः । अरिष्टानां नाशनं यस्मात् सः अरिष्टनाशनः । 'भूयाद्' भवतु । किंलक्षणोऽरिष्टनेमिः ? ' यदुवंशसमुद्रेन्दुः' यदुकुलसागरचन्द्रः । यदोः वंशः यदुवंशः, यदुवंश एव समुद्रः यदुवंशसमुद्रः, यदुवंशसमुद्रे इन्दुः यदुवंशसमुद्रेन्दुः । पुनः किंलक्षणः अरिष्टनेमिः ? 'कर्म कक्षहुताशनः' कर्मवनैवैश्वानरः, तद्दाहकत्वात् । कर्माणि एव कक्षः कर्मकक्षः, कर्मकक्षे हुताशनः कर्मकक्षहुताशनः । पुनः किंलक्षणोऽरिष्टनेमिः ? 'भगवान्' भगोऽस्यास्तीति भगवान् । भगशब्दार्थः पूर्वोक्तोऽस्ति । इति चतुर्विंशतितमश्लोकार्थः ॥२४॥ Page #24 -------------------------------------------------------------------------- ________________ कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः॥२५॥ व्याख्या-पार्श्वनाथः वः श्रिये अस्तु इत्यन्वयः । पार्श्वः-पार्श्वनामा नाथः-प्रभुः । पार्श्वश्चासौ नाथश्च पार्श्वनाथः । 'वः' युष्माकम् 'श्रिये' लक्ष्म्यै 'अस्तु' भवतु । किंलक्षणः पार्श्वनाथः ? 'प्रभुः' स्वामी। पुनः किंलक्षणः पार्श्वनाथः ? 'तुल्यमनोवृत्तिः' सशचित्तप्रवृत्तिः । मनसः वृत्तिः मनोवृत्तिः, तुल्या मनोवृत्तिर्यस्य सः तुल्यमनोवृत्तिः । कस्मिन् ? 'कमठे' कमठनाम्नि 'च' पुनः धरणेन्द्रे । धरणश्चासौ इन्द्रश्च धरणेन्द्रः, तस्मिन् धरणेन्द्रे । कमठे 'च' पुन : धरणेन्द्रे किंकुर्वति ? 'कुर्वति' वितन्वति । किं कर्मतापन्नम् ? 'कर्म' कृत्यम् । किंलक्षणं कर्म ? 'स्वोचितं' स्वयोग्यम् । स्वस्य उचितं स्वोचितं तत्। कमठकर्म मेघवर्षणलक्षणं धरणेन्द्रकर्म तु वृष्टिनिवारणलक्षणम् । इति पञ्चविंशतितमश्लोकार्थः ॥२५॥ कृतापराधेऽपि जने, कृपामन्थरतारयोः। ईषद्वाष्पायोभद्रं, श्रीवीरजिननेत्रयोः ॥२६॥ व्याख्या-श्रीवीरजिननेत्रयोः भद्रं भक्तु इत्यन्वयः । श्रियाअष्टप्रातिहार्यलक्ष्म्या युक्तः वीरः-वीरनामा जिन:-अर्हन् तस्य नेत्रेलोचने तयोः। श्रिया युक्तः वीरः श्रीवीरः, श्रीवीरश्चासौ जिनश्च श्रीवीरजिनः, श्रीवीरजिनस्य नेत्रे श्रीवीरजिननेत्रे, तयोः श्रीवीरजिननेत्रयोः । 'भद्रं कल्याणं भवतु इति शेषः । किंलक्षणयोः श्रीवीरजिननेत्रयोः ? 'कृपामन्थरतारयोः' अनुकम्पासूचककनीनिकयोः, “मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि" इत्यनेकार्थे । (हैम त्रिस्वरकाण्ड Page #25 -------------------------------------------------------------------------- ________________ श्लो० ११९०) कृपया मन्थरे कृपामन्थरे, कृपामन्थरे तारे ययोस्ते कृपामन्थरतारे, तयोः कृपामन्थरतारयोः। कस्मिन् ? 'जने' लोके किंलक्षणे जने ? 'कृतापराधेऽपि' विहितागसि अपि । कृतः अपराधः येन स कृतापराधः, तस्मिन् कृतापराधे। किंलक्षणयोः श्रीवीरजिननेत्रयोः ? 'ईषदबाष्पार्द्रयोः' मनागक्षिजलक्लिन्नयोः, “बाष्प उष्माऽक्षिजलयोः" इत्यनेकार्थे (हैंम०द्विस्वरकाण्ड श्लो० ३०९) । बाष्पेण आर्दै बाष्पादें, ईषद् बाप्पार्दै ईषद्बाष्पार्दै, तयोः ईषद्बाष्पादयोः ।सङ्गमकाख्यो दवः षण्मासी यावद् उपसर्ग कृत्वा अक्षुब्धं भगवन्तं ज्ञात्वा पश्चात् स्वर्ग जिगमिषुरिदमाह---'देवार्य ! त्वं स्वेच्छया ब्रज भिक्षार्थमिति, नाधुनाऽहमन्तरायकरः' इत्युक्ते भगवान् आह—अहं निजेच्छया भिक्षायै व्रजामि न केनाऽप्युक्त इति । तदनु सङ्गमकं गच्छन्तं दृष्ट्वा भगवतश्चक्षुषी सबाष्पे जाते—यदयं दुःखभाग् भविष्यति मदुपसर्गकरणनिर्मितकर्मपरिणतिवशात् । इति षड्विंशतितमश्लोकार्थः ॥२६॥ वेदशररसेन्दु १६५४ मिते, वर्षे श्रीविजयसेनसरीणाम् । शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन ॥१॥ द्वयशीतियुक्ता द्विशती २८२, श्लोकसङ्ख्या निवेदिता। ससूत्र-वृत्तेर्विबुधैः, शोधनीयेयमादरात् ॥२॥ ॥ इति कलिकालसर्वज्ञविरुदधारकश्रीहेमचन्द्रमरिविरचितचतुर्विंशतिजिननमस्काराणां वृत्तिः समाप्ता ॥ <><> भगवतकर्मपरिणतिवशा ने वर्षे श्रीविज Page #26 -------------------------------------------------------------------------- ________________