________________
-:
-
-
सत्त्वानों परमानन्दकन्दोंढ़ेदनवाम्बुदः । स्थाद्वादामृतनिःस्यन्दी, शीतलः पातु वो जिनः ॥१२॥
व्याख्या शीतलः वः पातु इत्यन्वयः । 'शीतलः' शीतलनामा दशमोऽर्हन् 'वः' युष्मान् 'पातु' रक्षतु, “पांक् रक्षणे" इति धातुः। किंलक्षणः शीतलः ? 'परमानन्दकन्दोद्भेदनवाम्बुदः' परमःप्रकृष्टो य आनन्दः-हर्षः स एव कन्दः-भूमिगतवनस्पतिविशेषः तस्य उद्भेदः-प्रकटता तत्र नवः-नवीनः अम्बुदः मेघः । परमश्चासौ आनन्दश्च परमानन्दः, परमानन्द एव कन्दः परमानन्दकन्दः, परमानन्दकन्दस्य उद्भेदः परमानन्दकन्दोद्भेदः, नवश्चासौ अम्बुदश्व नवाम्बुदः, परमानन्दकन्दोद्भेदे नवाम्बुदः परमानन्दकन्दोद्भेदनवाबुदः । केषाम् ? 'सत्त्वानां' प्राणिनाम् । पुनः किंलक्षणः शीतलः । 'स्याद्वादामृतनिःस्यन्दी' स्याद् इत्यव्ययपदम् अनेकान्तवाचकम्, तस्य वादः-जल्पनं स्याद्वादः-अनेकान्तवादः तदेव अमृत-पीयूष तर्दै निःस्यन्दतें-श्रवतीत्येवंशीलः, "स्यन्दौङ् श्रवणे" इति धातुः भ्वादिरात्मनेपदी, अत्र अन्तस्थीयो यकारः सकारे ज्ञेयो न तु पवर्गीयः प:। स्याद् वादः स्याद्वादः, स्याद्वाद एवं अमृतं स्याद्वादामृतम् , स्याद्वादामृत निःस्यन्दत इत्येवंशीलः स्याद्वादामृतनिःस्यन्दी। पुन: किलक्षणः शीतल ? जिनः केवली । इति द्वादशश्लोकार्थः ।।१२॥
भवरोगाऽऽत्तजन्तूनामगर्दवारदर्शनः । निःश्रेयसश्रीरमणः, श्रेयासः श्रेयसैऽस्तु वः ॥१३॥
व्याख्या-श्रेयांसः श्रेयसे वः अस्तु इत्यन्वयः । श्रेयांसः' श्रेयांसनामा एकादशोऽर्हन् 'श्रेयसे' कल्याणाय मोक्षाय वा 'वः' युष्माकम्
.
.
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org