________________
११
'अस्तु' भवतु । कथम्भूतः श्रेयांसः ? 'अगदङ्कारदर्शनः' वैद्यनिरीक्षणः । अगदङ्कारस्य दर्शनमिव दर्शन यस्य सः अगदङ्कारदर्शनः । केषाम् ? 'भवरोगाऽऽत्तेजन्तूनाम्' भवः - संसारः स एव जन्म - जरा - मरणादिदुःखहेतुत्वाद् रोगः- आमयः तेन आर्त्ताः पीडिता ये जन्तवः - प्राणिनः तेषाम् । भव एव रोगः भवरोगः, भवरोगे आर्त्ता भवरोगार्त्ताः, भवरोगाऽऽर्त्ताश्च ते जन्तवश्च भवरोगाऽऽर्त्तजन्तवः, तेषां भवरोगाऽऽ--- जन्तूनाम् । पुनः किंलक्षणः श्रेयांसः ? 'निःश्रेयसश्रीरमणः' निःश्रेयसः --- मोक्षः तस्य श्री : - लक्ष्मीः तस्या रमणः - भर्त्ता । निःश्रेयसस्य श्री :: निःश्रेयसश्रीः, निःश्रेयसश्रियः रमणः निःश्रेयसश्रीरमणः । इति त्रयोंदशश्लोकार्थः ॥१३॥
विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः ।
सुरा - सुर-नरैः पूज्यो, वासुपूज्यः पुनातु वः ॥ १४ ॥
व्याख्या -- वः वासुपूज्यः पुनातु इत्यन्वयः । ' वः' युष्मान् । 'वासुपूज्यः' वासुपूज्यनामा द्वादशतीर्थकरः । वसुभिः - देवविशेषैः पूज्यो वसुपूज्यः, वसुपूज्यस्यापत्यं वासुपूज्यः । 'पुनातु' पवित्रयतु, “ पुग्श् पवने” इति धातुः । किंलक्षणो वासुपूज्यः ? 'पूज्यः' अर्च्यः । कैः ? 'सुरा - ऽसुर-नरैः' सुराः - स्वर्गवासिनो देवाः असुराः -- पातालवासिनः नराः - मनुष्याः तैः । सुराश्व असुराश्च नराश्च सुरा - ऽसुर-नराः, तैः सुरा - सुर-नरैः । पुनः किंविशिष्टो वासुपूज्यः ? 'विश्वोपकारकीभूततीर्थकृत्कर्मनिर्मितिः' जगदुपकृतीभूतार्हत्कर्मनिर्माणः । विश्वेषामुपकारकं विश्वोपकारकम्, अविश्वोपकारक विश्वोपकारकं भूतमिति विश्वोपकारकीभूतम्, तीर्थं करोतीति तीर्थकृत्, तीर्थकृच्च तत् कर्म च तीर्थ-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org