SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ त्रयी-त्रिकं तस्या ईशानं–नायकम् । भूर्भुवः स्वःशब्दा अव्ययत्वेन प्रसिद्धा ज्ञेयाः । भूर्भुवःशब्दो क्रमेण नागलोक-मर्त्यलोकवाचकाविति बृहन्न्यासे। भूश्च भुवश्च स्त्रश्च भूर्भुवः स्वः, त्रयाणां समाहारः त्रयी, भूर्भुवः स्वः त्रयी भूर्भुवः-वस्त्रयी, भूर्भुवः स्वस्त्रय्या ईशानं भूर्भुवःस्वस्त्रयीशानम् । इत्याद्यश्लोकार्थः ॥१॥ नामा-ऽऽकृति-द्रव्य-भावैः पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नहतः समुपास्महे ॥२॥ व्याख्या-वयम् अर्हतः समुपास्महे इत्यन्वयः । वयमिति शेषः। 'अर्हतः तीर्थकरान् 'समुपास्महे' सेवामहे । अर्हतः किंकुर्वतः ? 'पुनतः' पवित्रीकुर्वतः। किं कर्मतापन्नम् ? 'त्रिजगज्जन' त्रिभुवनलोकम् । त्रयाणां जगतां समाहारः त्रिजगत् , त्रिजगतो जनः त्रिजगज्जनः, तं त्रिजगज्जनम् । कैः ? 'नामा-ऽऽकृति-द्रव्य-भावैः' नामानि ऋषभ इत्यादिकानि, आकृतयः-प्रतिमाः, द्रव्याणि-जिनजीवाः, भावाःसमवसरणस्था अर्हन्तः तैः। नामानि च आकृतयश्च द्रव्याणि च भावाश्च नामा-ऽऽकृति-द्रव्य-भावास्तैः। एतदर्थप्रतिपादिका गाथा चेयम् - "नामजिणा जिणनामा, ठवणजिणा पुण जिणिंदपडिमाओ। दव्वजिणा जिणजीवा, भावजिणा समवसरणत्था ॥” इति। कस्मिन् ? 'क्षेत्रे' पञ्चभरतैरावत-विदेहलक्षणे । कथम्भूते क्षेत्रे ? 'सर्वस्मिन् सकले। १ "भू सत्तायामु" इत्यतः "मिथि-रज्युषि-तृ-श-भू-वष्टिम्यः कित्' (उ• ९७१) इत्यसि उवादेशे पृषोदरादित्वादकारलोपे च भूस् भुवस् प्रथाकर्म नाग़-मनुष्यलोकवाचकौ” इति "स्वरादयोऽव्ययम्" इति सिद्भहेम १-१-३० सूत्रबृहन्न्यासे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003674
Book TitleSaklarhat Stotram
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1942
Total Pages26
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy