________________
'च' पुनः। कस्मिन् ? 'काले' उत्सर्पिण्यवसर्पिणीरूपे। कथम्भूले काले ? 'सर्वस्मिन् समये । इति द्वितीयश्लोकार्थः ॥२॥
आदिम पृथिवीनाथमादिमं निष्परिग्रहम् । आदिमं तीर्थनाथं च, वृषभस्वामिनं स्तुमः ॥३॥
व्याख्या-वयं वृषभस्वामिनं स्तुम इत्यन्वयः । वयमिति शेषः । वृषभश्चासौ स्वामी च वृषभस्वामी, तं वृषभस्वामिन-वृषभ इति नाना प्रभुम् । 'स्तुमः' स्तुतिं कुर्मः, “ष्टुंग्क् स्तुतौ" । वृषभस्वामिनं किंलक्षणम् ? 'पृथिवीनाथं' राजानम् । पृथिव्या नाथः पृथिवीनाथः, तं पृथिवीनाथम् । पृथिवीनाथं किंविशिष्टम् ? 'आदिम' प्रथमम् । पुनः किंलक्षणं वृषभस्वामिनम् ? 'निष्परिग्रहं' भिक्षुम् । निर्गतः परिग्रहादिति निष्परिग्रहः, तं निष्परिग्रहम् । किंलक्षणं निष्परिग्रहम् ? आदिमप्रथमम् । पुनः किम्भूतं वृषभस्वामिनम् ? 'तीर्थनाथम्' अर्हन्तम् । तीर्थस्य नाथः तीर्थनाथः, तं तीर्थनाथम् । किम्भूतं तीर्थनाथम् ? 'आदिम' प्रथमम् । इति तृतीयश्लोकार्थः ॥३॥
अर्हन्तमजितं विश्वकमलाकरभास्करम् । अम्लानकेवलादर्शसङ्क्रान्तजगतं स्तुवे ॥४॥
व्याख्या--अहम् अजितं स्तुवे इत्यन्वयः। अहमिति शेषः । 'अजितम्' अजितनामानं द्वितीयतीर्थकरं 'स्तुवे' स्तुतिं कुर्वे । किंलक्षणमजितम् ? 'अर्हन्तम्' अर्हति-त्रिभुवनकृतायाः पूजाया योग्यो भवति इत्यर्हन् , तम् अर्हन्तम् , तीर्थकरमित्यर्थः । पुनः किंलक्षणमजितम् ? 'विश्वकमलाकरभास्कर' विश्व-जगत् तदेव कमलाकरः-सरोजखाति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org