________________
तत्र भास्करः सूर्यः प्रबोधकत्वात् । कमलानाम् आकरः कमलाकरः, विश्वमेव कमलाकरः विश्वकमलाकरः, विश्वकमलाकरे भास्करः विश्वकमलाकर भास्करः तम् । पुनः किंलक्षणमजितम् ? 'अम्लान केवलादर्शसङ्क्रान्तजगतम्' अम्लानः-- सशोभो यः केवलादर्श:- केवलज्ञानदर्पणः तेन सङ्क्रान्तानि –प्रतिबिम्बितानि जगन्ति - भुवनानि यस्मिन् स तम् । न म्लानः अम्लानः, केवलमेव आदर्शः केवलादर्शः, अम्लानश्वासौ केवलादर्शश्च अम्लानकेवलादर्शः, सङ्क्रान्तानि च तानि जगन्ति च सङ्क्रान्तजगन्ति, अम्लानकेवलादर्शेन सङ्क्रान्तजगन्ति यस्मिन् सोऽम्लानकेवलादर्शसङ्क्रान्तजगत्, तम् अम्लानकेवलादर्शसङ्क्रान्तजगतम् । इति चतुर्थश्लोकार्थः ॥ ४ ॥ विश्वभव्यजनारामकुल्यातुल्या जयन्ति ताः ।
देशनासमये वाचः, श्रीसम्भवजगत्पतेः ||५|| व्याख्या— श्रीसम्भवजगत्पतेः देशनासमये वाचो जयन्ति इत्यन्वयः । श्रिया -लक्ष्म्या युक्तो यः सम्भवः - सम्भवनामा जगत्पतिःविश्वस्वामी तस्य । श्रिया युक्तः सम्भवः श्रीसम्भवः, जगतां पतिर्जगत्यतिः, श्रीसम्भवश्चासौ जगत्पतिश्च श्रीसम्भवजगत्पतिः, तस्य श्रीसम्भवजगत्पतेः । 'देशनासमये' धर्मोपदेशप्रस्तावे । देशनायाः समयः देशनासमयः, तस्मिन् देशनासमये । 'वाचः ' गिरः । 'जयन्ति' सर्वोत्कर्षेण वर्तन्त इत्यर्थः, “जि जये" इति धातुः । किंलक्षणा वाचः ? 'विश्वभव्य जनारामकुल्यातुल्याः' विश्वे- समस्ता ये भव्यजनाः - भव्यप्राणिनः त एव आरामाः - वनानि तत्र कुल्यातुल्याः - सारणिसदृशाः, विश्वेषु - जगत्सु ये भव्यजना इति वा । भव्याश्च ते जनाश्च भव्यजनाः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org