SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ ॥ प्रवर्तकश्रीकान्तिविजयपादपद्मभ्यो नमः ॥ कलिकालसर्वज्ञप्रभुश्रीहेमचन्द्रमुरिविरचितं सकलार्हत्स्तोत्रम्। श्रीकनककुशलगणिविनिर्मितया वृत्त्या समलङ्कृतम् । सकलार्हत्प्रतिष्ठानमधिष्ठानं शिवश्रियः। भूर्भुवः-स्वस्त्रयीशानमार्हन्त्यं प्रणिदध्महे ॥१॥ व्याख्या—वयम् आर्हन्त्यं प्रणिदध्महे इत्यन्वयः। वयमिति शेषः । अर्हतो भाव आर्हन्त्यं-तीर्थकृत्त्वम् । 'प्रणिदध्महे' प्रणमामः । किंलक्षणमार्हन्त्यम् ? 'सकलाईप्रतिष्ठान' सकलाः-समस्ता ये अर्हन्तःजिनाः तेषु प्रतिष्ठानम्-अवस्थानं यस्य तत् ; कोऽर्थः ? यथा घटत्वं घटे स्थितं तथा आर्हन्त्यमपि अर्हत्सु स्थितमित्यर्थः । सकलाश्च तेऽहन्तश्च सकलार्हन्तः, सकलार्हत्सु प्रतिष्ठानं यस्य तत् सकलाईप्रतिठानम् । पुनः किंविशिष्टमार्हन्त्यम् ? 'अधिष्ठानं' नगरम् , यतः"अधिष्ठानं प्रभावेऽध्यासने नगर-चक्रयोः" इत्यनेकार्थे (हैम०चतुःस्वरकाण्ड श्लो० १५२९)। कस्याः ? 'शिवश्रियः' मोक्षलक्ष्म्याः। शिवस्य श्रीः शिवश्रीः, तस्याः शिवश्रियः। पुनः किंविशिष्टमार्हन्त्यम् ? 'भूर्भुवःस्वस्त्रयीशानं' भूः रसातलं भुवः-मर्त्यलोकः स्वः-स्वर्गः एतेषां या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003674
Book TitleSaklarhat Stotram
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1942
Total Pages26
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy