________________
कर्मद्रूणां उन्मूलनं कर्मन्मूलनम् , तस्मिन् कर्मद्रून्मूलने। इत्येकविंशतितमश्लोकार्थः ॥२१॥
जगन्महामोहनिद्राप्रत्यूषसमयोपमम् । मुनिसुव्रतनाथस्य, देशनावचनं स्तुमः ॥२२॥
व्याख्या-वयं मुनिसुव्रतनाथस्य देशनावचनं स्तुम इत्यन्वयः । वयमिति शेषः । मुनिसुव्रतः-मुनिसुव्रतनामा विंशतितमतीर्थकरः नाथःप्रभुः तस्य । सुष्ठु च तद् व्रतं च सुव्रतम् , मुनिवत् सुव्रतं यस्य स मुनिसुव्रतः, मुनिसुव्रतश्चासौ नाथश्च मुनिसुव्रतनाथः, तस्य मुनिसुव्रतनाथस्य । 'देशनावचनं' धर्मोपदेशवचनम् । देशनाया वचनं देशनावचनम् , पुनर्द्वितीयाज्ञापनाय तदिति । 'स्तुमः" स्तवनं कुर्मः, "ष्टुंगा स्तुतौ” इति धातुः । किंलक्षणं देशनावचनम् ? 'जगन्महामोहनिद्राप्रत्यूषसमयोपमं' जगतां "तात्स्थ्यात् तद्व्यपदेशः” इतिन्यायाद् जगजनानां महामोह:-प्रबलमोहनीयकर्मोदयः स एव निद्रा-तन्द्रा तत्र प्रत्यूषसमयः-प्रभातकालः तस्य उपमा यस्य तत् । महाँश्चासौ मोहश्च महामोहः, महामोह एव निद्रा महामोहनिद्रा, जगतां महामोहनिद्रा जगन्महामोहनिद्रा, प्रत्यूषस्य समयः प्रत्यूषसमयः, जगन्महामोहनिद्रायां प्रत्यूषसमयः जगन्महामोहनिद्राप्रत्यूषसमयः, जगन्महामोहनिद्राप्रत्यूषसमयस्य उपमा यस्य तद् जगन्महामोहनिद्राप्रत्यूषसमयोपमम् तद् । इति द्वाविंशतितमश्लोकार्थः ॥२२॥
लुठन्तो नमतां मूनि, निर्मलीकारकारणम् । पारिप्लवा इव नमः, पान्तु पादनखांशवः॥२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org