________________
१८
व्याख्या -नमेः पादनखांशवः पान्तु इत्यन्वयः । नमिः - नमिनामा अर्हन् तस्य । 'पादनखांशवः' चरणनखकिरणाः । पादयोः नखाः पादनखाः, पादनखानां अंशवः पादनखांशवः । ' पान्तु' रक्षन्तु, “पांकू रक्षणे" इति धातुः । 'इव' उत्प्रेक्ष्यते । 'वारिप्लवाः' जलप्रवाहाः । वारिणः प्लवाः वारिप्लवाः । किंलक्षणाः पादनखांशवः ? 'निर्मलीकारकारणं' पवित्रीकारहेतवः । अनिर्मलं निर्मलं करोतीति निर्मलीकारः, निर्मलीकारस्य कारणं निर्मलीकारकारणम् । पुनः किंकुर्वन्तः पादनखांशवः ? 'लुठन्तः' पतन्तः । कस्मिन् ? 'मूर्ध्नि' मस्तके । केषाम् ? जनानामिति शेषः । जनानां किंकुर्वताम् ? 'नमतां' प्रणामं कुर्वताम् । इति त्रयोविंशतितमश्लोकार्थः ॥२३॥
यदुवंशसमुद्रेन्दुः, कर्मकक्षहुताशनः ।
अरिष्टनेमिर्भगवान्, भूयाद् वोऽरिष्टनाशनः ॥ २४ ॥ व्याख्या—अरिष्टनेमिः वः अरिष्टनाशनः भूयाद् इत्यन्वयः । 'अरिष्टनेमिः' अरिष्टनेमिनामा । 'वः' युष्माकम् । 'अरिष्टनाशनः' उपद्रवनिवारकः । अरिष्टानां नाशनं यस्मात् सः अरिष्टनाशनः । 'भूयाद्' भवतु । किंलक्षणोऽरिष्टनेमिः ? ' यदुवंशसमुद्रेन्दुः' यदुकुलसागरचन्द्रः । यदोः वंशः यदुवंशः, यदुवंश एव समुद्रः यदुवंशसमुद्रः, यदुवंशसमुद्रे इन्दुः यदुवंशसमुद्रेन्दुः । पुनः किंलक्षणः अरिष्टनेमिः ? 'कर्म कक्षहुताशनः' कर्मवनैवैश्वानरः, तद्दाहकत्वात् । कर्माणि एव कक्षः कर्मकक्षः, कर्मकक्षे हुताशनः कर्मकक्षहुताशनः । पुनः किंलक्षणोऽरिष्टनेमिः ? 'भगवान्' भगोऽस्यास्तीति भगवान् । भगशब्दार्थः पूर्वोक्तोऽस्ति । इति चतुर्विंशतितमश्लोकार्थः ॥२४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org