________________
कमठे धरणेन्द्रे च, स्वोचितं कर्म कुर्वति । प्रभुस्तुल्यमनोवृत्तिः, पार्श्वनाथः श्रियेऽस्तु वः॥२५॥
व्याख्या-पार्श्वनाथः वः श्रिये अस्तु इत्यन्वयः । पार्श्वः-पार्श्वनामा नाथः-प्रभुः । पार्श्वश्चासौ नाथश्च पार्श्वनाथः । 'वः' युष्माकम् 'श्रिये' लक्ष्म्यै 'अस्तु' भवतु । किंलक्षणः पार्श्वनाथः ? 'प्रभुः' स्वामी। पुनः किंलक्षणः पार्श्वनाथः ? 'तुल्यमनोवृत्तिः' सशचित्तप्रवृत्तिः । मनसः वृत्तिः मनोवृत्तिः, तुल्या मनोवृत्तिर्यस्य सः तुल्यमनोवृत्तिः । कस्मिन् ? 'कमठे' कमठनाम्नि 'च' पुनः धरणेन्द्रे । धरणश्चासौ इन्द्रश्च धरणेन्द्रः, तस्मिन् धरणेन्द्रे । कमठे 'च' पुन : धरणेन्द्रे किंकुर्वति ? 'कुर्वति' वितन्वति । किं कर्मतापन्नम् ? 'कर्म' कृत्यम् । किंलक्षणं कर्म ? 'स्वोचितं' स्वयोग्यम् । स्वस्य उचितं स्वोचितं तत्। कमठकर्म मेघवर्षणलक्षणं धरणेन्द्रकर्म तु वृष्टिनिवारणलक्षणम् । इति पञ्चविंशतितमश्लोकार्थः ॥२५॥
कृतापराधेऽपि जने, कृपामन्थरतारयोः। ईषद्वाष्पायोभद्रं, श्रीवीरजिननेत्रयोः ॥२६॥
व्याख्या-श्रीवीरजिननेत्रयोः भद्रं भक्तु इत्यन्वयः । श्रियाअष्टप्रातिहार्यलक्ष्म्या युक्तः वीरः-वीरनामा जिन:-अर्हन् तस्य नेत्रेलोचने तयोः। श्रिया युक्तः वीरः श्रीवीरः, श्रीवीरश्चासौ जिनश्च श्रीवीरजिनः, श्रीवीरजिनस्य नेत्रे श्रीवीरजिननेत्रे, तयोः श्रीवीरजिननेत्रयोः । 'भद्रं कल्याणं भवतु इति शेषः । किंलक्षणयोः श्रीवीरजिननेत्रयोः ? 'कृपामन्थरतारयोः' अनुकम्पासूचककनीनिकयोः, “मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि" इत्यनेकार्थे । (हैम त्रिस्वरकाण्ड
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org