________________
श्लो० ११९०) कृपया मन्थरे कृपामन्थरे, कृपामन्थरे तारे ययोस्ते कृपामन्थरतारे, तयोः कृपामन्थरतारयोः। कस्मिन् ? 'जने' लोके किंलक्षणे जने ? 'कृतापराधेऽपि' विहितागसि अपि । कृतः अपराधः येन स कृतापराधः, तस्मिन् कृतापराधे। किंलक्षणयोः श्रीवीरजिननेत्रयोः ? 'ईषदबाष्पार्द्रयोः' मनागक्षिजलक्लिन्नयोः, “बाष्प उष्माऽक्षिजलयोः" इत्यनेकार्थे (हैंम०द्विस्वरकाण्ड श्लो० ३०९) । बाष्पेण आर्दै बाष्पादें, ईषद् बाप्पार्दै ईषद्बाष्पार्दै, तयोः ईषद्बाष्पादयोः ।सङ्गमकाख्यो दवः षण्मासी यावद् उपसर्ग कृत्वा अक्षुब्धं भगवन्तं ज्ञात्वा पश्चात् स्वर्ग जिगमिषुरिदमाह---'देवार्य ! त्वं स्वेच्छया ब्रज भिक्षार्थमिति, नाधुनाऽहमन्तरायकरः' इत्युक्ते भगवान् आह—अहं निजेच्छया भिक्षायै व्रजामि न केनाऽप्युक्त इति । तदनु सङ्गमकं गच्छन्तं दृष्ट्वा भगवतश्चक्षुषी सबाष्पे जाते—यदयं दुःखभाग् भविष्यति मदुपसर्गकरणनिर्मितकर्मपरिणतिवशात् । इति षड्विंशतितमश्लोकार्थः ॥२६॥
वेदशररसेन्दु १६५४ मिते, वर्षे श्रीविजयसेनसरीणाम् । शिष्याणुना विरचिता, वृत्तिरियं कनककुशलेन ॥१॥ द्वयशीतियुक्ता द्विशती २८२, श्लोकसङ्ख्या निवेदिता। ससूत्र-वृत्तेर्विबुधैः, शोधनीयेयमादरात् ॥२॥ ॥ इति कलिकालसर्वज्ञविरुदधारकश्रीहेमचन्द्रमरिविरचितचतुर्विंशतिजिननमस्काराणां वृत्तिः समाप्ता ॥
<><>
भगवतकर्मपरिणतिवशा ने वर्षे श्रीविज
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org