________________
१६
चतुर्थपुरुषार्थस्य श्रीः चतुर्थपुरुषार्थ श्रीः, चतुर्थपुरुषार्थश्रियः विलासः चतुर्थपुरुषार्थ श्रीविलासः, तं चतुर्थपुरुषार्थ श्रीविलासम् । किंलक्षणोऽरनाथः ? 'सः' प्रसिद्धः । पुनः किंलक्षणोऽरनाथ: : 'भगवान्' भगोऽस्यास्तीति भगवान्, भगशब्दार्थः पूर्वोक्तो ज्ञेयः । पुनः किंलक्षणोऽरनाथः ? 'चतुर्थारनभोरविः' चतुर्थारः - दुष्षमसुषमाख्यः स एव नभः - गगनं तत्र रविः सूर्यः तत्प्रकाशकत्वात् । चतुर्णां सङ्ख्यापूरकः चतुर्थः, चतुर्थश्चासौ अरश्च चतुर्थारः, चतुर्थार एव नभः चतुर्थारनभः, चतुथरनभसि रविः चतुर्थारनभोरविः । इति विंशतितम श्लोकार्थः ॥ २० ॥ सुरा - सुर-नराधीशमयूरनववारिदम् । कर्मन्मूलने हस्तिम मल्लिमभिष्टुमः ॥ २१ ॥
व्याख्या -- वयं मल्लिम् अभिष्टुमः इत्यन्वयः । वयमिति शेषः । 'मल्लिं' मल्लिनामानम् एकोनविंशतितमतीर्थकरम् 'अभिष्टुमः' स्तुतिं कुर्मः, “टुंगुक् स्तुतौ” इति धातुः । किंलक्षणं मल्लिम् ? 'सुराऽसुर-नराधीशमयूरनववारिदं' देव-दनुज-मनुजपतिकेकिनवीनमेघम्, तद्धर्षोत्पादकत्वात् । सुराश्व असुराश्च नराश्व सुराऽसुर-नराः, सुरासुर-नराणाम् अधीशाः सुरा - ऽसुर-नराधीशाः, सुरा-ऽसुर-नराघीशा एव मयूराः सुरासुर - नराधीशमयूराः, वारि ददातीति वारिदः, नवश्वासौ वारिदश्व नववारिदः, सुराऽसुर-नराधीशमयूरेषु नववारिदः, सुरा - सुर-नराधीशमयूरनववारिदः, तम् सुरा -ऽसुर-नराधीशमयूरनववारिदम् । पुनः किंविशिष्ट मल्लिम् ? ' हस्तिमल्लम्' ऐरावणम् । कस्मिन् ? 'कर्मद्रून्मूलने' कर्माणि - ज्ञानावरणादीनि तान्येव द्रवःतरवः तेषाम् उन्मूलनम्—उत्खननं तत्र । कर्माणि एव द्रवः कर्मद्रवः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org