________________
१३
व्याख्या - अनन्तजित् सुखश्रियं वः प्रयच्छतु इत्यन्वयः । 'अनन्तजिद्' अनन्तनामा अर्हन् । 'सुखश्रियं' शर्मलक्ष्मीम् । सुखस्य श्रीः सुखश्रीः ताम् । 'वः' युष्माकम् । 'प्रयच्छतु' प्रददातु, “दाम् दाने" इति धातुः । किंलक्षणां सुखश्रियम् ? 'अनन्त' न विद्यते अन्तो यस्याः सा अनन्ता ताम्, अविनाशामित्यर्थः । कथम्भूतः अनन्तजित् ? 'स्वयम्भूरमणस्पर्द्ध' स्वयम्भूरमणं - स्वयम्भूरमणनामानमन्त्यसागरं स्पति इत्येवंशीलः स्वयम्भूरमणस्पर्द्धा । केन ? 'करुणारसवारिणा ' करुणायाः - दयाया यो रसः - स्वादः स एव वारि - जलं तेन, अथवा करुणाख्यः तृतीयो रसः । करुणाया रसः करुणारसः, करुणारस एव वारि करुणारसवारि, तेन करुणारसवारिणा, "रसः स्वादे जले वीर्ये" इत्यनेकार्थे (हैम ० द्विस्वरकाण्ड श्लो० ५९० ) । इति षोडश श्लोकार्थः ॥१६॥ कल्पद्रुमसधर्माणमिष्टप्राप्तौ शरीरिणाम् ।
चतुर्धा धर्मदेष्टारं, धर्मनाथमुपास्महे ॥ १७
व्याख्या - धर्मनार्थं वयम् उपास्महे इत्यन्वयः । धर्मः - धर्मनामा
K
नाथः - प्रभुः । धर्मश्चासौ नाथश्च धर्मनाथः, तं धर्मनाथम् । वयमिति शेषः।‘उपास्महे' सेवामहे, उपपूर्वः “आसिक् उपवेशने” इति धातुः । किंलक्षणं धर्मनाथम् ? 'कल्पद्रुमसधर्माण' सुरतरुसदृशम् । कल्पश्चासौ द्रुमश्च कल्पद्रुमः, समानः धर्मो यस्य स सधर्मा, कल्पद्रुमस्य धर्मा कल्पद्रुमसधर्मा, तं कल्पद्रुमसधर्माणम् । कस्याम् ? 'इष्टप्राप्तौ ' वाञ्छितलब्धौ । इष्टानां प्राप्तिः इष्टप्राप्तिः, तस्यामिष्टप्राप्तौ । केषाम् ? 'शरीरिणां' प्राणिनाम् । शरीरं विद्यते येषां ते शरीरिणः, तेषां शरीरिणाम् । पुनः किंलक्षणं धर्मनाथम् ? 'धर्मदेष्टारम्' धर्मोपदेशकम् । धर्मस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org