________________
१४
देष्टा धर्मदेष्टा, तं धर्मदेष्टारम् । कथम् ? 'चतुर्धा' चतुर्भिः प्रकारै:दान-शील-तपो-भावरूपैः । चत्वारः प्रकारा अस्येति चतुर्धा । इति सप्तदशश्लोकार्थः ॥ १७॥
सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः ।
मृगलक्ष्मा तमःशान्त्यै, शान्तिनाथजिनोऽस्तु वः ॥ १८ ॥ व्याख्या— शान्तिनाथजिनः वः तमः शान्त्यै अस्तु इत्यन्वयः । शान्तिः शान्तिनामा नाथः - प्रभुः जिनः - केवली । शान्तिश्वासौ नाथश्व शान्तिनाथः, शान्तिनाथश्वासौ जिनश्व शान्तिनाथजिनः । 'वः' युष्मा - कम् | 'तमः शान्त्यै' अज्ञानप्रशमनाय । तमसः शान्तिः तमः शान्तिः, तस्यै तमः शान्त्यै । 'अस्तु' भवतु । किंलक्षणः शान्तिनाथजिनः ? 'मृगलक्ष्मा' हरिणलाञ्छनः । मृगस्य लक्ष्म यस्य स मृगलक्ष्मा । पुनः किंलक्षणः शान्तिनाथजिनः 'सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः’ सुधासोदरा - अमृततुल्या या वाग् - गीः सा एव ज्योत्स्ना - चन्द्रिका तया निर्मलीकृतानि - धवलीकृतानि दिशां - ककुभां मुखानि - वदनानि येन सः । सुधायाः सोदरा सुधासोदरा, सुधासोदरा चासौ वाक् च सुधासोदरवाक्, सुधासोदरवाग् एव ज्योत्स्ना सुधासोदरवाग्ज्योत्स्ना, अनिर्मलानि निर्मलानि कृतानि इति निर्मलीकृतानि, दिशां मुखानि दिङ्मुखानि, सुधासोदरवाग्ज्योत्स्नया निर्मलीकृतानि सुधासोदरवारज्योस्नानिर्मलीकृतानि, सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतानि दिङ्मुखानि येन स सुधासोदरवाग्ज्योत्स्नानिर्मलीकृतदिङ्मुखः । इत्यष्टादशश्लोकार्थः ॥ श्रीकुन्थुनाथो भगवान्, सनाथोऽतिशयर्द्धिभिः । सुरा - सुर-नृनाथानामेकनाथोऽस्तु वः श्रिये ॥ १९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org