SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ धुसकिरीटशाणायोत्तेजिताहिनखावलिः। भगवान् सुंमतिखामी, तनोत्वभिमतानि वः ॥७॥ व्याख्या-सुमतिस्वामी वः अभिमतानि तनोतु इत्यन्वयः । सुमतिः-सुमतिनामी स्वामी प्रभुः । सुष्टु-शोभना मतिर्यस्य सः सुमतिः, सुमतिश्चासौ स्वामी च सुमतिस्वामी । 'वः' युष्माकम् । अभिमतानि-वाञ्छितानि । 'तनोतु' विस्तारयतु, "तनूयी विस्तारे" इति धातुः। किंलक्षणः सुमतिस्वामी ? 'धुसकिरीटशाणामोत्तेजितांहिनखावलिः' द्युसदः-देवाः तेषां किरीटानि-मुकुटानि तानि एव शाणाःनिकषाः तेषाम् अग्राणि-उपरितनभागाः तैः उत्तेजिता-उच्छाता अहिनखावलिः-चरणनखश्रेणियस्य सः । द्युसदां किरीटानि बुसकिरीटानि, घुसत्किरीटान्येव शाणाः घुसकिरीटशाणाः, धुसकिरीटशाणानाम् अग्राणि घुसंकिरीटशाणाग्राणि, अंड्योर्नखाः अहिनखाः, अहिनखानाम् आवलिः अहिनखावलिः, घुसकिरीटशाणाप्रैः उत्तेजिता धुसत्किरीटशाणाप्रोत्तेजिता, द्युसकिरीटशाणागोत्तेजिता अहिनखावलियस्य सः धुसकिरीटशाणायोत्तेजितांहिनखावलिः। पुनः किंविशिष्टः सुमतिस्वामी ? 'भगवान्' भगोऽस्यातीति भगवान्। भगशब्दार्थः पूर्वोक्तो शेयः । इति सप्तमश्लोकार्थः ॥७॥ पद्मप्रभप्रभोर्दैहभासः पुष्णन्तु वः शिवम् । अन्तरङ्गारिमथने, कोपाटोपादिवारुणाः ॥८॥ १ .ऐश्वर्यस्य समप्रस्य, रूपस्य यशसः श्रियः । धर्मस्याथ प्रयत्नस्य, घण्णां भग इतीङ्गना ॥१॥ इत्यप्युच्यते ॥ २ उपसगैपूर्वकस्य “शोंच तन्करण" इति धातोः कान्तमिदै रूपम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003674
Book TitleSaklarhat Stotram
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1942
Total Pages26
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy