________________
व्याख्या – पद्मप्रभप्रभोर्देहभासः वः शिवं पुष्णन्तु इत्यन्वयः पद्मप्रभः - पद्मप्रभनामा प्रभुः - स्वामी । पद्मवत् प्रभा यस्य सः पद्मप्रभः, पद्मशब्देन अत्र पद्मरागो ज्ञेयः, “पदैकदेशे पदसमुदायोपचरिद्” इतिन्यायात्, पद्मप्रभश्चासौ प्रभुश्च पद्मप्रभप्रभुः तस्य । 'देहभासः' शरीरकान्तयः । देहस्य भासः देहभासः । 'वः' युष्माकम् । 'शिव' कल्याणम् । 'पुष्णन्तु' पुष्टीकुर्वन्तु, "पुष्श पुष्टौ ” इति धातुः । कथम्भूता देहभासः ? 'अरुणाः' रक्ताः । अत्रोत्प्रेक्षा 'इव' उत्प्रेक्ष्यते । 'कीपाटोपात ' क्रोधावेशात् । कीपस्य आटोपः कोपाटोपः, तस्मात् कोपाटौपात् । कस्मिन् ? ‘अन्तरङ्गारिमथने' अन्तरङ्गाः - आभ्यन्तरा ये अरेयः -मद-मदन- क्रोध-लोभ- मायाद्यास्तेषां मंथन - विलोडनं तत्र अन्तरङ्गाश्च ते अरयश्च अन्तरङ्गारयः, अन्तरङ्गारीणां मथनं अन्तरङ्गारिमथनम्, तस्मिन् अन्तरङ्गारिमथने । इत्यष्टम श्लोकार्थः ॥ ८॥ Ï श्री सुपार्श्व जिनेन्द्राय, महेंन्द्रमहितहिये । नमंश्चतुर्वर्णसङ्घगगनाभोगभास्वते ॥९॥
,
"
व्याख्या — श्रीसुपार्श्वजिनेन्द्राय नमः अस्तु इत्यन्वयः । श्रियाप्रातिहार्यलक्ष्म्या युक्तः सुपार्श्वः -सुपार्श्वाभिधः जिनेन्द्रः- तीर्थकृत् तस्मै । सुष्ठु - शोभने पार्श्व-समीपं यस्य सः सुपार्श्वः श्रिया युक्तः सुपार्श्वः श्रीसुपार्श्वः, जिनानाम् इन्द्रः जिनेन्द्र श्रीसुपार्श्वश्वासौ जिनेन्द्रश्व श्रीसुपविजिनेन्द्रः, तस्मै श्रीसुपविजिनेन्द्राय । 'नमः' नमस्कारो भवतु । अस्त्विति शेषः, “यंत्रान्यत् क्रियापदं न श्रयते तत्रास्ति भवतीत्यादिक प्रयुज्यते" इतिन्यायात् । किविशिष्टाय श्रीसुपाश्वजिनेन्द्रीय ? 'महेन्द्र-' महितार्ह्रये' महेन्द्राः- वासवाः तैः महितो- पूजितौ अह्री चरणों यस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org