________________
सः,“महेन्द्रो वासवे शैले" इत्यनेकार्थे(हैम० त्रिस्वरकाण्ड श्लो०११९३) महान्तश्च ते इन्द्राश्चेति वा । महेन्द्रर्महितौ महेन्द्रमहितो, महेन्द्रमहिती अही यस्य सः महेन्द्रमहितांहिः, तस्मै महेन्द्रमहितांहये । पुनः किंलक्षणाय श्रीसुपार्श्वजिनेन्द्राय ? 'चतुर्वर्णसङ्घगगनाभोगभास्वते' चत्वारः-चतुःसङ्ख्याका वर्णाः-साधु-साध्वी-श्रावक-श्राविकालक्षणा यत्र स एवंविधो यः सङ्घः-समुदायः स एव गगनम्-आकाशं तस्य आभोगः-विस्तारः तत्र भास्वान्-सूर्यः तस्मै । चत्वारो वर्णा यत्र सः चतुर्वर्णः, चतुर्वर्णश्चासौ सङ्घश्च चतुर्वर्णसङ्घः, चतुर्वर्णसङ्घ एव गगनं चतुर्वर्णसङ्घगगनम् , चतुर्वर्णसङ्घगगनस्य आभोगः चतुवर्णसङ्घगगनाभोगः, चतुर्वर्णसङ्घगगनाभोगे भास्वान् चतुर्वर्णसङ्घगगनाभोगभास्वान् तस्मै । इति नवमश्लोकाक्षरार्थः ॥९॥
चन्द्रप्रभप्रभोश्चन्द्रमरीचिनिचयोज्ज्वला । मूर्तिमूर्त्तसितध्याननिर्मितेव श्रियेऽस्तु वः ॥१०॥
व्याख्या--चन्द्रप्रभप्रभोः मूर्तिः वः श्रियेऽस्तु इत्यन्वयः । चन्द्रप्रभः चन्द्रप्रभनामा अष्टमतीर्थकृत् प्रभुः-स्वामी तस्य । चन्द्रवत् प्रभा यस्य सः चन्द्रप्रभः, चन्द्रप्रभश्चासौ प्रभुश्च चन्द्रप्रभप्रभुः तस्य । 'मूर्तिः' कायः। 'वः' युष्माकम् । 'श्रिये लक्ष्म्यै अस्तु । किंलक्षणा मूर्तिः ? 'चन्द्रमरीचिनिचयोज्ज्वला' चन्द्रः-विधुः तस्य मरीचयः-किरणाः तेषां निचयः-समूहः तदिव उज्ज्वला-धवला । चन्द्रस्य मरीचयः चन्द्रमरीचयः, चन्द्रमरीचीनां निचयः चन्द्रमरीचिनिचयः, चन्द्रमरीचिनिचयवद् उज्ज्वला चन्द्रमरीचिनिचयोज्ज्वला । 'इव' उत्प्रेक्ष्यते । 'मूर्त्तसितध्याननिर्मिता' मूर्त-मूर्तिमत् सशरीरमिति यावद् यत् सितध्यानं
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org