Book Title: Harischandra Kathanakam
Author(s): Labdhisuri Jain Granthmala
Publisher: Labdhisuri Jain Granthmala
Catalog link: https://jainqq.org/explore/600316/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ .. श्रीलब्धिसूरीश्वरजैनग्रन्थमालायाः षष्ठो मणिः [६] श्रीस्याद्वादिने नमः । आत्मकमललब्धिसूरीश्वरेभ्यो नमः । श्रीभावदेवसूरिविहितपार्श्वनाथचरित्रोद्धृतम् । श्री हरिश्चन्द्रकथानकम् । जैनरत्नव्याख्यानवाचस्पतिकविकुलकिरीटसूरिसार्वभौमजैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरशीध्यरत्नकोविदकुलकोटीरोपाध्यायप्रवरश्रीमदभुवनविजयजी गणीवरोपदिष्टशीपोरवास्तव्य शा. पीतांबरदासजुमखरामसुपुत्रीपुरीबाईविहितार्थसाहाय्येन लब्धिसूरीश्वरजैनग्रन्थमालाकार्यवाहकेन जमनादासतनुजचन्दुलालेन प्रकाशितम् । वीर सं. २४६५ आत्म-४३ विक्रम १९९५ प्रत २५० सन १९३९ मुद्रकः-डा. गुलाबचंद लल्लुभाई-श्री महोदय प्रीन्टींग प्रेस-भावनगर. की जा Page #2 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र ॥ २ ॥ नि....वे....दु....न । अमारी आ श्री लब्धिसूरीश्वरजैन ग्रन्थमालाना छठ्ठा पुस्तक तरीके प्रस्तुत श्रीहरिश्चन्द्र- कथानक वांचकोना पूनीत करकमलमां रजु करतां अमो हर्षित थइए ए स्वाभावीक छे. श्री भावदेवसूरिमहाराजे रचेला संस्कृत् श्लोकबद्ध पार्श्वनाथचरित्रमांथी उद्धृत करेल आ कथानक पहेलां अमदावादना वीरसमाजे प्रकट करेलुं. परंतु ते हालमां दुर्लभप्राप्य थवाथी तेमज तेमां केटलीक अशुद्धीओ रहेल होवाथी तथा पू. साधुसाध्विजी महाराजोने अहर्निश अत्यंत आवश्य होवाथी तेना पुनर्मुद्रण कराववा माटे पू. उपाध्यायजी महाराजने इच्छा थइ अने जेना फलस्वरुपे आ प्रकाशीत थाय छे. आ प्रन्थ छापवामां उपदेश आपनार पू. उपाध्यायजी महाराजना तथा साहाय्य आपनार सद्गृहस्थोना अमो आभारी छीए. अमारा आ अगाउ प्रकट थयेला पांच पुस्तकोने जे रीते वांचकोए अपनाव्या छे ते रीते आने पण अपनावशे अने शासनदेव अमोने हजु सारामां सारी श्रुतसेवा करवा उद्युक्त करशे एम प्रार्थी हाल तो विरमीए छीए. छाणी ता. २०-२-३९ चन्दुलाल. निवेदन | ॥ २ ॥ Page #3 -------------------------------------------------------------------------- ________________ श्रीलब्धिसूरीश्वरजैनग्रन्थमालायाषष्ठो मणिः [६] श्रीभावदेवसूरिविहितपार्श्वनाथचरित्रोद्धृतम् श्रीहरिश्चन्द्रकथानकम् । AC-% A नामेयाय नमस्तस्मै यस्य क्रमनखांशवः । मौलौ दधति नम्राणां माङ्गल्यामक्षतश्रियम् ॥१॥ श्रीविद्यावास्तुहस्ताभ्यां | वाग्देवी पद्मपुस्तकम् । जीयाद् दधाना दौर्गत्य-दुःखोच्छेदाय देहिनाम् ॥ २॥ सत्त्वमेव नृणां तत्त्वं सत्चं सिद्ध्यै भवद्वये । ४| विना सत्त्वं सजीवोऽपि निर्जीव इति कथ्यते ॥ ३॥ विशीर्णोऽपि यथा वृक्षः सति मूले प्ररोहति । प्रक्षीणोऽपि तथा भूयो नरः सत्त्वाद् विवर्धते ॥ ४ ॥ यद् दूरं यद् दुराराध्यं दुर्घटं दुर्लभं च यत् । सर्व सिध्यति तत् सत्चात् तद्विना तु सदप्यसत् ॥५॥ श्रूयते हि पुरा लोके श्रीमदिक्ष्वाकुवंशभूः । उदारचरितः सच्चे हरिश्चन्द्रो महान् नृपः ॥ ६ ॥ तथाहि अस्त्यत्र भरतेऽयोध्या पुरी वप्रांशुकोज्ज्वला । प्रासादमण्डना नान्यैरभिभूता सतीव या ॥ ७॥ सूर्यवंशभवक्ष्मापवृत्तोज्ज्वलयश:श्रिया । जातच्छत्रा महैश्वयं दधाति नगरीषु या ॥ ८॥ नतिरेवोन्नतिर्येषां दानमेव धनार्जनम् । परार्थ एव तु खार्थः क्षमैव हि समर्थता ॥ ९ ॥ एवंविधनरोत्तंसैर्वृक्षरुद्यानभूरिव । या सदालंकृता हर्ष न केषां कुरुतेतराम् ? ॥१०॥ RRC Page #4 -------------------------------------------------------------------------- ________________ कथानकम्। श्रीहरिश्चन्द्र ॥१॥ (युग्मम् ) एकनक्षत्रमालेन्दु स्त्रीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम यया सौधेष्वधःकृतम् ॥ ११॥ बभूव नृपतिस्तस्यां हरिश्चन्द्रो महाभुजः। धर्मेणोद्वाहिता कीर्तिर्येनतें करपीडनम् ॥ १२॥ तथा नीतिगवी तेन पोषिता सुकृतात्मना । विश्वप्रीत्यै यथाऽद्यापि यशो दुग्धं तदुद्भवम् ॥ १३ ॥ अन्यदा रात्रिपर्यन्ते पल्यङ्कस्थः स बन्दिना । पठ्यमानमिमं श्लोकं सत्वोचेजनमाणोत् ॥ १४ ॥ विपद्यपि गता सञ्चाद् ध्रुवं स्यात् संपदां पदम् । गतोऽप्यस्तं रविर्मार्गादच्युतोऽभ्युदयी पुनः ॥१५॥ इमं श्रुत्वा पठन्नेव समुत्तस्थौ महीपतिः । पुनः पुनस्तदीया) मुदा हृदि विभावयन् ॥ १६ ॥ कृत्वा प्राभातिकं राजा यावदास्थानमाययौ । तावत् कोऽपि नरोऽभ्येत्य सम्भ्रान्त इदमूचिवान् ।। १७ ॥ महाराज ! हरिश्चन्द्र ! त्वयि शासति मेदिनीम् । न श्रुतावपि लोकानां भयमित्यक्षरद्वयम् ॥ १८॥ किन्त्वेकः शूकरः शक्रावतारवनमध्यगान् । कुतोऽप्यागत्य भीष्माङ्गो भञ्जन्नास्ते लताद्रुमान् ।। १९ ।। तापसाश्चाभवंस्तत्र सर्वे भयविसंस्थुलाः । ततो दध्यौ नृपोऽमीषां किमभूद् हा ! तपस्विनाम् ? ॥ २०॥ यथा लोकः करं दत्ते खधनस्याऽवनीपतेः । मुनयोऽपि तथा धर्मषष्ठभागमिति श्रुतिः ॥ २१ ॥ ततो | रक्ष्या मयैवेते ध्यात्वेत्युत्थाय संभ्रमात् । अब्रवीच्च हहा ! कोऽयं मयि सत्यप्युपप्लवः ॥ २२ ॥ श्रीमन्नामेयदेवस्यारामशत्रु मुनिद्रुहम् । तमद्य शूकरं हन्मि प्रतिज्ञां चाऽकरोदिति ॥ २३ ॥ अथो यथागतं क्वापि वराहवेदके गते । प्रतिवमिव प्रोचं राजाऽऽरोहन तुरङ्गमम् ॥ २४ ॥ सैन्यं संनह्यदेवाऽसौ विमुच्य स्वयमेव तम् । निग्रहीतुमनाः क्रोडं त्वरीतं निर्ययौ पुरात ॥ २५ ॥ मनोवेगेन यात्यश्वे भूपतिः प्राप तत्क्षणात् । वनं शक्रावताराख्यं मुदेवाभिमुखागतम् ॥ २५ ॥ अपश्यत् स्मेराब्जमुखीं कलहंसकमण्डिताम् । मृदुवीचीभुजां तत्र शरयूमुदधिप्रियाम् ॥ २६ ॥ राजा पप्रच्छ पार्श्वस्थौ स कपिञ्जल कुन्तलौ। ॥१ Page #5 -------------------------------------------------------------------------- ________________ ह रयस्तद्वपुः सोऽप्युपेत्य तथा मतैरिश्वीयम अहो ! काऽसौ वराहस्तावूचतुर्नन्वयं पुरः ? ॥ २७ ॥ वराहस्तद्वचः श्रुत्वा घुर्घराऽऽरवमुच्चकैः । कुर्वाणोऽपि नृपं क्रोधाद् दधावे वनगह्वरात् ।। २८ ॥ लघुहस्तस्ततो राजा जानुलम्बभुजोपि हि । रोमाञ्चकवचं बिभ्रद् निर्भयोऽपि भृशं तनौ ॥२९॥ करे चापमलङ्कृत्य पूरयंस्तद्वपुः शरैः । वराहं पातयामास पूरयामास संश्रवम् ॥ ३० ॥ (युग्मम् ) ततः कपिजलं प्राह राजा पश्याग्रतः कियत् । लक्षमेतच्चलं भिन्नं सोऽप्युपेत्य तथाऽकरोत् ॥ ३१ ॥ स्वेनैत्य पश्य मित्रेति प्रोक्तस्तेन नृपो द्रुतम् । ददर्श रुधिरा तं ज्वलद्दवमिवाचलम् ॥ ३२ ॥ उवाच च यथास्यैवमतैरिश्चीयमाकृतिः । तथा मन्ये वराहेण भाव्यं दिव्येन केनचित् ॥ ३३ ॥ कपिञ्जलोऽवदद् देव ! द्वीपी चायं हतः पुरा । राजाऽह पुनरयं किं विलोक्याह कपिञ्जलः ॥ ३४ ॥ इदमज्ञातमेवाऽस्तु राजा प्राह तथापि किम् । कुन्तलोऽप्याह किं ज्ञातेनाऽमुना देव ! चल्यताम् ॥ ३५ ॥ उपसृत्य स्वयं राजा लुठद्गर्दा मृगी हताम् । वीक्ष्य प्राह विषण्णः सनकृत्याचरणं हहा ! ॥ ३६ ॥ न्यायः कोऽयमशस्त्रो यद् दधानो वदने तृणम् । इत्थं निःशरणो दीनो हन्यते सुभटैः पशुः १ ॥ ३७॥ धिग् धिग् मां हरिणिभ्रूणघातकं गुरुपातकम् । धिगिमां मेऽखिलक्षोणीकरातिजनितां श्रियम् ॥ ३८ ॥ विकलाक्षत्वकृत् पञ्चेन्द्रियाणामपि या नृणाम् । कृत्याकृत्यमतिं या च मदिरेव विलुम्पति ॥ ३९ ॥ कुलटेव न यैकत्राऽवस्थाना तामपि श्रियम् । इच्छवो मार्गमुज्झन्ति मुनिभिः श्लाघितं जडाः ॥ ४० ॥ धन्यास्ते मुनयो हित्वा महासंसारकश्मलम् । निष्पके संवृतात्मानो मोक्षमार्गे चरन्ति ये ॥४१॥ तद् गच्छाम्याश्रमं पुण्यं यत्र सन्ति तपोधनाः । इयतः कल्मषात् शुद्धिः कथं मे भविताऽन्यथा ? ॥ ४२ ॥ इति राज्याद् विरक्तात्मा पादचारेण भूपतिः । बजित्वा सह मित्राभ्यां विवेश द्रुतमाश्रमम् ॥ ४३॥ दृष्ट्वा कुलपतिं तत्र ननाम मुदितो नृपः । पृष्ठे पाणिं निधायास्य Page #6 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्रा मुनिरप्याशिषं ददौ ॥ ४४ ॥ क्षतात् त्राणेन लोकानां स्वस्य क्षत्र इति प्रथाम् । कुर्वाणः सार्थिकां पुण्यैः प्रवर्धख सदा नृप! कथानकम्। ॥ ४५ ॥ राजा पप्रच्छ भगवन् ! ज्ञान-ध्यान-तपांसि वः । निर्वहन्त्यहतं कच्चित् कुशलं मृगभूरुहाम् ॥ ४६ ॥ मुनिरूचे | ॥२ ॥ महाराज! भरतान्वयभूषण ! । त्वयि प्रशासति क्षोणी कुतोऽस्माकमुपद्रवः ॥ ४७ ॥ मही राजन्वती तेजः प्रबलं विमलं यशः । वर्णाश्रम ! महीरक्षा दक्षा वृत्तिस्तवाऽखिला ॥ ४८ ॥ अस्मिन्नवसरे क्वाऽपि जातः कोलाहलो महान् । किमेतदिति सम्भ्रान्तौ मुनि-भूपौ-बभूवतुः ॥४९॥ अब्रह्मण्यमब्रह्मण्यमिति च व्याकुलं वचः । श्रुत्वा कुलपतिः शिष्यं तं ज्ञातुं प्राहिणोद् द्रुतम् ॥ ५० ॥ पुनरार्तस्वरो जज्ञे स्त्रीणां शोकस्पृशामिति । मातश्चेद् मे मृगी मां करिष्येऽनशनं तदा ॥५१॥ मातापि प्राह चेद् वत्सेऽनशनं त्वं करिष्यसि । तदाहमपि कर्तास्मि विना त्वां जीवितेन किम् ।। ५२ ॥ श्रुत्वा कुलपतिश्चैतद् हृदयं स्फोटयद् वचः । किं नः प्राणप्रिया पुत्री वञ्चनाऽनशनीयति ? ॥ ५३ ॥ इयं च निकृतिर्नूनमस्मत्सधर्मचारिणी । वत्सामनु- 12 सरन्त्येतद् ब्रूते किमसमञ्जसम् ? ॥५४॥ ततोऽङ्गारमुखादाशु स तापस्यावजूहवत् । आजग्मतुरथो तारं ते रुदत्यावुमे अपि ॥ ५५ ॥ उवाच वञ्चनां मायी मुनिः किं पुत्रि ! रोदिषि । साह जानाति तातो यदस्ति क्रीडामृगी मम ॥५६॥ सोऽप्याह या त्वया बाल्यात् पोषिता खकरार्पितैः । नीवारकवलैस्तस्यास्ततः किमभवत् सुते ! ? ॥ ५७ ॥ इत्युक्ते वञ्चना | तारस्वरं रोदिति केवलम् । ततः प्रविश्य सम्भ्रान्तः शिष्यः कुलपति जगौ ।। ५८॥ भूराजन्वती सेयमब्रह्मण्यमहो! महत् । मृगयाव्यसनात् पापः कोऽप्यहन् गर्भिणी मृगीम् ।। ५९ ॥ सास्त्रं कुलपतिः प्रोचे हहा! किं भाव्यतः परम् । यतस्तां निघ्नता तेनाऽऽनीतोऽस्माकं कुलक्षयः ॥ ६०॥ विना मृगी कथं जीवेद् वत्सा तज्जीविता ततः । न प्राणिति विना पुत्रीम ॥२॥ Page #7 -------------------------------------------------------------------------- ________________ स्मत्प्राणप्रिया खलु ।। ६१ ।। विना सधर्मचारिण्या कुतो मे तपसां विधिः । तपोविधिं विना मे स्याद् ऋषित्वमनघं नहि ॥ ६२ ॥ राजन्निक्ष्वाकुराजेन्द्र ! कौतस्त्योऽयं तपस्विनाम् । इत्थमाकस्मिकः शोकशङ्कस्त्वय्यपि भूपतौ १ ॥ ६३ ॥ ततः कुतोऽपि तं ज्ञात्वा साधुवाधाकरं परम् । श्वपाकं शाधि येन त्वं लोकपालोऽसि पञ्चमः ॥ ६४ ॥ वञ्चना त्वाह मां तात ! चितामारोढुमादिश । किं न वेत्सि ममैण्या हि मरणं क्रकचायते १ ॥ ६५ ॥ सविषादं नृपः प्रोचे मुने ! कुर्वेऽहमत्र किम् । परेषां दण्डमाधातुमलमेषोऽस्मि नात्मनः १ ॥ ६६ ॥ ससंरम्भं च सौत्सुक्यं मुनिः प्रोवाच नन्वहो १ । इयता स्यात् किमुक्तं यद् मया व्यापादिता मृगी १ ||६७ || पश्चात्तापात् स्वमात्मानं प्रणिन्दति महीपतौ । पिधाय वल्कलेनास्यं पूच्चक्रेऽथ स मायिकः || ६८ || ऊचे च कुपितो भूपमाः पाप ! वहसि ध्रुवम् । कोदण्ड-शरधी हन्तुं ध्यानलीनांस्तपस्विनः १ ॥ ६९ ॥ निपत्य पादयो राजा विनयाद् मुनिमत्रवीत् । तमेकमपराधं मे क्षमस्व त्वं क्षमानिधे ! ॥ ७० ॥ मुनिः पराङ्मुखो भूत्वा चुक्रोश नृपमुच्चकैः । भरतान्वयचन्द्राङ्क ! व्रज ब्रज ममाश्रमात् ॥ ७१ ॥ युष्मादृशां निर्घृणानां श्रुता वागपि पाप्मने । किं पुनः कर्मचण्डाल ! वाचाल ! सङ्गमस्त्वया ॥ ७२ ॥ राजा सविनयं प्राह मुने ! ब्रूहि करोमि किम् । विशाम्यग्नि, त्यजामि क्ष्मां, चरामि व्रतमेव वा ॥ ७३ ॥ सकोपं मुनिरप्यूचेऽद्यापि श्रावयसे गिरम् । मायाविन् ! हरिणीभ्रूणघातपातकपङ्किलाम् १ ।। ७४ ॥ ततोऽङ्गारमुखोऽवादीत् प्रसादं ! कुरु मा रुपः । तपस्तेजोनिधे ! नायमपमानं नृपोऽर्हति ॥ ७५ ॥ किन्तु दुष्कर्मणोऽमुष्य पवित्रीकारकारणम् । शास्त्रानुपाति यत् किश्चित् तदेवाऽऽशु समादिश ।। ७६ ।। मुनिरूचेऽङ्गारमुख ! शुद्धिरस्य तदा भवेत् । सर्वस्वं यद्यसौ दत्ते दानं ह्यघनिवृत्तये ॥ ७७ ॥ सोच्छ्वासं नृपतिः प्रोचे प्रसीद भगवन् ! मयि । सर्वस्वं मे गृहाण त्वं विलयं Page #8 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र ॥ ३ ॥ यात्वघं मम ॥ ७८ ॥ किं न प्राप्तं मया त्रातः ! शुध्यामि यद् यतस्ततः । सग्रामाऽश्वेभकोशा भूर्दत्ता तेऽम्बुधिमेखला ॥ ७९ ॥ प्रणम्य मुनिमङ्गारमुखः प्राह कृताञ्जलिः । राजा यदभिधत्ते तद् भगवन् ! प्रतिपद्यताम् ॥ ८१ ॥ अथाऽपसार्य राजानमूचतुः सुहृद मृदु । अकाण्डे को यमुत्पातो राजन् ! विमृश मा मुहः ? || ८२ ॥ राजाऽवज्ञाय तद्वाचमूचे सप्रश्रयं मुनिम् | यदुक्तं भगवन्नस्तु गृहाण वसुधामिमाम् || ८३ || क्षमाधारं मुनिः प्राह दत्तास्मभ्यं मही त्वया । नार्हस्यतः परं पृथ्व्या भोगमामिति सोऽब्रवीत् ॥ ८४ ॥ तदा तत्रागतं वाराणसीतः शिष्यमात्मनः । मुनिं कौटिल्यनामानमाजूहवत् स तापसः ।। ८५ ।। हरिश्चन्द्रेण मे पृथ्वी दत्ता जलधिमेखला । इत्यर्थे खलु साक्षी त्वमिति तं मुनिरादिशत् ॥ ८६ ॥ कौटिल्योऽप्यवदद् राजन्नत्रार्थे साक्षिणो वयम् । ओमित्युक्ते नृपेणाऽगात् स स्वं स्थानं मुदं नृपः ॥ ८७ ॥ अथ व्यजिज्ञपत् कोऽपि शिष्यो यावदियं मृगी । तिष्ठेत् तावद् विपन्ना न पाठस्तत् क्रियतां किमु ? ॥ ८८ ॥ सखेदं मुनिरूचेऽस्याः कारयाऽनलसंस्कृतिम् । वञ्चनाsse मया सार्धमस्याः स्यादग्निसंस्कृतिः ॥ ८९ ॥ राजा तां विनयादूचे ममैकं दुर्नयं सह । अहं तुभ्यं प्रदास्यामि स्वर्णलक्षमसंशयम् ॥ ९० ॥ कष्टादिव तयाऽप्योमित्युक्ते प्राह मुनिस्ततः । दीयतां तर्हि हेमाऽस्यै राजा प्राहैत मत्पुरे ॥ ९१ ॥ प्रातः सन्ध्याविधिं कृत्वा पश्यैते वयमागताः । इत्याकर्ण्य मुनिं राजाऽवोचत् तर्ह्यधुना वयम् ॥९२॥ इक्ष्वा कुवंशभूपालगुरुं श्रीनाभिसंभवम् । देवं शक्रावतारस्थमर्चित्वा यामः धामनि ॥ ९३ ॥ ( युग्मम् ) एवं कृत्वा च पाश्चात्यागतसैन्येन संयुतः । हरिश्चन्द्रनृपोऽयोध्यां प्रविवेश दिनात्यये ॥ ९४ ॥ अथ राज्यमहास्तम्भः सर्वनीतिविशारदः । मत्री मित्रं च तस्यासीद् वसुभूतिर्महीपतेः ।। ९५ ।। कुन्तलाद् ज्ञातवृत्तान्तः स दध्यौ हृदि हा ! कथम् । अपर्यालोचयन्तोऽर्थं राजानः कथानकम् । ॥ ३॥ Page #9 -------------------------------------------------------------------------- ________________ स्वोपघातकाः ? ।। ९६ ।। ददता वसुधां तस्मै तापसाय दुरात्मने । देशाद् देशप्रवासो हि स्वीकृतो भूभुजा स्वयम् ||९७॥ | यदन्येनाऽदृष्टचरो वराहं कोऽप्यवेदयत् । भृभुजे तद् ध्रुवं किञ्चिद् दिव्यमेतद् विजृम्भितम् ।। ९८ ॥ अविमृष्टायतिर्भूपः क्षीयते न्यायवानपि । अत एव विमृष्टारः सन्निधेयाः सुमन्त्रिणः ।। ९९ ।। किं कुर्मो दुर्धियः कुर्युर्यत् किञ्चन महीभुजः । तत्तत्प्रतिक्रियाव्ययैः क्लिश्यते सचिवैः पुनः ॥ १०० ॥ विमृश्यैवं तदामात्यः सशल्य इव निःश्वसन् । विलासमण्डपेऽह्नाय सचिन्तो नृपतिं ययौ ॥ १०२ ॥ नत्वोपविष्टे तस्मिंश्च मत्रिणि प्राह भूपतिः । वराहाऽऽवेदकस्याग्रे प्रतिज्ञातमकृमहि ।। १०२ ।। मन्त्रयाह देव ! तत् सर्वं वृत्तान्तं ज्ञातवानहम् । राज्ञोचे सस्मितं तर्हि कुन्तलस्तद् न्यवेदयत् ॥ १०३ ॥ मन्त्री प्राह विभो ! कस्य प्रभुत्वं न मुदे भुवि । अनौचित्यमपि स्तौति यत्रौचित्यमिवानुगः ॥ १०४ ॥ किन्तु विज्ञपयियामि कर्णयोः कटु किञ्चन । नाथाऽयं वसुधात्यागो नहि मे प्रतिभासते ।। १०५ ॥ राज्ञोचे सत्यं किन्त्वेतद् युक्तं नो युक्तमेव वा । प्रारम्भाद् युज्यते पूर्व निर्वाहोऽङ्गीकृते पुनः ॥ १०६ ॥ किञ्च यान्तु श्रियो नाशं प्रयातु निधनं कुलम् । प्रवासो वास्तु निर्वाहः प्रतिज्ञाते भवेद् यदि ॥ १०७ ॥ अलं तदेतया पूर्वकृतमीमांसयाऽधुना । स्वर्णलक्षं हि ढौकस्व स्वेनाऽयातिमुनिर्यतः ।। १०८ ।। ततः सशिष्यः स मुनिः कुर्वन्नागाद् नृपस्तुतिम् । अहो ! अगोवरे वाचां राज्ञोऽस्य चरितं महत् ।। १०९ ।। पूरोभूय नृपस्याऽसौ सकोप इव मायया । अयाचत स्वशिष्येण स्वर्णलक्षं महीपतिम् ॥ ११०॥ नृपाऽऽदेशादथादिशत् स मन्त्री कुन्तलं ततः । सोऽपि स्वर्ग समादाय मुमोच नृपतेः पुरः ||१११ । । राज्ञोक्तः सचिवस्तस्मै तापसाय ह्युपानयत् । सोऽपि वीक्ष्य किमेतद् भोः ! पप्रच्छेति नृपं मुनिः ॥ ११२ ॥ राज्ञोचे वञ्चनास्वर्ण, कुत एतन्मुनिर्जगौ । Page #10 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्रा अथाख्यद् नृपतिः कोशात् , बहिरन्तः स वा क्षितेः ? ॥ ११३ ॥ इत्युक्त मुनिना राजा प्राह मध्ये क्षितेर्मुनिः । ब्रूते स्वामी कथानकम्। क्षितेः कोऽत्र राजाऽऽख्यत् त्वं न चाऽपरः ॥ ११४ ॥ मुनिरूचे ततः कोऽयं प्रकर्षः कौशलस्य ते । यन्मदीयेन हेम्ना मेऽनृ॥४॥ णीभवितुमिच्छसि ? ॥ ११५ ॥ तदास्तां काञ्चनं यामो दृष्टं सत्यं तवेयता । इत्युदित्वा मुनौ याति राजा तस्य पुरोऽवदत् ॥११६॥ विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः। सकष्टमिव तस्थौ च स मुनिर्भूभुजाऽर्थितः ।।११७॥ ततो राजा मन्त्रिकर्णे किमप्याचष्ट मन्व्यथ । केनचित् पुरुषेणाऽऽश्वज्जूहवद् वणिजोऽखिलान् ॥११८॥ मुनिना दिव्यशक्त्या ते हरिश्चन्द्र द्विषः कृताः । संभूय मन्त्रयामासुः स्वामी नोऽतः परं मुनिः॥११९॥ हरिश्चन्द्रस्य दत्तेन किं द्रव्येण वृथाऽधुना ? । यो हि स्वामी पुरस्याऽस्य देयोऽस्माभिः करोऽस्य तत् ॥१२०॥इति मन्त्रयतो मन्त्री तानूवे रहसि स्थितः। राजा वोऽर्थयते स्वर्णमधमों मुनेःस यत् ॥१२१॥ पश्यतस्तान् मिथो वक्तुं स्वर्णदाने कृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्येत्य स्वयमर्थयते स्म तान् ॥१२२।। हे पौराः! वोऽञ्जलिर्बद्धो दत्त स्वर्ण कियन्मम । कुतश्चिदपि याचित्वा दास्ये वः काञ्चनं पुनः ॥१२३।। अल्पद्रव्या वयं दातुं स्वर्णलक्षं न शक्नुमः । इत्यूचिवांसो वणिजो राज्ञादिष्टा ययुगृहम् ॥ १२४ ॥ विलक्षोऽथ नृपो दध्यौ किं करोमि कुतः पुनः। समानयामि तत् स्वर्ण हा! धिक् कीदृगुपस्थितम् ॥ १२५ ॥ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् । विलम्बः कोऽयमद्याऽपि राजन् ! विसृज मां ततः ॥ १२६ ।। वसुभूतिर्मुनि प्राह विश्वदृश्वा त्वमस्यथ । हरिश्चन्द्रसमः क्वापि दृष्टः किं कोऽपि JAV साविकः ॥ १२७ ।। सोपहासमुवाचाऽथाङ्गारवक्त्रो न मन्त्र्यपि । दृष्टोऽभूत् त्वादृशो नापि हरिश्चन्द्रसमो नृपः॥१२८ ॥ नृपं प्रति मुनिः प्रोचे मायाविन् ! किं वृथोदितैः । हंसि मध्याह्नसन्ध्यां नः सच सत्यं च ते ह्यदः ॥१२९॥ ऊचेङ्गार-IPI Page #11 -------------------------------------------------------------------------- ________________ मुखो राजन् ! वाञ्छसि त्वं किमात्मनः ? कुलस्य यशसो लोकस्याकस्मिकमिह क्षयम् ? ॥ १३० ॥ प्रणम्योचे नृपो भीतेका स्त्वत्तः किं स्यात् क्षयोऽपि नः ? । उपपूर्वाचलं नैव ग्रहाणामस्तसम्भवः ॥ १३१ ॥ निहन्ति पाणिना भूपं मुनिस्तं नतवान् नृपः । कोपे क्षान्तौ च तावेव तदाऽभूतां निदर्शने ॥ १३२ ॥ सरोषमङ्गारमुखो भूपं प्राह नृपाधम !| विप्लावयसि किं नस्त्वं मृषाभाषामहोदधे ! ।। १३३ ।। आहाङ्गारमुखं मन्त्री विरोधस्ते मिथः कथम् । क्वेक् तपो रुषः क्वैमास्तन्मा ब्रह्म कलङ्कय ? ॥ १३४ ॥ प्राहाऽङ्गारमुखः कोपादस्थापितमहत्तर !। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम ! १॥ १३५ ॥ अरे राजंस्त्वमेनं किमन्तरालापिनं बटुम् । न निवारयसे किं मे न प्रयच्छसि काञ्चनम् ? ॥ १३६ ।। राज्ञोचे त्वं मुनिः स्वैरं ब्रूहि सर्व सहोऽस्मि यत् । सूर्यवंश्या हि नैवेा भजन्ते यतिषु क्वचित् ॥ १३७।। ऊवेऽङ्गारो यति हं किन्त्वेष ब्रह्मराक्षसः। ततो यद्यस्ति ते शक्तिस्तदा प्रहर सत्वरम् ।। १३८ । नृपो दध्यौ स्वप्रतिज्ञाघातिना कलहेन किम् ?! तापसेन सहाऽनेन क्रियते कृत्यमेव हि ॥ १३९ ॥ कर्णे च कथिते भूपेनाऽऽनीयाभरणान्यपि । कुन्तलेनाऽर्पितान्येष राज्ञोऽमूनीत्यपाकरोत् ॥ १४० ॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः । यावद् ददाति ते स्वर्ण तावदावां गृहाण भोः ॥ १४१ ॥ मुनिराह त्वया जूर्णमाारण करोमि किम् । अल्पेन कुन्तलेनापि का स्वर्ण स्वमुपेक्षते ? ॥ १४२ ।। आदिक्षत् कुन्तलं राजा देवी भूषणमानय । स ययाचे ततो देवी देव्याहैष्याम्यहं स्वयम् ॥ १४३ ॥ तेन दर्शितमार्गाऽसौ रोहिताश्वेन संयुता । आययौ | सदसि क्षिप्रं सुतारा सावगुण्ठना ॥ १४४ ॥ प्रणम्यैषा मुनि प्रोचे गृहाणाभरणं मम | मुनिराह पितुर्भर्तुर्वैतान्येषाऽब्रवीदिति ॥ १४५ ॥ आर्यपुत्रेण मे योग्य नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं दक्षता ते प्रतिव्रते !? ॥ १४६ ।। ऊजेऽङ्गारमुखः Page #12 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र कथानकम्। किं न जानासि त्वमियं किल । महाकूटनिवासस्य हरिश्चन्द्रस्य गेहिनी॥१४७ ।। त्वदीयमेषाऽर्पयते वस्तु येत्युदितेऽमुना। आबद्धभृकुटीमङ्गः कुन्तलोऽथ रुषाऽवदत् ॥१४८।। अरे! तापस ! नो वेत्सि देवीमेतां महासतीम् । तदेष त्वं न भवसीत्युक्वा सोऽप्यवदद् नृपम् ॥ १४९ ।। विमृशाऽद्यापि मा मुह्यः किं यतेः स्यात् परिग्रहः । वाचश्चेमाः स्युरेते हि मुनिव्याजेन राक्षसाः?॥१५०॥ ततः कुलपतिः क्रोधादचे कर्मकराधम! आसादितपरज्ञानानधिक्षिपसि तापसान् ॥ १५१॥ यदि मेऽस्ति तपासत्यं तदा त्वमधुना द्रुतम् । श्मशानवासी गोमायुभवेत्युक्त्वा शशाप तम् ।।१५२॥ कुन्तलो जम्बूको भूत्वा शन्दं कुर्वन् ययौ क्वचित् । प्रसीद मा कुपः स्वामिन् ! मुनिमित्यानमद्नृपः ॥ १५३ ।। पादेनाहत्या परतः क्षिपति क्षमापति मुनौ । रोहिताश्वो रुदन्नाह मा स्म हन् पितरं मम ॥ १५४ ॥ किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः साश्रुदृशीभूय प्रोचेऽङ्गारमुखं मृदु ॥ १५५ ॥ बाष्परुद्धगलो नाऽस्मि शक्तोहं दातुमुत्तरम् । ऊचेऽङ्गारमुखो मैवं मुश्च स्वमधुनैव हि ॥ १५६ ।। करीभूय मुनिः प्राह सुतारां शिक्षितस्त्त्वया । बालोऽयं साऽऽह कृत्येषु नाऽयं शिक्षामपेक्षते ॥ १५७ ॥ यतःवृद्धोपास्ति विनाऽपि स्याद् दक्षः स्फुर्तिमयः पुमान् । मणिः किं गारुडेऽधीती यदसौ हरते विषम् ॥ १५८ ॥ राजाऽथ सास्त्रं दध्यौ च यत् सजीवमजीवकम् । चेद् दत्तं प्राग भुवा साधं ततः स्वर्ण ददे कुतः १ ॥ १५९ ॥ विलम्ब्य काञ्चनं कृत्वा कथञ्चिद् दातुमुत्सहे । इत्याह दैन्यात् स मुनिं मासमेकं सहस्व ते ॥ १६०॥ मुनिरूचे कथं पश्चाद् भिक्षयित्वा प्रदास्यसि ? । राजाहैक्ष्वाकवो भिक्षां दातुं दक्षा न याचितुम् ॥ १६१ ॥ कुतस्तहीति तेनोक्ते राजोचे मुनिपुङ्गव ! विक्रीय स्वमपीत्येतद् मुनिः श्रुत्वा विसिष्मिये ॥ १६२ ॥ वाचा तु कठिनः प्राह पृथ्वीं मुश्च ममाऽधुना । राज्ञोचे कुत्र याम्याह स स्वमधुनैव हि । व यत् सजीवमजीवकम् । चापमान् । मणिः किं गारुडेऽधीतरत्येषु नाऽयं शिक्षामपेक्षते Page #13 -------------------------------------------------------------------------- ________________ | न यत्रोपलक्ष्यसे ? ॥ १६३ ।। राज्ञोक्तं मे भुवं मुश्च त्वमितीदं कियद् वचः । हन्त ! पूरयितुं सन्धां त्यजन्तीक्ष्वाकवो ह्यसून् ॥ १६४ ॥ ततोऽपवार्य ते प्रोचुस्तापसा मुदिता मिथः । अहो ! सत्त्वमहो ! सचमहो! साचिकसूश्च भूः ॥ १६५॥ देव्याह किमिदं मन्त्रिमरिष्टं नः समापतत् । सोप्याह किमिदं वेनि दैवं पृच्छ नृपप्रिये ! ।। १६६ ॥ विमृश्याह नृपो देवी गच्छान्तः पुरमात्मनः । सुताराऽऽह समेष्यामि युष्माभिः सार्धमप्यहो! ॥ १६७ ।। सास्रं प्राह नृपो देवि ! सुकुमार शिशुः सुतः । पन्थानो विषमास्तत् त्वं तिष्ठाऽत्रैव व्रजाम्यहम् ।। १६८ ॥ सावष्टम्भं सुताराऽऽह यद् भाव्यं तद् भवत्विह । आगमिष्याम्यहं साधं त्वया च्छायेव निश्चितम् ॥ १६९ ॥ पतिव्रते ! क्व चलिताऽसीत्युक्ते मुनिनाऽऽह सा । प्रवासे सह नाथेन येन पत्यनुगाः स्त्रियः ।। १७० ।। ममायत्तां हरिश्चन्द्रो नेष्यते त्विदमद्भुतम् । इत्युक्ते मुनिना प्राह वसुभूतिः क्रुधा ज्वलन् ॥ १७१ ॥ अरे ! तापस ! नासि त्वं विज्ञो लोकस्थितेः खलु । विद्धीदानी स्त्रियो भर्तृदेवता न परात्मिकाः ॥ १७२ ॥ यत् प्राह व्यवहारज्ञस्त्वन्मन्त्री तत्र ते मतम् । इत्युक्ते तापसेनाह राजाऽपि मुनिपुङ्गवम् ।। १७३ ॥ मम स्त्रैणस्य पौत्रस्य देशकोशा-ऽश्व-हस्तिनाम् । किमन्यद् देव्याः पुत्रस्य त्वमेव स्वाम्यतः परम् ।। १७४ ॥ तत् त्वं चेन्मन्यसे देवी तदायातु मया सह । देव्याह विसृज त्वं मां मुने! स प्राह याहि तत् ।। १७५ ॥ किन्तु मुक्त्वाऽऽभरणानि यातेति मुनिनोदिते । मुमोच नृपतिः सर्व नेपथ्यं मुकुटादिकम् ॥ १७६ ॥ सुताराऽऽह पुनः किश्चिदस्त्ववैधव्यलक्षणम् । भूषणं भगवन्नेव निशम्य मुनिरब्रवीत् ॥ १७७ ॥ तव भद्रे ! हरिश्चन्द्र एवाऽवैधव्यलक्षणम् । इति वाचि मुनौ साम्रा सुताराऽप्यभवत् ततः ॥ १७८ ॥ मन्त्री प्राह मुनि कोपादरेरे ! ब्रह्मराक्षसः!। नृपोऽविज्ञोऽददत् ते मां, किं वा गृहन्नितो भवान् ॥ १७९ ॥ क्रुधा प्रोचे मुनि Page #14 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र तदा चम्पकमा हि संपदः पुंसां तदा सोऽप्यस्यां प्रसन्नायां को हि नेच्छति र्नाऽयं कृत्येषु विदुरो नृपः । नचाऽहमपि विज्ञोऽस्मि, विज्ञस्त्वं योऽन्तरायकृत् ॥ १८०॥ मुनिः क्रुधाक्षिपद् भूमौ गृहीत्वाम्भः लकथानकम्। कमण्डलो। आह चास्ति तपश्चेन्मे तदा त्वं द्राक शुको भव ॥ १८१ ॥ ततश्च सचिवः कीरो भूत्वाऽगाद् नभसा क्वचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥१८२॥ निवार्य रुदतो भूपः पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान् प्रतस्थे सप्रियासुतः॥१८३॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास राजा स्नेहगिरा मृदुः॥१८४ ॥ प्रचलन सात्त्विका पुत्र-कलत्राभ्यां समन्वितः । कथं कथमपि प्रांतमध्वनः प्राप भूपतिः ॥ १८५ ।। दूरमार्गपरिश्रान्ता सुतारा नृपमब्रवीत् कियदद्यापि गन्तव्यं खिन्नान्यङ्गानि नाथ ! मे? ॥ १८६ ॥ उवाच नृपतिर्देवि । मा ताम्यः किं न पश्यसि । अभ्रंलिहगृहाकीर्णामाराद् वाराणसी पुरीम् ? ।। १८७ ।। अतीव यदि खिन्नाऽसि वहन्ती पुत्रमात्मना । अनुगङ्गातट रूढं तदा चम्पकमाश्रय ॥ १८८ ॥ देव्या तथाकृते राजा स्वेनैव समवाहयत् । यथासुखं तदङ्गानि ततो देवी व्यचिन्तयत् ॥ १८९ ॥ यदा हि संपदः पुंसां तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन् ॥ १९० ॥ स्तुत्यः स्तौतीहते काम्योऽनुगम्योऽप्यनुगच्छति । नरं यस्यां प्रसन्नायां को हि नेच्छति तां श्रियम् ? ॥ १९१ ॥ स्वप्नदृश्या ततोऽभूद् नः सा संपद् यां विनाऽधुना पद्भ्यां यानं क्षितौ शय्या कदाहारो मनःक्लमः ॥१९२ ॥ इत्यूचाना पिधायाऽऽस्यं रुरोदोचैर्नृपप्रिया । रोहिताश्वस्ततोऽरोदीद् भूत्वा साश्रुनूपोऽवदत् ॥ १९३ ॥ मा रोदीव धीरा त्वं सात्विकत्वमुरीकुरु । मा मा शोक पिशाचोऽस्मान् गृह्णातु परितो भ्रमन् ॥ १९४ ॥ रोहिताश्वस्ततोऽवोचदहं तात! बुभुक्षितः। राजाऽऽदिक्षदरे ! क्षिप्रं देहि वत्साय मोदकम् ।। १९५ ।। न कोऽपि यावदायाति विलक्षो नृपतिस्ततः। किमेतदिति देव्योक्तः ॥ १९२ ॥ इत्यू मा शोक पिशया । रोहिताश्वसाधुना पद्भ्यां या प्रसन्नायां को मन कोऽप्यागादान ततो देवी Page #15 -------------------------------------------------------------------------- ________________ पूर्वाभ्यासोऽब्रवीदिति ? ॥ १९६ ॥ रोहिताश्वः पुनः प्राह हे ! मातः ! क्षुधितोऽस्म्यहम् । रुदती तारतारं सा सुतारा सुतमब्रवीत् ॥ १९७ ॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्मणः । भरतान्वयजातस्याऽवस्था केयं तवागता? ॥ १९८ ॥ अथ दध्यौ नृपः कीदृग् राज्यस्यैतादृशः फलम् । रुदतो यत् तनूजस्य प्रातराशेऽप्यशक्तता ॥ १९९ ॥ आस्तां विनोदयाम्येनं कौतुक-प्रेक्षणादिभिः। पश्येत पुत्र ! गङ्गायां मिथः क्रीडन्ति पक्षिणः ॥ २०० ॥ हंसोऽयं सारसोऽयं च कोकद्वन्द्वमिदं पुरः । कलापं पूरयित्वा च नृत्यत्येष शिखी कथम् ? ॥ २०१॥ तन्नामोच्चारपूर्व तु वीक्षमाणः सविस्मयम् । रोहिताश्वः पुनः प्राह ताताऽहं क्षुधितो भृशम् ।। २०२ ॥ सवैलक्ष्यं पुनर्भूपे बोधयत्येवमेव तम् । आगादकस्मात् क्वाप्येका वृद्धा पाथेयमस्तका । २०३ ।। पृच्छन्ती नगरीमार्ग भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी ? ॥ २०४ ॥ कथा नः श्रूयमाणाऽपि कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ राज्ञेत्युक्ते चचाल सा ।। २०५॥ मोदकं देहि मे तात ! सुतरामितिभाषिणि । रोहिताश्वे ततो वृद्धा निवृत्त्य तमढौकयत् ॥२०६ ।। स्वयं निलेम्पटत्वेन सात्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि रोहिताश्वोऽग्रहीन तम् ।। २०७॥ नानुकम्पाप्रदानं ते गृह्णीमो वयमध्वगे।। प्रत्याख्यातेति राज्ञा सा ययौ क्वापि क्षणादपि ॥ २०८ ॥ देवि ! चेद् गतखेदाऽसि तदोत्तिष्ठ पुरीं प्रति । याम इत्थं नृपेणोक्ते सुताराऽऽह सगद्गदम् ॥ २०९ ॥ निजराज्यपरिभ्रंशलज्जासजमनाः कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र वैरीपुर्यां स्थितद्विषि? ॥ २१ ॥ सावष्टम्भं नृपः प्राह का लज्जासत्त्वशालिनाम् १ । पूर्णीकतुं निजां सन्धामापदो यदि तन्महः ॥ २११ ॥ सुताराऽऽह भवेद् दैवात् सा काऽप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ २१२ ॥ राजा प्रोवाच देवि ! त्वं न विचार्य Page #16 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र कथानकम्। ॥७॥ प्रभाषसे । लक्ष्म्या बलेन वा हीनो यदि स्यां तत् पराभवः ॥२१३॥ इदं पुराकृतं कर्म प्रभवत् केन वार्यते । तत्प्रभावाद् दशाऽस्माकं यद्येषा तद् द्विषां किमु ? ॥२१४ ।। ततः प्रति पुरीं राजा प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्ण यदासन्नोऽवधिर्मुनेः १ ॥ २१५ ॥ मां विक्रीयाऽऽर्यपुत्राऽस्मै तद् यच्छेति तयोदिते । राज्ञोक्तं विक्रयश्चेत् तत् सर्वेषां नहि कस्यचित् ॥ २१६ ॥ रोहिताश्वो ब्रवीत् सास्रं मां विक्रेष्टाऽस्तु मा पितः।। मातरिय तातं मां विक्रीणानं पुरे धनैः | ॥ २१७ ॥ सुतारा रोदिति क्षमापो बाष्पं रुद्ध्वाऽऽह वत्स ! कः विक्रेष्यते त्वां, सोऽप्याह तात ! विक्रेष्यते भवान् ।।२१८॥ | त्वदन्तिकेऽम्ब ! स्थास्यामि यास्याम्यन्यगृहे न तु । वरं मे मोदकं मा दा इत्युचानो रुरोद सः ॥ २१९ ॥ राज्ञोचे देवि ! नैवाहं पुत्रस्य करुणं वचः । श्रोतुं शक्नोमि तदिमं कथश्चिदपि वारय ।। २२० ॥ रुदत्याह सुतारा त्वं चक्रवर्ती भविष्यसि । |मा रोदीस्तिष्ठ वत्स ! त्वां विक्रेष्यति न कश्चन ।। २२१ ॥ रोहिताश्वस्य वाचाऽथ मनो मर्माविधा रुदन् । पुरीभृतकवीथ्यां स तस्थौ श्रेण्यां नृपस्ततः ।। २२२ ॥ किश्चिद् विमृश्य च क्षिप्रं तृणान्यानीय भूपतिः । न्यसन मूनि सुतारोक्तः प्राहेषा भृतकस्थितिः ।। २२३ ।। रोहिताश्वं धुनानं स्वं शिरः प्राह ततो नृपः। विधेहि मद्वचो वत्स तुभ्यं दास्यामि हस्तिनम् ॥२२४॥ दध्यौ सुतारा धिम् दैवं भवे भवशतानि यः । दत्ते यन्नः क्व सा लक्ष्मीः क्वैषा विक्रयवाच्यता ? ।। २२५ ॥ राजाऽप्यचिन्तयद् दत्ता न तथाऽकीतये मही । यथा ह्यकीर्तये पत्नी-पुत्रयोरिह विक्रयः ॥ २२६ ॥ विसृजामि सुतरां तत् सपुत्रां पितृवेश्मनि । यदभाव्यं तदहं सोढा ध्यात्वेत्युचे च तां नृपः ।। २२७ ।। देवि ! याहि पितृकुलं पुत्रमादाय सम्प्रति । यथा तथाऽप्यहं स्वर्ण दास्यामि मुनये खलु ।। २२८ ॥ साक्षेपं प्राह देवी तु किन्नु स्यात् प्रलयेऽप्यदः । विमुच्य त्वामहं यान्ती ॥७ ॥ Page #17 -------------------------------------------------------------------------- ________________ सत्यं जाताऽस्मि दुर्जना || २२९ ॥ सरसीव पयः पूर्णे सर्वमृद्धौ समं भवेत् । नैःस्व्ये स्व- परयोर्भेदः शुष्केऽस्मिन्नुच्च - नीचवत् ॥ २३० ॥ किञ्च - वरं मृत्युर्वरं भिक्षा वरं सेवाऽपि वैरिणाम् । दैवाद् विपदि जातायां स्वजनाऽभिगमो न तु ॥ २३१ ॥ अपिच-सा सती या हिया भर्तुः सम्मुखे दिवसेऽनुगा । तनुच्छायेव धैर्येण प्रतीपेऽस्मिन् पुरो भवेत् ॥ २३२ ॥ इतश्र ब्राह्मणः कोऽपि वीक्षमाण इतस्ततः । भृतिकां काञ्चिदायासीदुपभूपं स उन्मुखः ।। २३३ || दृष्ट्वा च भूपमापादमस्तकं चक्रिलक्षणम् । ऊचे कस्त्वं कथं देहं श्रीगेहं भृतकीयसि १ ॥ २३४ ॥ शुचाऽऽत्तमौनं भूपालमालप्याऽगच्छदग्रतः । दृष्ट्वा सुतारां सास्रोऽभूदुच्चैर्दैवं निनिन्द च ।। २३५ || रतेरपि शिरोरत्नमेतां निर्माय सुन्दरीम् । कथं नयसि रे ! दैव ! हन्त ! दास्यविडम्बनम् ॥२३६॥ यतः - स्निग्धमङ्गं सतीरुपं सुवर्णं साधुभाषितम् । धत्ते किमपि लावण्यमसंस्कृतमपीतरत् ॥ २३७॥ सुतारायाः पुरः पुण्यं रोहिताश्वं सुलक्षणम् । दर्भाङ्कशिरसं प्रेक्ष्य धिक् शास्त्रमिति सोऽब्रवीत् ॥ २३८ ॥ शास्त्रेषु लक्षणानीह कथ्यन्ते यानि कानिचित् । सन्ति सर्वाणि तान्येषामवस्था पुनरीदृशी ॥ २३९ ॥ नृपः स्वानुभवं प्राह मा मैवं त्वं द्विज ! ब्रवीः । शास्त्रं हि मृषाभाषि किन्तु मे कर्मवैभवम् ॥ २४० ॥ पूर्वे जन्मनि यश्चक्रे ददतामदतां स्वयम् । श्रेयश्च कुर्वतामन्तरायः स इह भुज्यते ॥ २४९ ॥ तद्वशादीदृशी चेत् तेऽवस्थैषा तच्छुचाऽत्र किम् । सर्वं विषहमाणो हि कर्मभिर्मुच्यते जनः ॥ २४२ ॥ किमस्या मूल्यमित्युक्ते ब्राह्मणेन मुहुर्मुहुः । कथञ्चिद् रुद्धवाष्पोऽथ राजाऽख्यदुचितं हि यत् ॥ २४३ ॥ ततः स्वर्णसहस्राणि पश्चाऽस्या मूल्यमस्तुः भोः ! । वदतीति द्विजे राजा लज्जया धोमुखोऽभवत् ॥ २४४ ॥ अनिषिद्धमनुज्ञातमिति विप्रे नृपाश्ञ्चले । स्वर्णं बध्नाति राजाख्यद् मोक्षोऽस्या द्विगुणेन भोः ॥ २४५ ॥ तत् प्रपद्य द्विजः प्राह सुतारामग्रतो भव । चलितायां Page #18 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र ॥ ८ ॥ सुतारायां रोहिताश्वोऽश्वलेऽलगत् ॥ २४६ ॥ रुदतीदं सुताराऽऽह तिष्ठ त्वं पितुरन्तिके । आनेतुं मोदकं तुभ्यं वत्स ! यान्त्यस्मि सम्प्रति ॥ २४७ ॥ अमुञ्चत्यञ्चवले तस्मिन् मुहुर्मात्राऽपि बोधिते । भृतिके किं विलम्बोऽयमिति क्रुद्धो द्विजोऽवदत् ॥ २४८ ॥ सुतारां समयं यान्तीं यावद् मुश्चति नार्मकः । तावत् करतलेनैतमाहत्याऽपातयद् द्विजः || २४९ ।। संबाष्पं पुनरुत्थाय मातुर्वस्त्राश्चलेऽलगत् । पुनर्द्विजेन भूमौ स पादेनाऽऽहत्य पातितः ।। २५० ।। राजा सास्रं ततो दध्यौ धिगापदमिमां मम । इन्द्रस्याऽप्यङ्कलाल्योऽयं पदा विप्रेण हन्यते ।। २५१ ॥ ततः प्रोचे नृपो विप्र ! न तिष्ठेद् मातरं विना । शिशुः किमपि ते कर्म कर्ता क्रीणीह्यमुं ततः ।। २५२ ॥ नैतं सुधाऽपि गृह्णामीत्यूचानं द्विजमब्रवीत् । सुताराssर्य ! गृहाणैनं विधाय मय्यनुग्रहम् ॥ २५३ ॥ विप्रोऽपि कृपया स्वर्णसहस्रं तस्य वेतने । कृत्वा दत्त्वा च राज्ञे, तावादाय स्वगृहं ययौ ॥ २५४ ॥ राजा दध्यौ न लप्स्येऽहं पुरे वासं ततो मुनिः । यद्येति स्वर्णमेतस्मै दत्वा स्यामकुतोभयः ॥ २५५ ॥ ततः कुलपतिः कुर्वन्नाज्ञामित्र समाययौ । कोपात् पराङ्मुखीभूय प्रोचे द्राग् देहि हेम मे ।। २५६ ।। गृहाण कियदप्येतदित्युक्ते भूभुजा मुनिः । उवाच कुपितस्त्वैतद् ग्रहीष्येऽल्पं न काञ्चनम् ॥ २५७ ॥ मासोपरि गताः पञ्च दिना यदि तदाऽपि हि । कियदेव ब्रुवाणस्त्वमदृश्यास्य ! न लञ्जसे ॥ २५८ ॥ दध्यौ राजाऽधमर्ण धिगुत्तमर्णस्य दुर्गिरः । यः सहन्नपि भूयोऽपि तं प्रीणयति चाडुभिः ॥ २५९ ॥ ऊचे च भगवन्नेव काऽपि मे चित्तदुष्टता । विक्रीय दयिता-पुत्रो यत् प्राप्तं तत् समर्पये ॥ २६० ॥ ऊचेऽङ्गारमुखो मूर्ख ! राजानं प्रार्थय द्रुतम् । चन्द्रशेखरमत्रत्यं किं विक्रीतौ प्रिया-सुतौ ? || २६१ ॥ राजाऽऽख्यत् किमिदं | ब्रूषेऽनुचितं सत्वशालिनाम् । शतशो हि पराभूतान्नाहं प्रत्यर्थिनोऽर्थये ॥ २६२ ॥ प्रतिज्ञाभ्रष्ट ! वाचाट ! पुरो नः स्वं कथानकम् । ॥ ८ ॥ Page #19 -------------------------------------------------------------------------- ________________ विकत्थसे । इत्युक्ते मुनिना प्राह राजा मा स मुने ! कुपः ॥ २६३ ॥ चण्डालस्याऽपि कर्माऽहं कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति क्षमापोक्तेऽभृद् रोमाञ्चितो मुनिः ।। २६४ ॥ ततः कौपीनवासोभृल्लघुपिङ्गकचोच्चयः। दृढयष्टिकरो वृद्धो निषादः कोऽपि चाऽगमत् ॥२६५॥ राजानं वीक्ष्य स प्रोचे रे ! त्वं कर्मकरोऽसि किम् ? करिष्यसि च मे कर्म तत् श्रुत्वाऽचिन्तयद् नृपः ॥ २६६ ॥ रविरस्तङ्गतो लोकः क्रायको नास्ति नो मुनिः। क्षमते तनिषादस्यापि कुर्वे कर्म सम्प्रति ॥ २६७ ॥ करिष्ये कर्म तेऽवश्यं राज्ञेत्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कर्म राजाऽऽदिशसीह यत् ॥ २६८ ॥ रक्षितव्यं श्मशानं च लातव्यं मृतकाम्बरम् । अर्धदग्धानि काष्ठानि ग्राह्याणि च चितिचयात् ॥ २६९ ॥ यत् तत्रोत्पद्यते तस्याधं हि गृह्णाति भूपतिः। अन्यस्यार्धस्य भागौ द्वौ ममैकस्ते तु दास्यते ॥२७०॥ राजाऽऽदिशति यत् किश्चित् तच्च कार्य त्वया सदा । गङ्गासन्नश्मशानेशः कालदण्डाभिधोऽस्म्यहम् ॥ २७१ ।। इति श्रुत्वानृपः साह तं त्वदाज्ञाकृदस्म्यहम् । यदत्र मां प्रति स्यात् तद् | दातव्यं मुनये खलु ।। २७२ ।। अपवार्य मुनिः प्रोचे नमस्ते सत्वशालिने । नमस्ते सत्यसन्धाय नमस्ते धैर्यसद्मने ।। २७३ ।। कालदण्डोऽपि तद्वाचं प्रपन्नः साक्षिणं मुनिम् । कृत्वा सह नृपेणासौ श्मशानमगमद् निजम् ।। २७४ ॥ इतश्च पुर्यामेतस्यामकरसादपि देहिनाम् । जीवितव्यं हरन् मृत्युरुपतस्थे खलो यथा ।। २७५ ॥ ततश्च परितः प्रोद्यदाक्रन्दध्वनिभिर्जितः । निलीयाऽस्थादिव क्वापि नगरे मङ्गलध्वनिः ॥ २७६ ।। मृत्योर्भीता जना रक्षां विदधत्यात्मनो यथा । तथा प्रेरितवन्मूत्युस्तान् गृह्णाति सहस्रशः ॥२७७॥ श्रुत्वाऽथ दुःसहलोकाऽऽक्रन्दं मरण पुरे। आह्वत् सत्यवसुं भूपो मन्त्रिणं चन्द्रशेखरः ।। २७८ ॥ राजादेशात् समायान्तं मन्त्रिणं कोऽपि पूरुषः । अन्तरा मिलितोऽनंसीत् कीरपञ्जरपाणिकः ॥२७९ ॥ Page #20 -------------------------------------------------------------------------- ________________ कथानकम्। श्रीहरिश्चन्द्र ॥९॥ कलहंस! त्वया कीरो लब्धोऽयं क्वेति मन्त्रिणा । पृष्टे स प्राह चम्पाया वने देवैनमाप्नुवम् ? ॥ २८० ॥ चन्द्रशेखर भूपाय सदाप्रियविपश्चिते । सर्वशास्त्रनदीष्णत्वादिहाऽऽनैषं शुकोत्तमम् ॥ २८१ ॥ इति तद्वचनं भृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा यथास्थानमुपाविशत् ।। २८२ ॥ सखेदं प्राह भूपालो मन्त्रिन् ! पश्य पुरीजनः । संकोचितायुदेवेन याति वातेन दीपवत् ॥ २८३ ॥ न वयं दुर्नया नाऽपि श्लथधर्मः पुरीजनः । नृणामकालमृत्युश्च तदन्वेषय कारणम् |॥२८४ ॥ ततश्च कुट्टिनी काचित् पुत्रीमरणविह्वला । उरस्ताडं समागत्य साक्षेपं नृपमब्रवीत् ॥ २८५ ॥ सदैवाऽन्यायकारी त्वं सदा पीडयसि प्रजाः । सदापि पापनिष्ठोऽसि तेनाऽयं म्रियते जनः ।। २८६ ॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी । प्रकीड्य सुखशय्यायां सुप्ताऽकस्माद् मृताऽस्ति हा ! ॥ २८७ ।। अहो ! कर्कशता ह्यस्या अहो ! निर्लज्जता गिराम् । इति ध्यायन्नृपेणोक्त मन्त्री किं क्रियतामिति ॥२८८॥ मन्च्याह स्वामिन्नत्रार्थे प्रगल्भन्ते हि मान्त्रिकाः। राजा प्राहाऽऽगतोऽस्तीहोजयिन्या मान्त्रिको महान् । २८९ ॥ तत आकार्यतामेष इत्युक्तो मन्त्रिणा नृपः । आजूहवत् तदैवैनं सोऽप्यागत्य समाविशत ।। २९० ॥ राजोचे मान्त्रिकं किं नः पुर्या मारिविजृम्भितम् । सोऽप्याह नाटयन ध्यानं राक्षसीललितं ह्यदः ।। २९१ ॥ वृद्धवेश्याऽऽह साऽऽश्वासं पुत्रिका मम मान्त्रिक ! । मृताधुनैव स प्राह जीवयिष्यामि तां खलु ॥ २९२ ॥ सा वस्त्राञ्चलमादाय भ्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन चिरं त्वं जीव मान्त्रिक ! ॥ २९३ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या यतो जीवति ते स्वसा ।। २९४ ॥ ततः प्रत्ययतो राजा सादरं प्राह मान्त्रिकम् । आनेतुं प्रभवस्येनां राक्षसीमथ सोऽब्रवीत् ॥ २९५ ॥ किमेवं कथ्यते देव! मन्त्रेणाऽऽकृष्य वासुकिम् । पातालाद् वासवं ॥९ ॥ Page #21 -------------------------------------------------------------------------- ________________ स्वर्गाद् , अब्धेर्लङ्कामिहानये ॥ २९६ ॥ यद्यस्ति कौतुकं तत् त्वं सामग्रीमुपढौकय । माष-सर्षप-लवणान्युत्खगानष्ट पूरुषान् ॥ २९७ ॥ क्षणात् तथाकृते राज्ञा मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ किश्चिद् ध्यानमनाटयत् ॥ २९८ ॥ दिकपालाह्वानमर्चानां मन्त्रानुच्चैरथोच्चरन् । मान्त्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ॥ २९९ ॥ आयान्ती साऽनुगान् प्राह रे! ग्रासः क्वचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् बाढं क्षमाकुक्षिर्बुभुक्षया ॥ ३०० ॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा । सर्वेऽप्यविभयुस्तस्या बिडाल्या इव मूषिकाः ॥ ३०१॥ सविस्मयं नृपः प्राह मन्त्रोत्कर्षावधिस्त्वयम् । य एनां राक्षसीं मन्त्रैरानैषीत् पश्यतां हि नः ॥ ३०२ ॥ मान्त्रिकः प्राह कर्त्तव्यमस्माभिः कृतमेव हि । उचितं यत् कुरु त्वं तन्निग्रह त्वमसि प्रभुः ॥३०३॥ साक्षेपमादिशद् राजा मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत् सचिवस्ततः ।। ३०४ ॥ कलहंसोऽपि तत्रैव विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीद् मन्त्रिन् ! किं त्वस्ति पञ्जरे? ॥३०५॥ मन्त्रिणोचे महाराज! शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ।। ३०६ ।। सद्धर्म ! जय काशीन्द्र ! यस्याऽऽकृष्टा गुणैभृशम् । नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ॥ ३०७॥ राज्ञा किं पठितोऽसीति पृष्टोऽसावाख्यदात्मनः। तर्क-लक्षणसाहित्य-गणितस्मृतिकौशलम् ॥ ३०८ ॥ मान्त्रिकः प्राह भो राजन् ! राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं | विलम्बोऽस्या विनिग्रहे ? ॥ ३०९ ॥ ततश्चागात् सचण्डालो हरिश्चन्द्रसमन्वितः । हरिश्चन्द्र शुको दृष्ट्वाऽभूदत्फुल्लाक्षमानसः | ॥ ३१ ॥ प्राह च स्वस्ति ते नाथ ! भरतान्वयभूपते ! । हरिश्चन्द्र ! नमद् भूपमौलिरत्नाङ्कितक्रम!॥ ३११ ।। सरोषं प्राह | राजा किमसम्बद्धं प्रभाषसे ? क्क साकेतपतिपत्र कीर ! त्वं विह्वलोऽसि किम् ? ॥ ३१२ ॥ अथाह श्वपचं मन्त्री कुर्वना Page #22 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र * कथानकम्। च्छादनामिमाम् । तेनापि हरिरादिष्टस्तां कृत्वाऽनवगुण्ठनाम् ॥ ३१३ ॥ प्रत्यभ्यज्ञासीत् किं नाम सुतारा देव्यसौ हहा ! ? । किमेतेन हि दैवेन हन्तव्या वयमेव हा? ॥३१४ ॥ नास्मिन् कर्मणि देव्येषा करणं स्यात् कथश्चन । किन्तु मे कोऽपि दुष्कर्मप्रेरितः कुरुते ह्यदः ॥ ३१५ ॥ प्रविश्याऽग्नि ततो देव्या दोषमुत्सारयाम्यहम् । अथवाऽरिसभायां मे नात्मा योग्यः प्रकाशितुम् ।। ३१६ ॥ मुनिभ्यः पृथिवी दत्ता विक्रीता ससुता प्रिया । यत् करिष्यति देवं तद् हरिश्चन्द्रः सहिष्यते ॥ ३१७ ॥ दृष्ट्वा तां बाह्यनेपथ्यैरदूषितवपुर्लताम् । मन्त्रिणे पृथिवीनाथः स्ववितर्क न्यवेदयत् ॥ २१८॥ चन्द्रकान्तं मुखं यस्याः सुवर्ण वपुरेव हि । पद्मरागौ करावेव किमस्या मण्डनान्तरैः ? ॥ ३१९ ॥ उपलक्ष्य शुकोऽथैनां ननाम नतमस्तकः । उशीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति ! ॥ ३२० ॥राज्ञोचे किं मुहुः कीर ! प्रलपस्येवमुच्चकैः । क्व सानोशीनरसुता ? किं त्वं कीरोऽसि मद्यपः ॥ ३२१ ॥ सावष्टम्भं शुकः प्राह हरिश्चन्द्रनृपो ह्ययम् । अस्य पत्नीयमित्यर्थोऽन्यथा स्यात् प्रलयेऽपि न ।। ३२२ ॥ राज्ञा पृष्टो हरिते हरिश्चन्द्रो नृपोऽस्मि न । किन्त्वहं श्वपचस्याऽस्य द्रव्यक्रीतोऽस्मि कर्मकृत् ॥ ३२३ ।। राज्ञा पृष्टाऽङ्गना प्राह न सुताराऽस्मि राज्यहम् । किन्तु द्विजन्मनो वज्रहृदयाख्यस्य दासिका ।। ३२४ ॥ अरे ! विप्लावयस्यस्मानित्युक्ते भूभुजा शुकः । प्राह किं स्वं हरिश्चन्द्रः प्रकाशयति ते पुरः? | ॥ ३२५ ॥ यतः-सतो वाऽप्यसतो वापि स्वान् स्वयं कीर्तयन् गुणान् । ब्रह्मापि हास्यतां याति किं पुनः प्राकृतो जनः ? ॥ ३२६ ।। हरिं प्रत्याह राजा भो मा भैषीः सत्यमुच्यताम् । ननु यद्यप्यहं वैरी त्राताऽऽपदि तथाऽपि ते ॥ ३२७ ॥ हरिश्चन्द्रोऽब्रवीद् देव ! वचसा पक्षिणोऽस्य किम् । पुनरायस्यते स्वं यद् दासोऽस्याऽस्मीत्यवोचत? ॥ ३२८ ॥ ॥१०॥ Page #23 -------------------------------------------------------------------------- ________________ रूप-लावण्य-धैर्यादिगुणविस्मितचेतसा । राज्ञा पृष्टा पुनर्नारी तदेवोत्तरमाख्यत ॥ ३२९ ॥ मन्त्री प्राहाऽऽकृतावस्यां Bा राक्षसी कर्म किं भवेत् । ततो विचार्य कर्तव्यं स्वामिना यद्यथोचितम् ॥ ३३० ॥ पृष्टश्च श्वपचो राज्ञा प्राहाऽयं मम कर्मकृत् । इति निश्चित्य राजामु रासभानयनेऽब्रवीत् ॥ ३३१ ॥ तेनाऽप्युक्तो हरिश्चन्द्रस्तत्र रासभमानयत् । शक्तोऽपीष्टोऽपि किं कुर्यानरः परवशः खलु ? ॥३३२ ॥ विचार्य कार्यमाचर्यमिति मन्त्रि-शुकादिभिः । वार्यमाणोऽपि तां राजा खरमारोपयद् द्रुतम् ॥ ३३३ ॥ अहो! अक्षत्रमक्षत्रमित्याक्रन्दन् शुकोब्रवीत् । राजन् ! विज्ञापनामेकां शृणु ता नीत्यनुयायिनीम् ॥ ३३४ ॥ राज्ञोचे ब्रूहि रे ! स्वैरं कीरः प्रोवाच यद्यसौ । सुतारा राक्षसी स्यात् तद् विशाम्यग्निं पुरस्तव *॥३३५ ।। सदैन्यं प्राह सर्वोऽपि सभालोकः शुकस्य गीः । अस्तु प्रमाणमामेति राज्ञाऽप्यूचेऽनुरोधतः॥ ३३६ ॥ सोत्साह | प्राह कीरोऽपि मन्त्रिन् ! कारय तच्चिताम् । तथा तेन कृते कीरः स्नात्वाऽगच्छच्चितां प्रति ।। ३३७ ।। ततो दिग्नायकानाह योषा राक्षसान्वया । भवेद् नृपसुता तन्मां प्रदहत्वाशु हव्यवाद् ॥ ३३८ ॥ इत्युक्त्वा पश्यतामेव तेषां गतभयः शुकः । झम्पामदाच्च विध्यातोऽग्निश्चास्थादक्षतः शुकः ॥ ३३९ ॥ आश्चर्यमिदमाश्चर्यमित्यूचाना जनाः स्फुटम् । सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ॥ ३४०॥ मन्त्र्यूचे नाथ ! मन्येऽहं मान्त्रिकस्य विजृम्भितम् । तत् केनाऽप्यपदेशेन मान्त्रिकोऽयं विसृज्यताम् ॥ ३४१ ॥ तथेमां रासभादाशु समुत्तारय सम्प्रति । इत्युक्तो मन्त्रिणा भूपः सविस्मयमदोऽवदत् ॥ ३४२ ॥ किं कुर्मः किमु जानीमः कस्येदं कैतवं महत् । संदिग्धेऽर्थे किलैतस्मिन् विचारं कुर्महे च किम् ? ॥ ३४३॥ इति विकल्प-कोपाम्यां संश्लिष्टो नृपतिः स्वयम् । व्यसृजद् मान्त्रिकं, कीरं पञ्जरेऽथ न्यधापयत् Page #24 -------------------------------------------------------------------------- ________________ मीहरिश्चन्द्र कथानकम्। ॥११॥ ॥ ३४४ ॥ उदतारयदेनां च रासभाद् वनितां ततः । इति सर्व विसृज्याऽथ नृपः पल्यङ्कमासदत् ॥ ३४५ ॥ हरिश्चन्द्रोऽपि सूर्येऽस्ते चाण्डालस्य नियोगतः। ब्रजन् श्मशानं दध्यौ भोः ! कीदृग् दुर्दैवनाटकम् ? ॥ ३४६ ॥ देव्याः कर्मकरीत्वेन स्थिताया विप्रसद्मनि । राक्षसीवचनं कीरो देवदत्तं न्यवर्तयत् ॥ ३४७ ॥ दैवमेव ततो मन्ये बलवन्नापरः पुनः । यत् तेन विहिता ह्यापत् तेनैव हि निवर्त्यते ॥ ३४८ ॥ तमस्यसूचीभेद्येऽपि प्रविशनिर्भयो हरिः । ददर्श भीषणाकारं श्मशानं निशि सर्वतः ॥३४९।। क्वचित् फेरण्डफेत्कारं क्वचिद् राक्षसडम्बरम् । क्वचिद् विभीषिकोद्योतं क्वचित् कौशिकवासितम् ॥३५०॥ क्वचित् प्रेतपरित्रस्तशवसंस्कारकृञ्जनम् । क्वचिच्च डाकिनीमुच्यमानोत्किलकिलारवम् ॥३५१॥ क्वचित् कापालिकैह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपुरितनासिकम् ॥ ३५२ ॥ उपर्युपरि पर्यस्तमुण्डतुण्डस्खलद्गमम् । इतस्ततः श्मशानं स पश्यत शुश्राव दुर्ध्वनिम् ॥ ३५३ ॥ अहो ! आर्त्तध्वनिः सैषा मृतपत्याः स्त्रियाः खलु । रुदतीं वारयाम्येनामित्यगात् तत्पुरो नृप ! ॥३५४॥ उवाच च शुभे! किं ते कारणं परिदेवने ? । साऽऽह पश्याऽग्रतो गत्वा न्यग्रोधे कारणं मम ॥३५५।। हरिर्गत्वा ततोऽपश्यत् पुमांसं पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं वटशाखानियन्त्रितम् ।। ३५६ ॥ सोढाऽहं पुरुषः कान्ते ! त्वं पुनर्भाविनी कथम् ? । तत्प्रलापमिति श्रुत्वा दध्यौ राजाऽस्य सा प्रिया ॥३५७॥ अस्योपकारं कुर्वे यद् दत्ता भूर्मुनये मया । मुनिकन्याधनोपाये विक्रीतौ दयितासुतौ ।। ३५८ ॥ जीवितस्याऽस्य निर्विणः स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थ चेद् यामि तत् किं नातं फलं मया ? ॥ ३५९ ॥ इति ध्यात्वा हरिः प्रोचे तमुद्वद्धं नरं मृदु । अहो ! कस्त्वं कथं चेयमवस्था ते सुदुःसहा ? ॥३६०॥ जाननस्मीति यद् वक्तुमुद्वद्धन न शक्यते । परं त्वदाकृतिः पुण्या प्रयुङ्क्ते प्रष्टुमत्र माम् ॥ ३६१ ॥ Page #25 -------------------------------------------------------------------------- ________________ LA %+5 +% A । तमुवाच हरिश्चन्द्रः C तदाख्याहि न शक्तोऽस्मि द्रष्टुं ते दुस्सहां दशाम् । इति तत् प्रणयं दृष्ट्वा प्रोवाचोद्वद्धपूरुषः॥ ३६२ ॥ नाहमेतां दशां | दीनां कस्यापि हि निवेदये । तच्छ्रोता वेत्ति किं मत्तो यत् परित्राणमीहते १ ॥ ३६३ ।। परन्त्वन्यभवस्नेहानुबन्धादथवो तमात् । उपकारपरत्वात् ते पृच्छते कथयामि भोः ॥ ३६४ ॥ महासेनोऽस्मि काशीन्द्रचन्द्रशेखरनन्दनः । विद्याधर्याऽत्र पल्यङ्कादानीतः प्रियया युतः ।। ३६५ ॥ किमर्थमिति तेनोक्ते नरः प्राहात्र सम्प्रति । मन्मांसेन महाहोम सा करिष्यति खेचरी ॥ ३६६ ॥ कगता साधुना विद्याधरीति हरिणोदिते । स्नातुं गङ्गा नदी व्योम्ना जगामेत्यवदद् नरः ॥ ३६७ ॥ ततो दध्यौ नृपो हर्षाद् गत्वरैश्चेन्ममाङ्गकैः। विद्याधर्या भवेत् सिद्धिर्जीवितं चाऽस्य चारु तत् ॥ ३६८ ॥ तमुवाच हरिश्चन्द्रः प्रार्थये त्वां किमप्यहो ।। स पाहैवंविधावस्थं किं त्वं प्राथर्यसेत्र माम् ॥ ३६९ ॥ राज्ञोचे यदलं दातुं प्रार्थ्यसे त्वं तदेव हि । स प्राह तर्हि याचस्व यदभीष्टं नरोत्तम ! ॥ ३७० ॥ हरिः प्राह प्रयाहि त्वं स्वं राज्यं स्वीकुरु क्षणात् । यत् कार्य तत् करिष्यामि विद्याधर्याः स्ववर्मणा ।। ३७१ ॥ पुरुषः प्राह किं वे नात्मनीनमिदं खलु । अधमः कः | स्वयं स्वार्थे परप्राणान् व्ययिष्यते ॥ ३७२ ॥ किश्च स्वं मे यथाभीष्टं यथा मे मृत्युभीरुता । यथैषा दयिता मेऽस्ति तवाऽप्येवं तथाऽस्ति भोः! ॥ ३७३ ॥ तद् याहि त्वमतः स्थानादधुनष्यति खेचरी । तेनेत्युक्ते हरिश्चन्द्रः सदैन्यमिव तं जगौ ॥ ३७४ ॥ मा मा मे प्रार्थनां व्यर्थी कुरुष्व पुरुषोत्तम ! । स्वेऽनाप्यहं महाकष्टान्मर्तुकामोऽस्मि तत् यदि ॥ ३७५ ॥ &ात्वादृशस्योपकृत्याऽथ प्रिये स्यां सफलस्तदा। उपकारः परो धर्म इत्याख्यान्ति बहुश्रुताः ॥ ३७६ ॥ न जातु जनि प्येते द्वाविमौ पुरुषो भुवि । अर्थितो यः करोत्येव यश्च नार्थयते परम् ॥ ३७७ ॥ इत्येवं बहुशोऽभ्यर्थ्य स्वयमुन्मोच्य रातम ! ॥ ३७७ ॥ हमाम् ॥ ३६९ ॥ राज्ञो स्वयं स्वार्थे पराकारण्यामि विद्याधः % % %* Page #26 -------------------------------------------------------------------------- ________________ कथानकमा श्रीहरिश्चन्द्र बन्धनात् । याहीति प्रेषितस्तेन स जगाम प्रियायुतः॥ ३७८ ॥ नूपुरकाण-कल्पद्रपुष्पस्रक्सौरभादिभिः । ज्ञात्वा विद्या धरी आरादायान्तीं नृपतिः क्षणात् ॥ ३७९ ॥ बद्ध्वा न्यग्रोधशाखायां स आत्मानमधोमुखम् । गतमृत्युभयं तस्थौ रोमा॥१२॥ नकवचाचितः ॥ ३८०॥ ततो विद्याधरी व्योम्नोऽवतताराऽऽर्द्रचीवरा । अग्निकुण्डत्रये वहिमुज्वलं समचिस्करत् ।। ३८१॥ सजीकृत्य च पूजादि विद्याधर्याह पार्श्वगान् । चित्राङ्गद ! समीक्षस्व किं लक्षणधरो नरः ॥ ३८२ ॥ चित्राङ्गदोऽप्युपागत्य हरिश्चन्द्राङ्गलक्षणम् । वीक्ष्योचे देवि ! मोदस्व येनाऽयं चक्रिलक्षणः ॥ ३८३ ॥ हुत्वा कुण्डत्रये मांसमस्य प्रान्ताहुतीकृते । शीर्षे विश्ववशीकारविद्याऽऽविर्भविता स्वयम् ॥ ३८४ ।। इत्युचाना मुदोत्थायाऽऽनर्च सर्वाङ्गमयमुम् । ऊचे च सर किश्चित् त्वं देवं यत्राऽसि भक्तिमान् ॥ ३८५ ॥ भवेश्च साविको येन, विद्या सिध्यति मेऽधुना। यत् त्वन्मांस तैः सा स्यात् प्रीता च वरदा च मे ॥ ३८६ ॥ हरिश्चन्द्रस्ततोऽवादीद् ध्वस्तसंसारवैशसम् । स्मरामि निष्ठितक्लेशं देवं नाभिसमुद्भवम् ।। ३८७ ॥ इदानीं मा विलम्बस्व होमः स्याद् बहुविघ्नभूः स्वेनैवोत्कृत्य मांसं स्वं यच्छाम्येष गृहाण तत् ।। ३८८ ।। सा प्राह सिद्धिर्मन्त्रस्य जातैवं त्वं यदुत्तमः। मत्तोऽप्युत्साहवानीदृक् समवायो हि पुण्यतः ॥ ३८९ ॥ ततः प्रवृत्ता कुण्डेषु ज्वलज्ज्वालाऽऽकुलेषु सा । हरिश्चन्द्रार्पितं मांसं प्रक्षेप्तुं मन्त्रपूर्वकम् ॥ ३९० ॥ ऊचे च परितः खड्गहस्तान् विद्याधरोत्तमान् मादत्तात्र प्रवेशं भोः श्वापदस्य नरस्य वा कियत्यपि कृते होमेऽभूदाविर्देवतामुखम् । मध्यकुण्डात् ततो जातौ सोत्साहौ तावुभौ मुदा ॥ ३९२ ॥ अथ गोमायुरटितं कुण्डानि परितोऽभवत् । विषादारी ततो विद्याधर्म्युचेऽयं निवर्त्यताम् ॥ ३९३ ॥ 8| यद्यस्य घोरफेत्कारैर्निद्रां त्यक्ष्यति तापसः । होमध्वंसं तदागत्य स करिष्यति निश्चितम् ॥ ३९४ ॥ सर्वैः स नाश्यमानोऽपि ॥१२॥ Page #27 -------------------------------------------------------------------------- ________________ 5 AACHAROSCORECASSA प्रत्युताऽऽगात् समीपगः । जजागार ततश्चाऽऽरादाश्रमे तापसः क्षणात् ॥ ३९५ ॥ किश्चित् किश्चित् ततो विद्यामुखं नीचैममज च । खेचर्युवाचाऽपर्याप्तहोमा हा! हा! हतास्म्यहम् ॥ ३९६ ॥ सावष्टम्भं हरिः प्राह मा विषीद गृहाण मे । छित्त्वा शिरोऽपि पर्यन्ताहुतिहोमं समापय ॥३९७॥ ऊचे विद्याधरी होमः क्रमात् स्याननु नाऽक्रमात् । क्रमं च क्षमते नैष तापसः है| क्रोधमावहन् ॥३९८।। अरे ! किमिदमारब्धमस्मदाश्रमभूमिषु । इत्याक्रोशन विवेशोचैरुद्धतस्तत्र तापसः ॥ ३९९ ॥ ममज | तन्मुखं देव्या मध्ये कुण्डाग्नि सत्वरम् । भीता विद्याधरी साऽथ क्वाऽप्यगात् सपरिच्छदा ॥ ४०० ॥ ततः क्रोधात् परिभ्राम्य तापसस्तत्र जग्मिवावान् । यत्राऽऽस्ते कृत्तसर्वाङ्गः शाखाबद्धो हरिः श्वसन् ॥४०१॥ क्षणेन तापसः किश्चिदुप. लक्ष्याऽऽह विस्मयात् अरे ! भवान् हरिश्चन्द्रः सोऽप्याख्यदोमिति स्फुटम् ॥ ४०२ ॥ तमाह तापसः क्रुद्धः स्वर्ण कुलपतेरदाः ?! नृपः प्राह दिनैः कैश्चित् प्रभो ! पूर्णीभविष्यति ॥ ४०३ ॥ उपलक्षयसि त्वं मे प्रोक्तस्तेन नृपोऽवदत् । कौटिल्यस्त्वं महीदाने साक्षी कुलपतेरसि ॥ ४०४ ॥ अरे ! कुलपतेः स्वर्णमनापूर्येति किं त्वया । आरब्धमित्युचानेऽस्मिन् राड् हियाऽधोमुखोऽभवत् ।। ४०५॥ ततो मा भून्मुनेः स्वर्णहानिरस्मिन् मृते त्विति । औषध्या व्रणरोहिण्या स्वेनालिम्पत् स तद्वपुः ॥ ४०६ ॥ अभूच्च तत्क्षणादेवाऽरूढव्रणवपुर्नृपः । ययौ च तापसः स्थाने स्वे दध्यौ हरिरप्यथ ॥४०७॥ नाऽपूर्ण मेऽभवत् किश्चित् सर्वस्वं ददतो मुनेः । विद्याधर्या न यत् सिद्धिः संजाता तद् दुनोति माम् ॥४०८|| अरे ! क्व त्वं गतो. ऽसीति प्राऽऽहूतः श्वपचेन सः ? । उपसृत्याह कर्तव्यं मम स्वामिन् ! समादिश ॥४०९॥ स प्राहैष मृतः कोऽपि समायाति | ततो भवान् वस्त्रं गृह्णातु गत्वेति प्रेरितोज्गाद् नृपस्ततः ॥४१०॥ अशृणोच्छब्दमेकस्याः करुणा सुतव्ययात् । हा! पुत्र ! A5 %A1 % k Page #28 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र कथानकम् COMCHARITRA क्व गतोऽसीति मूर्च्छन्त्याश्च मुहुः स्त्रियाः॥४११॥ अहो देवेन निर्मुक्तकरुणेन किलाङ्गजम् । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥ ४१२ ॥ अहो! असारः संसारो मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत् तु ग्राहयत्येव यो यमात् ॥४१३॥ कथं चाऽहं ग्रहीष्यामि बालस्योर्चाद् किलाम्बरम् । इति मन्दपदः प्रोक्तःश्वपचेनाशु गच्छ रे ॥४१४॥ सभयं परिचक्राम हरिश्चन्द्रः सुतं स्मरन् । न शुध्येद् यदि देवी मे तदा वत्सो म्रियेत सः॥४१५॥ ततः शुश्राव करुणं | रुदती वनितामिति । निर्भाग्यशेखराया मे मृतो वत्सो हताऽस्मि हा! ॥ ४१६ ॥ वत्सो मृत इमां वाचं प्रतिघ्नन् मङ्गलोक्तिभिः । वामाक्षिस्पन्दनेनाऽथ बभूवाऽऽशङ्किमानसः॥४१७॥ सर्वस्वं मुनये दत्तं विक्रीतौ दयिता-सुतौ चण्डालकर्मकर्ताऽहं किं मे वा भाव्यतः परम् ? ॥४१८।। इति चिन्तातुरो यावद् मार्गे याति नृपस्ततः। चाण्डालपतिना प्रोक्तो व्याघुटथेति व्यजिज्ञपत् ॥ ४१९ ॥ आगतोऽस्ति मृतो बाल इति वस्त्राऽऽहतौ त्रपा । स प्राह का पाऽस्माकमाचारोऽयं गृहाण तत् ॥४२०॥निवृत्त्याऽथ हरिदध्यौ धिग् लोभं यदशाजनः । वेत्ति कृत्यमकृत्यं वा नैव दैवहतो हहा! ॥४२१॥ यदादिशति मे स्वामी तत् कर्तव्यं मया खलु । विचारो युज्यते नैव स्वाम्यादिष्टेऽनुजीविनाम् ॥ ४२२ ॥ स गच्छनिति शुश्राव स्त्रीविला तमुच्चकैः । हा! हा! पुत्र! त्वमेको मे तन्मे मृत्युस्त्वया सह ॥ ४२३ ॥ त्वं ममैवासि कुपितो रे ! देव ! यत् पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ॥४२४॥ परमस्य स्वपुत्रस्य भरतान्वयशालिनः। आलम्बेन जीवन्त्या भविता काऽद्य मे गतिः १ ॥ ४२५ ॥ हरिश्चन्द्रोऽपि विज्ञाय सुतारां त्वरितो ब्रजन् । मुञ्चन्नश्रूण्यथोऽवादीद् निन्दनात्मानमात्मना ॥ ४२६ ॥ निर्भाग्यशेखरे ! देवि ! वज्रघातः क एष नौ ? । वनिता वीक्ष्य भर्तारं तारं तारं रुरोद सा ॥ ४२७ ॥ हरिश्चन्द्रोऽप्यरोदीच | Page #29 -------------------------------------------------------------------------- ________________ धैर्य कस्य सुतव्यये । रोहिताश्वं हरिमोहादाश्लिष्यत् किल पूर्ववत् ॥ ४२८ ॥ सुतारां प्राह देवि ! त्वं किं रोदिषि तथा कथम् । वत्सो मां भाषते नैव भवत्या रोषितः किमु ? ॥ ४२९ ॥ किं त्वया मोदकं नास्मै दत्तः किं परिधापितः। नाऽद्य रत्नाङ्कितं हारं किं हस्ती नार्पितो मया ? ॥ ४३० ॥ क्षमस्व वत्सलो हि त्वं स्वेच्छया यत् तु रोचते । इति स्वं सान्त्वयन् पुत्र देव्याऽसौ परिदेवितः।। ४३१॥ किं न पश्यसि मृढ ! त्वं गतासुं तनयं निजम् । गतासुश्च कथं पश्येदाश्लिष्यनिगदेदथ ? ॥ ४३२ ॥ किमारब्धं त्वया सार्ध नार्या किं नैषि सत्वरम् ? । इत्युक्तः श्वपचेनाऽसौ भयाच्चैतन्यमासदत् ॥ ४३३ ॥ अज्ञासीच मृतं पुत्रं चेष्ट्याऽथाश्रुलोचनः । सुतारां पुत्रवृत्तान्तमप्राक्षीत् साऽप्यचीकथत् ॥ ४३४ ॥ अद्याऽयं प्रातरेवाऽगाः समित्पुष्पकृते वने । विप्रेण प्रेषितो मन्दभाग्यो दृष्टोऽहिना प्रिय ! ॥४३५।। विनाऽऽत्मीयान कोऽप्यस्य विषस्योत्तारणं व्यधात् । विना बन्धुं जगच्छून्यं जीवो धर्म विना यथा ।। ४३६ ॥ हरिश्चन्द्र स्ततो दथ्यौ धिग् मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ॥४३७॥ प्रवासोऽरिपुरीवासो नीचदास्यं सुतव्ययम् । हरिश्चन्द्रोऽखिलं सोढा देवी त्वेकसुता हता ॥४३८॥ किश्च मे वक्ष्यतो हस्तौ पुत्रवस्त्राहृतौ कथम् ? । स्वाम्यादेशमकतुं च नैवोजस्वि मनो मम॥४३९।। अथवा पुत्रमृत्यौ | को मे विचारो यदस्म्यहम् । श्ववपचाधीनदेहस्तत् स यद् ब्रूते करोमि तत् ॥४४०॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः। सबैकतानवृत्तीनां नाऽपत्याद्यनुरागिता ॥ ४४१॥ व्यापत्रस्य सुतस्याऽस्य न गृह्णाम्यम्बरं यदि । निर्वाहयामि नो | सन्धां लज्जते तरणिस्तदा ॥ ४४२ ।। इति सत्त्वानिलोद्धृताऽपत्यवन्धः स साचिकः । भूत्वा पराङ्मुखोऽशक्तो याचितुं स्फुटया गिरा ॥ ४३३ ॥ अर्पयाऽऽच्छादनमिति संज्ञया प्रतिपादयन् । हस्तं प्रसारयामास हरिश्चन्द्रः प्रियां प्रति Page #30 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र कथानकम् ॥१४॥ ॥४४४ ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती । उच्चिक्षप करे दातुं रोहिताश्वं मुहुर्मुहुः ॥ ४४५ ॥ अगृह्णति हरिश्चन्द्रे पुत्रं साऽऽह ब्रवीषि किम् ? । न जानामि तवैतां हि संज्ञां ब्रूहि ततः स्फुटम् ॥ ४४६ ॥ धैर्यसंदंशकाकृष्टवचनः सात्विकोऽवदत् । देवि ! तिष्ठतु वत्सोऽयं वत्साऽऽच्छादनमर्पय ॥ ४४७ ॥ यावदेवं हरिश्चन्द्रो वदत्यात्मप्रियां प्रति । तावत् तस्य शिरस्याशु पुष्पवृष्टिरभूद् दिवः ॥ ४४८ ॥ अहो ! सत्त्वमहो ! धैर्य हरिश्चन्द्रमहीपतेः। एवमुद्घोषणापूर्व दुन्दुभिध्वनिरत्यभूत् ॥ ४४९ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कतमहासिंहासनं स्वसदसि स्थितम् ॥ ४५० ॥ रोहिताश्वमपश्यच्च क्रोडे | क्रीडन्तनात्मनः । अश्रान्तकान्तिरत्नाङ्कहारस्फारश्रियं मुदा ॥ ४५१॥ वसुभूति महामात्यं कुन्तलाख्यं च सेवकम् । द्वावप्येतो स्वस्वरूपौ पुरोऽद्राक्षीत् कृताञ्जली ॥ ४५२ ॥ यवनिकान्तरे चैव द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च सख्या शुश्राव भूपतिः ॥ ४५३ ॥ पुरतश्च सुसङ्गीतरसनिर्मग्नचेतसाम् । नृपा-ऽमात्यप्रभृतीनामपश्यत् संसदं निजाम् ॥ ४५४॥ प्रतिमन्दिरमैक्षिष्ट क्रियमाणं च नागरैः । नृत्यत्पुरन्धिविश्राण्यमानदानमहोत्सवम् ।। ४५५ ।। प्रतीहारमुखप्राप्तान विजिज्ञपयिषून् जनान् । दूरतो नमतः प्रेक्ष्य किमित्येतदचिन्तयत् ॥ ४५६ ॥ किं नु स्वप्नो मया दृष्टः किं वा मे मनसो भ्रमः । किं वा कस्याऽपि देवस्य-चित्रमेतद् विजृम्भितम् ॥ ४५७ ।। ततश्च प्रकटीभूय चन्द्रचूड-मणिप्रभौ । पुरः स्थित्वा सुरौ राज्ञः सहर्षमिदमूचतुः ॥ ४५८ ॥ त्रिशङ्खनन्दन ! श्रीमदिक्ष्वाकुकुलमण्डन ! भरतान्वयभूपाल ! हरिश्चन्द्र ! चिरं जय ॥४५९॥ धन्यः सुग्राह्यनामा त्वं यस्य वास्तोष्पतिः स्वयम् । सत्त्वं स्तवीति मूर्धानं धुनानो द्युसदां पुरः ॥ ४६० ॥ यादृशः कथितो राजन्नचाल्यो धुसदा. मपि । शक्रेण, ताडगेवाऽसि सात्त्विकेषु शिरोमणिः ॥ ४६१ ॥ माहात्म्येन तवैवेदं पुना राज्यं तथैव हि । अढौकत निज ॥१४॥ Page #31 -------------------------------------------------------------------------- ________________ स्फीत्या निर्जिताऽमर-दानवम् ।। ४६२ ॥ वसुभृतिः स एवाऽयं मन्त्री मित्रं च ते नृप ! । शुकरूपः प्रविश्यानौ यो देव्याः शुद्धिमातनोत् || ४६३ || कुन्तलश्चैष ते सेवां करोति रचिताञ्जलिः । जम्बूकीभूय ते होमसङ्कटे - यस्तदारटत् ।। ४६४ ।। शूकरो दन्तमारभ्य यावदद्य नरेन्द्र ! यत् । अनुभूतं त्वया विद्धि तदस्मत्कूटनाटकम् ॥ ४६५ ॥ एतत् सर्वं भवत्सत्वपरीक्षारसिकैः खलु | अस्माभिर्विहितं तत् ते क्षन्तव्यं महतां गुरो ! ॥ ४४६ ॥ चित्रं परोपकाराय सर्त्यत्वेऽपि भवादृशाम् । अवतारः परोत्तप्त्यै स्वर्गेऽप्यस्मादृशां पुनः ॥ ४६७ ।। किंवा कोऽपि गुणोऽस्माकमपि ते सच्चदीपनात् । सुवर्णस्य कथं रेखा कपपट्टे विना भवेत् १ ।। ४६८ ।। तव सच्वेन सत्येन हरिश्चन्द्र ! महानृप । । जलदो वर्षति स्फीतशस्या भूर्मुदितो जनः ॥ ४६९ ।। स्वस्यैव सुकृतेनेदं राज्यमापि पुनस्त्वया । अस्मत्तः परितुष्टेभ्यः किञ्चिद् याचस्व साम्प्रतम् ॥ ४७० ॥ लञ्जितस्त्रिदशोपज्ञवर्णनाकर्णनाद् नृपः । उवाच न कदाऽप्यस्मि शिक्षितो याचितुं परम् ॥ ४७१ ॥ किञ्च सत्वं न मुक्तं स्वं सूर्यवंशो न लज्जितः । सत्यवाचः कृतश्चेन्द्रः किमतः परमर्थये १ || ४७२ ।। पुनरप्यूचतु देवौ नृप ! तन्वन् यशः सितम् । दिव्यशक्तिः श्रियां पात्रं सदाऽऽनन्दमयो भव || ४७३ ॥ प्रभावमिति तौ तत्र न्यस्य स्वास्पदमीयतुः । इन्द्रोऽपि परमां प्रीतिमवाप ससुरासुरः ॥ ४७४ ॥ राजाऽथ श्रीहरिश्चन्द्रस्तत्प्रभृति विशेषतः । दयालुर्जगदानन्दस्त्यक्तव्यसनकौतुकः || ४७५ ।। शक्रावतारतीर्थस्य सर्वज्ञस्य कृपानिधेः । श्रीवृषध्वजदेवस्य पर्युपास्तिपरायणः || ४७६ ।। दिव्यशक्तिप्रभावेण गगनक्रीडनादिकम् । महद्धिं दर्शयन् लोके पालयामास काश्यपीम् ॥ ४७७ ॥ (त्रिभिर्विशेषकम् ) 9600+ Page #32 -------------------------------------------------------------------------- ________________ श्रीहरिश्चन्द्र कथानकम् // 15 // अन्यत्रोद्धतोपसंहारः____ अन्येधुर्बहिरुघाने, गतः क्षोणिपतिः स्वयम् / तीर्थ शक्रावताराख्यं, जीर्ण शीर्ण व्यलोकयत् / / 1 / / वसुभूतिरुवाचाथ, ज्ञात्वा चेतो महीभुजः / इङ्गिताकारतत्त्वज्ञा, मन्त्रिणः सर्ववेदिनः // 2 // वृषभस्वामिनो बिम्बं, भासुरं शक्रनिमितम् / इदं शक्रावताराख्यं महातीर्थ महीतले // 3 // कालक्रमादिदं जीणं, बभूव क्षितिनायक! / उद्धारकारिणो यस्मात् , प्रभवन्ति भवादृशाः॥४॥ भवानप्यादिमजिन-सन्ताने समजायत / कुरुष्वेदं नवं तीर्थ, देहिनं रसवेदिवत् / / 5 // भरतेशादित्ययशः-प्रभृतीनां महीभुजाम् / स्वपूर्वजानामाख्याभिः ख्याताः स प्रतिमा व्यधात् / / 6 // अमारिपूर्वकं भूरि, दानसंप्रीणितार्थी च / प्रतिष्ठा कारयामास, चैत्योद्धारमकारयत् // 7 // सम्यक्त्वं निर्मलं बिभ्रद्, विदधानः प्रभावनाम् / कालक्रमेण शुद्धात्मा, देवभूयमगादयम् / / 8 // ASKASSES इति सत्त्वोपरि सत्यवादिहरिश्चन्द्र कथानकम् /