________________
स्वर्गाद् , अब्धेर्लङ्कामिहानये ॥ २९६ ॥ यद्यस्ति कौतुकं तत् त्वं सामग्रीमुपढौकय । माष-सर्षप-लवणान्युत्खगानष्ट पूरुषान् ॥ २९७ ॥ क्षणात् तथाकृते राज्ञा मान्त्रिको मण्डलं व्यधात् । तदन्तरुपविश्याथ किश्चिद् ध्यानमनाटयत् ॥ २९८ ॥ दिकपालाह्वानमर्चानां मन्त्रानुच्चैरथोच्चरन् । मान्त्रिको राक्षसी मन्त्रैराचकर्ष विहायसा ॥ २९९ ॥ आयान्ती साऽनुगान् प्राह रे! ग्रासः क्वचिदीक्ष्यताम् । येनाऽस्मि सुचिराद् बाढं क्षमाकुक्षिर्बुभुक्षया ॥ ३०० ॥ मण्डले मन्त्रशक्त्याथ सनिर्घातं पपात सा । सर्वेऽप्यविभयुस्तस्या बिडाल्या इव मूषिकाः ॥ ३०१॥ सविस्मयं नृपः प्राह मन्त्रोत्कर्षावधिस्त्वयम् । य एनां राक्षसीं मन्त्रैरानैषीत् पश्यतां हि नः ॥ ३०२ ॥ मान्त्रिकः प्राह कर्त्तव्यमस्माभिः कृतमेव हि । उचितं यत् कुरु त्वं तन्निग्रह त्वमसि प्रभुः ॥३०३॥ साक्षेपमादिशद् राजा मन्त्रिन् ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत् सचिवस्ततः ।। ३०४ ॥ कलहंसोऽपि तत्रैव विमुच्य शुकपञ्जरम् । जगामाऽथ नृपोऽवादीद् मन्त्रिन् ! किं त्वस्ति पञ्जरे? ॥३०५॥ मन्त्रिणोचे महाराज! शुकराजोऽस्ति सर्ववित् । उपश्लोकय राजानमित्युक्तश्च शुकोऽपठत् ।। ३०६ ।। सद्धर्म ! जय काशीन्द्र ! यस्याऽऽकृष्टा गुणैभृशम् । नयन्ति मार्गणा लक्ष्मीमेकेऽन्ये त्वानयन्ति ताम् ॥ ३०७॥ राज्ञा किं पठितोऽसीति पृष्टोऽसावाख्यदात्मनः। तर्क-लक्षणसाहित्य-गणितस्मृतिकौशलम् ॥ ३०८ ॥ मान्त्रिकः प्राह भो राजन् ! राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत् कोऽयं | विलम्बोऽस्या विनिग्रहे ? ॥ ३०९ ॥ ततश्चागात् सचण्डालो हरिश्चन्द्रसमन्वितः । हरिश्चन्द्र शुको दृष्ट्वाऽभूदत्फुल्लाक्षमानसः | ॥ ३१ ॥ प्राह च स्वस्ति ते नाथ ! भरतान्वयभूपते ! । हरिश्चन्द्र ! नमद् भूपमौलिरत्नाङ्कितक्रम!॥ ३११ ।। सरोषं प्राह | राजा किमसम्बद्धं प्रभाषसे ? क्क साकेतपतिपत्र कीर ! त्वं विह्वलोऽसि किम् ? ॥ ३१२ ॥ अथाह श्वपचं मन्त्री कुर्वना