SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्र * कथानकम्। च्छादनामिमाम् । तेनापि हरिरादिष्टस्तां कृत्वाऽनवगुण्ठनाम् ॥ ३१३ ॥ प्रत्यभ्यज्ञासीत् किं नाम सुतारा देव्यसौ हहा ! ? । किमेतेन हि दैवेन हन्तव्या वयमेव हा? ॥३१४ ॥ नास्मिन् कर्मणि देव्येषा करणं स्यात् कथश्चन । किन्तु मे कोऽपि दुष्कर्मप्रेरितः कुरुते ह्यदः ॥ ३१५ ॥ प्रविश्याऽग्नि ततो देव्या दोषमुत्सारयाम्यहम् । अथवाऽरिसभायां मे नात्मा योग्यः प्रकाशितुम् ।। ३१६ ॥ मुनिभ्यः पृथिवी दत्ता विक्रीता ससुता प्रिया । यत् करिष्यति देवं तद् हरिश्चन्द्रः सहिष्यते ॥ ३१७ ॥ दृष्ट्वा तां बाह्यनेपथ्यैरदूषितवपुर्लताम् । मन्त्रिणे पृथिवीनाथः स्ववितर्क न्यवेदयत् ॥ २१८॥ चन्द्रकान्तं मुखं यस्याः सुवर्ण वपुरेव हि । पद्मरागौ करावेव किमस्या मण्डनान्तरैः ? ॥ ३१९ ॥ उपलक्ष्य शुकोऽथैनां ननाम नतमस्तकः । उशीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति ! ॥ ३२० ॥राज्ञोचे किं मुहुः कीर ! प्रलपस्येवमुच्चकैः । क्व सानोशीनरसुता ? किं त्वं कीरोऽसि मद्यपः ॥ ३२१ ॥ सावष्टम्भं शुकः प्राह हरिश्चन्द्रनृपो ह्ययम् । अस्य पत्नीयमित्यर्थोऽन्यथा स्यात् प्रलयेऽपि न ।। ३२२ ॥ राज्ञा पृष्टो हरिते हरिश्चन्द्रो नृपोऽस्मि न । किन्त्वहं श्वपचस्याऽस्य द्रव्यक्रीतोऽस्मि कर्मकृत् ॥ ३२३ ।। राज्ञा पृष्टाऽङ्गना प्राह न सुताराऽस्मि राज्यहम् । किन्तु द्विजन्मनो वज्रहृदयाख्यस्य दासिका ।। ३२४ ॥ अरे ! विप्लावयस्यस्मानित्युक्ते भूभुजा शुकः । प्राह किं स्वं हरिश्चन्द्रः प्रकाशयति ते पुरः? | ॥ ३२५ ॥ यतः-सतो वाऽप्यसतो वापि स्वान् स्वयं कीर्तयन् गुणान् । ब्रह्मापि हास्यतां याति किं पुनः प्राकृतो जनः ? ॥ ३२६ ।। हरिं प्रत्याह राजा भो मा भैषीः सत्यमुच्यताम् । ननु यद्यप्यहं वैरी त्राताऽऽपदि तथाऽपि ते ॥ ३२७ ॥ हरिश्चन्द्रोऽब्रवीद् देव ! वचसा पक्षिणोऽस्य किम् । पुनरायस्यते स्वं यद् दासोऽस्याऽस्मीत्यवोचत? ॥ ३२८ ॥ ॥१०॥
SR No.600316
Book TitleHarischandra Kathanakam
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages32
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy