________________
रूप-लावण्य-धैर्यादिगुणविस्मितचेतसा । राज्ञा पृष्टा पुनर्नारी तदेवोत्तरमाख्यत ॥ ३२९ ॥ मन्त्री प्राहाऽऽकृतावस्यां Bा राक्षसी कर्म किं भवेत् । ततो विचार्य कर्तव्यं स्वामिना यद्यथोचितम् ॥ ३३० ॥ पृष्टश्च श्वपचो राज्ञा प्राहाऽयं
मम कर्मकृत् । इति निश्चित्य राजामु रासभानयनेऽब्रवीत् ॥ ३३१ ॥ तेनाऽप्युक्तो हरिश्चन्द्रस्तत्र रासभमानयत् । शक्तोऽपीष्टोऽपि किं कुर्यानरः परवशः खलु ? ॥३३२ ॥ विचार्य कार्यमाचर्यमिति मन्त्रि-शुकादिभिः । वार्यमाणोऽपि
तां राजा खरमारोपयद् द्रुतम् ॥ ३३३ ॥ अहो! अक्षत्रमक्षत्रमित्याक्रन्दन् शुकोब्रवीत् । राजन् ! विज्ञापनामेकां शृणु ता नीत्यनुयायिनीम् ॥ ३३४ ॥ राज्ञोचे ब्रूहि रे ! स्वैरं कीरः प्रोवाच यद्यसौ । सुतारा राक्षसी स्यात् तद् विशाम्यग्निं पुरस्तव *॥३३५ ।। सदैन्यं प्राह सर्वोऽपि सभालोकः शुकस्य गीः । अस्तु प्रमाणमामेति राज्ञाऽप्यूचेऽनुरोधतः॥ ३३६ ॥ सोत्साह | प्राह कीरोऽपि मन्त्रिन् ! कारय तच्चिताम् । तथा तेन कृते कीरः स्नात्वाऽगच्छच्चितां प्रति ।। ३३७ ।। ततो दिग्नायकानाह
योषा राक्षसान्वया । भवेद् नृपसुता तन्मां प्रदहत्वाशु हव्यवाद् ॥ ३३८ ॥ इत्युक्त्वा पश्यतामेव तेषां गतभयः शुकः । झम्पामदाच्च विध्यातोऽग्निश्चास्थादक्षतः शुकः ॥ ३३९ ॥ आश्चर्यमिदमाश्चर्यमित्यूचाना जनाः स्फुटम् । सतीयं राक्षसी न स्यादित्यदुः शुद्धितालिकाम् ॥ ३४०॥ मन्त्र्यूचे नाथ ! मन्येऽहं मान्त्रिकस्य विजृम्भितम् । तत् केनाऽप्यपदेशेन मान्त्रिकोऽयं विसृज्यताम् ॥ ३४१ ॥ तथेमां रासभादाशु समुत्तारय सम्प्रति । इत्युक्तो मन्त्रिणा भूपः सविस्मयमदोऽवदत् ॥ ३४२ ॥ किं कुर्मः किमु जानीमः कस्येदं कैतवं महत् । संदिग्धेऽर्थे किलैतस्मिन् विचारं कुर्महे च किम् ? ॥ ३४३॥ इति विकल्प-कोपाम्यां संश्लिष्टो नृपतिः स्वयम् । व्यसृजद् मान्त्रिकं, कीरं पञ्जरेऽथ न्यधापयत्