________________
कथानकम्।
श्रीहरिश्चन्द्र ॥९॥
कलहंस! त्वया कीरो लब्धोऽयं क्वेति मन्त्रिणा । पृष्टे स प्राह चम्पाया वने देवैनमाप्नुवम् ? ॥ २८० ॥ चन्द्रशेखर भूपाय सदाप्रियविपश्चिते । सर्वशास्त्रनदीष्णत्वादिहाऽऽनैषं शुकोत्तमम् ॥ २८१ ॥ इति तद्वचनं भृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा यथास्थानमुपाविशत् ।। २८२ ॥ सखेदं प्राह भूपालो मन्त्रिन् ! पश्य पुरीजनः । संकोचितायुदेवेन याति वातेन दीपवत् ॥ २८३ ॥ न वयं दुर्नया नाऽपि श्लथधर्मः पुरीजनः । नृणामकालमृत्युश्च तदन्वेषय कारणम् |॥२८४ ॥ ततश्च कुट्टिनी काचित् पुत्रीमरणविह्वला । उरस्ताडं समागत्य साक्षेपं नृपमब्रवीत् ॥ २८५ ॥ सदैवाऽन्यायकारी
त्वं सदा पीडयसि प्रजाः । सदापि पापनिष्ठोऽसि तेनाऽयं म्रियते जनः ।। २८६ ॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी । प्रकीड्य सुखशय्यायां सुप्ताऽकस्माद् मृताऽस्ति हा ! ॥ २८७ ।। अहो ! कर्कशता ह्यस्या अहो ! निर्लज्जता गिराम् । इति ध्यायन्नृपेणोक्त मन्त्री किं क्रियतामिति ॥२८८॥ मन्च्याह स्वामिन्नत्रार्थे प्रगल्भन्ते हि मान्त्रिकाः। राजा प्राहाऽऽगतोऽस्तीहोजयिन्या मान्त्रिको महान् । २८९ ॥ तत आकार्यतामेष इत्युक्तो मन्त्रिणा नृपः । आजूहवत् तदैवैनं सोऽप्यागत्य समाविशत ।। २९० ॥ राजोचे मान्त्रिकं किं नः पुर्या मारिविजृम्भितम् । सोऽप्याह नाटयन ध्यानं राक्षसीललितं ह्यदः ।। २९१ ॥ वृद्धवेश्याऽऽह साऽऽश्वासं पुत्रिका मम मान्त्रिक ! । मृताधुनैव स प्राह जीवयिष्यामि तां खलु ॥ २९२ ॥ सा वस्त्राञ्चलमादाय भ्रमयित्वा शिरस्यधात् । मदाशिषः प्रभावेन चिरं त्वं जीव मान्त्रिक ! ॥ २९३ ॥ ततो दासी समागत्य कुट्टिन्यै समचीकथत् । मातस्त्वं वर्धसे दिष्ट्या यतो जीवति ते स्वसा ।। २९४ ॥ ततः प्रत्ययतो राजा सादरं प्राह मान्त्रिकम् । आनेतुं प्रभवस्येनां राक्षसीमथ सोऽब्रवीत् ॥ २९५ ॥ किमेवं कथ्यते देव! मन्त्रेणाऽऽकृष्य वासुकिम् । पातालाद् वासवं
॥९
॥