SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीहरिश्चन्द्र कथानकम् COMCHARITRA क्व गतोऽसीति मूर्च्छन्त्याश्च मुहुः स्त्रियाः॥४११॥ अहो देवेन निर्मुक्तकरुणेन किलाङ्गजम् । व्यापादयता निर्भाग्याऽभीष्टाऽपत्या त्वसौ हता ॥ ४१२ ॥ अहो! असारः संसारो मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत् तु ग्राहयत्येव यो यमात् ॥४१३॥ कथं चाऽहं ग्रहीष्यामि बालस्योर्चाद् किलाम्बरम् । इति मन्दपदः प्रोक्तःश्वपचेनाशु गच्छ रे ॥४१४॥ सभयं परिचक्राम हरिश्चन्द्रः सुतं स्मरन् । न शुध्येद् यदि देवी मे तदा वत्सो म्रियेत सः॥४१५॥ ततः शुश्राव करुणं | रुदती वनितामिति । निर्भाग्यशेखराया मे मृतो वत्सो हताऽस्मि हा! ॥ ४१६ ॥ वत्सो मृत इमां वाचं प्रतिघ्नन् मङ्गलोक्तिभिः । वामाक्षिस्पन्दनेनाऽथ बभूवाऽऽशङ्किमानसः॥४१७॥ सर्वस्वं मुनये दत्तं विक्रीतौ दयिता-सुतौ चण्डालकर्मकर्ताऽहं किं मे वा भाव्यतः परम् ? ॥४१८।। इति चिन्तातुरो यावद् मार्गे याति नृपस्ततः। चाण्डालपतिना प्रोक्तो व्याघुटथेति व्यजिज्ञपत् ॥ ४१९ ॥ आगतोऽस्ति मृतो बाल इति वस्त्राऽऽहतौ त्रपा । स प्राह का पाऽस्माकमाचारोऽयं गृहाण तत् ॥४२०॥निवृत्त्याऽथ हरिदध्यौ धिग् लोभं यदशाजनः । वेत्ति कृत्यमकृत्यं वा नैव दैवहतो हहा! ॥४२१॥ यदादिशति मे स्वामी तत् कर्तव्यं मया खलु । विचारो युज्यते नैव स्वाम्यादिष्टेऽनुजीविनाम् ॥ ४२२ ॥ स गच्छनिति शुश्राव स्त्रीविला तमुच्चकैः । हा! हा! पुत्र! त्वमेको मे तन्मे मृत्युस्त्वया सह ॥ ४२३ ॥ त्वं ममैवासि कुपितो रे ! देव ! यत् पतिर्मम । बभूव कर्मकृन्नीचगेहेऽहमपि तादृशी ॥४२४॥ परमस्य स्वपुत्रस्य भरतान्वयशालिनः। आलम्बेन जीवन्त्या भविता काऽद्य मे गतिः १ ॥ ४२५ ॥ हरिश्चन्द्रोऽपि विज्ञाय सुतारां त्वरितो ब्रजन् । मुञ्चन्नश्रूण्यथोऽवादीद् निन्दनात्मानमात्मना ॥ ४२६ ॥ निर्भाग्यशेखरे ! देवि ! वज्रघातः क एष नौ ? । वनिता वीक्ष्य भर्तारं तारं तारं रुरोद सा ॥ ४२७ ॥ हरिश्चन्द्रोऽप्यरोदीच |
SR No.600316
Book TitleHarischandra Kathanakam
Original Sutra AuthorN/A
AuthorLabdhisuri Jain Granthmala
PublisherLabdhisuri Jain Granthmala
Publication Year1939
Total Pages32
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy