________________
श्रीहरिश्चन्द्र
तदा चम्पकमा हि संपदः पुंसां तदा सोऽप्यस्यां प्रसन्नायां को हि नेच्छति
र्नाऽयं कृत्येषु विदुरो नृपः । नचाऽहमपि विज्ञोऽस्मि, विज्ञस्त्वं योऽन्तरायकृत् ॥ १८०॥ मुनिः क्रुधाक्षिपद् भूमौ गृहीत्वाम्भः लकथानकम्। कमण्डलो। आह चास्ति तपश्चेन्मे तदा त्वं द्राक शुको भव ॥ १८१ ॥ ततश्च सचिवः कीरो भूत्वाऽगाद् नभसा क्वचित् । राजा तु सभयं नत्वाऽवोचदेष गतोऽस्म्यहम् ॥१८२॥ निवार्य रुदतो भूपः पूर्लोकानन्वयप्रियान् । क्षमयित्वा स्वापराधान् प्रतस्थे सप्रियासुतः॥१८३॥ अनुरागाल्लुठद्वाष्पमनुयान्तं पुरीजनम् । कष्टान्निवर्तयामास राजा स्नेहगिरा मृदुः॥१८४ ॥ प्रचलन सात्त्विका पुत्र-कलत्राभ्यां समन्वितः । कथं कथमपि प्रांतमध्वनः प्राप भूपतिः ॥ १८५ ।। दूरमार्गपरिश्रान्ता सुतारा नृपमब्रवीत् कियदद्यापि गन्तव्यं खिन्नान्यङ्गानि नाथ ! मे? ॥ १८६ ॥ उवाच नृपतिर्देवि । मा ताम्यः किं न पश्यसि । अभ्रंलिहगृहाकीर्णामाराद् वाराणसी पुरीम् ? ।। १८७ ।। अतीव यदि खिन्नाऽसि वहन्ती पुत्रमात्मना । अनुगङ्गातट रूढं तदा चम्पकमाश्रय ॥ १८८ ॥ देव्या तथाकृते राजा स्वेनैव समवाहयत् । यथासुखं तदङ्गानि ततो देवी व्यचिन्तयत् ॥ १८९ ॥ यदा हि संपदः पुंसां तदा सर्वोऽनुगच्छति । इदानीमार्यपुत्रं यन्न कोऽप्यागादनुव्रजन् ॥ १९० ॥ स्तुत्यः स्तौतीहते काम्योऽनुगम्योऽप्यनुगच्छति । नरं यस्यां प्रसन्नायां को हि नेच्छति तां श्रियम् ? ॥ १९१ ॥ स्वप्नदृश्या ततोऽभूद् नः सा संपद् यां विनाऽधुना पद्भ्यां यानं क्षितौ शय्या कदाहारो मनःक्लमः ॥१९२ ॥ इत्यूचाना पिधायाऽऽस्यं रुरोदोचैर्नृपप्रिया । रोहिताश्वस्ततोऽरोदीद् भूत्वा साश्रुनूपोऽवदत् ॥ १९३ ॥ मा रोदीव धीरा त्वं सात्विकत्वमुरीकुरु । मा मा शोक पिशाचोऽस्मान् गृह्णातु परितो भ्रमन् ॥ १९४ ॥ रोहिताश्वस्ततोऽवोचदहं तात! बुभुक्षितः। राजाऽऽदिक्षदरे ! क्षिप्रं देहि वत्साय मोदकम् ।। १९५ ।। न कोऽपि यावदायाति विलक्षो नृपतिस्ततः। किमेतदिति देव्योक्तः
॥ १९२ ॥ इत्यू
मा शोक पिशया । रोहिताश्वसाधुना पद्भ्यां या प्रसन्नायां को मन कोऽप्यागादान ततो देवी