________________
पूर्वाभ्यासोऽब्रवीदिति ? ॥ १९६ ॥ रोहिताश्वः पुनः प्राह हे ! मातः ! क्षुधितोऽस्म्यहम् । रुदती तारतारं सा सुतारा सुतमब्रवीत् ॥ १९७ ॥ चक्रवर्तित्वप्रतिभूलक्षणोपेतवर्मणः । भरतान्वयजातस्याऽवस्था केयं तवागता? ॥ १९८ ॥ अथ दध्यौ नृपः कीदृग् राज्यस्यैतादृशः फलम् । रुदतो यत् तनूजस्य प्रातराशेऽप्यशक्तता ॥ १९९ ॥ आस्तां विनोदयाम्येनं कौतुक-प्रेक्षणादिभिः। पश्येत पुत्र ! गङ्गायां मिथः क्रीडन्ति पक्षिणः ॥ २०० ॥ हंसोऽयं सारसोऽयं च कोकद्वन्द्वमिदं पुरः । कलापं पूरयित्वा च नृत्यत्येष शिखी कथम् ? ॥ २०१॥ तन्नामोच्चारपूर्व तु वीक्षमाणः सविस्मयम् । रोहिताश्वः पुनः प्राह ताताऽहं क्षुधितो भृशम् ।। २०२ ॥ सवैलक्ष्यं पुनर्भूपे बोधयत्येवमेव तम् । आगादकस्मात् क्वाप्येका वृद्धा पाथेयमस्तका । २०३ ।। पृच्छन्ती नगरीमार्ग भूपं साऽऽहेदमद्भुतम् । चक्रिणो लक्षणान्यङ्गेऽवस्था च कथमीदृशी ? ॥ २०४ ॥ कथा नः श्रूयमाणाऽपि कातराणां भयावहा । तन्मा पृच्छ पुरो गच्छ राज्ञेत्युक्ते चचाल सा ।। २०५॥ मोदकं देहि मे तात ! सुतरामितिभाषिणि । रोहिताश्वे ततो वृद्धा निवृत्त्य तमढौकयत् ॥२०६ ।। स्वयं निलेम्पटत्वेन सात्विकस्य सुतत्वतः । बुभुक्षितोऽपि बालोऽपि रोहिताश्वोऽग्रहीन तम् ।। २०७॥ नानुकम्पाप्रदानं ते गृह्णीमो वयमध्वगे।। प्रत्याख्यातेति राज्ञा सा ययौ क्वापि क्षणादपि ॥ २०८ ॥ देवि ! चेद् गतखेदाऽसि तदोत्तिष्ठ पुरीं प्रति । याम इत्थं नृपेणोक्ते सुताराऽऽह सगद्गदम् ॥ २०९ ॥ निजराज्यपरिभ्रंशलज्जासजमनाः कथम् । प्रवेक्ष्यत्यार्यपुत्रोऽत्र वैरीपुर्यां स्थितद्विषि? ॥ २१ ॥ सावष्टम्भं नृपः प्राह का लज्जासत्त्वशालिनाम् १ । पूर्णीकतुं निजां सन्धामापदो यदि तन्महः ॥ २११ ॥ सुताराऽऽह भवेद् दैवात् सा काऽप्यापदतर्किता । यत्र स्वस्य पराभूतिर्वैरिवर्गस्य तूत्सवः ॥ २१२ ॥ राजा प्रोवाच देवि ! त्वं न विचार्य