________________
श्रीहरिश्चन्द्र
कथानकम्।
॥७॥
प्रभाषसे । लक्ष्म्या बलेन वा हीनो यदि स्यां तत् पराभवः ॥२१३॥ इदं पुराकृतं कर्म प्रभवत् केन वार्यते । तत्प्रभावाद् दशाऽस्माकं यद्येषा तद् द्विषां किमु ? ॥२१४ ।। ततः प्रति पुरीं राजा प्रतस्थे प्रियया सह । तामाह स्यात् कुतः स्वर्ण यदासन्नोऽवधिर्मुनेः १ ॥ २१५ ॥ मां विक्रीयाऽऽर्यपुत्राऽस्मै तद् यच्छेति तयोदिते । राज्ञोक्तं विक्रयश्चेत् तत् सर्वेषां नहि कस्यचित् ॥ २१६ ॥ रोहिताश्वो ब्रवीत् सास्रं मां विक्रेष्टाऽस्तु मा पितः।। मातरिय तातं मां विक्रीणानं पुरे धनैः | ॥ २१७ ॥ सुतारा रोदिति क्षमापो बाष्पं रुद्ध्वाऽऽह वत्स ! कः विक्रेष्यते त्वां, सोऽप्याह तात ! विक्रेष्यते भवान् ।।२१८॥ | त्वदन्तिकेऽम्ब ! स्थास्यामि यास्याम्यन्यगृहे न तु । वरं मे मोदकं मा दा इत्युचानो रुरोद सः ॥ २१९ ॥ राज्ञोचे देवि !
नैवाहं पुत्रस्य करुणं वचः । श्रोतुं शक्नोमि तदिमं कथश्चिदपि वारय ।। २२० ॥ रुदत्याह सुतारा त्वं चक्रवर्ती भविष्यसि । |मा रोदीस्तिष्ठ वत्स ! त्वां विक्रेष्यति न कश्चन ।। २२१ ॥ रोहिताश्वस्य वाचाऽथ मनो मर्माविधा रुदन् । पुरीभृतकवीथ्यां स तस्थौ श्रेण्यां नृपस्ततः ।। २२२ ॥ किश्चिद् विमृश्य च क्षिप्रं तृणान्यानीय भूपतिः । न्यसन मूनि सुतारोक्तः प्राहेषा भृतकस्थितिः ।। २२३ ।। रोहिताश्वं धुनानं स्वं शिरः प्राह ततो नृपः। विधेहि मद्वचो वत्स तुभ्यं दास्यामि हस्तिनम् ॥२२४॥ दध्यौ सुतारा धिम् दैवं भवे भवशतानि यः । दत्ते यन्नः क्व सा लक्ष्मीः क्वैषा विक्रयवाच्यता ? ।। २२५ ॥ राजाऽप्यचिन्तयद् दत्ता न तथाऽकीतये मही । यथा ह्यकीर्तये पत्नी-पुत्रयोरिह विक्रयः ॥ २२६ ॥ विसृजामि सुतरां तत् सपुत्रां पितृवेश्मनि । यदभाव्यं तदहं सोढा ध्यात्वेत्युचे च तां नृपः ।। २२७ ।। देवि ! याहि पितृकुलं पुत्रमादाय सम्प्रति । यथा तथाऽप्यहं स्वर्ण दास्यामि मुनये खलु ।। २२८ ॥ साक्षेपं प्राह देवी तु किन्नु स्यात् प्रलयेऽप्यदः । विमुच्य त्वामहं यान्ती
॥७
॥