________________
मुखो राजन् ! वाञ्छसि त्वं किमात्मनः ? कुलस्य यशसो लोकस्याकस्मिकमिह क्षयम् ? ॥ १३० ॥ प्रणम्योचे नृपो भीतेका स्त्वत्तः किं स्यात् क्षयोऽपि नः ? । उपपूर्वाचलं नैव ग्रहाणामस्तसम्भवः ॥ १३१ ॥ निहन्ति पाणिना भूपं मुनिस्तं नतवान्
नृपः । कोपे क्षान्तौ च तावेव तदाऽभूतां निदर्शने ॥ १३२ ॥ सरोषमङ्गारमुखो भूपं प्राह नृपाधम !| विप्लावयसि किं नस्त्वं मृषाभाषामहोदधे ! ।। १३३ ।। आहाङ्गारमुखं मन्त्री विरोधस्ते मिथः कथम् । क्वेक् तपो रुषः क्वैमास्तन्मा ब्रह्म कलङ्कय ? ॥ १३४ ॥ प्राहाऽङ्गारमुखः कोपादस्थापितमहत्तर !। कस्त्वमपि मम ब्रह्मचिन्तायां सचिवाधम ! १॥ १३५ ॥ अरे राजंस्त्वमेनं किमन्तरालापिनं बटुम् । न निवारयसे किं मे न प्रयच्छसि काञ्चनम् ? ॥ १३६ ।। राज्ञोचे त्वं मुनिः स्वैरं ब्रूहि सर्व सहोऽस्मि यत् । सूर्यवंश्या हि नैवेा भजन्ते यतिषु क्वचित् ॥ १३७।। ऊवेऽङ्गारो यति हं किन्त्वेष ब्रह्मराक्षसः। ततो यद्यस्ति ते शक्तिस्तदा प्रहर सत्वरम् ।। १३८ । नृपो दध्यौ स्वप्रतिज्ञाघातिना कलहेन किम् ?! तापसेन सहाऽनेन क्रियते कृत्यमेव हि ॥ १३९ ॥ कर्णे च कथिते भूपेनाऽऽनीयाभरणान्यपि । कुन्तलेनाऽर्पितान्येष राज्ञोऽमूनीत्यपाकरोत् ॥ १४० ॥ कुन्तलो वसुभूतिश्चाहतुः कुलपते ! नृपः । यावद् ददाति ते स्वर्ण तावदावां गृहाण भोः ॥ १४१ ॥ मुनिराह त्वया जूर्णमाारण करोमि किम् । अल्पेन कुन्तलेनापि का स्वर्ण स्वमुपेक्षते ? ॥ १४२ ।। आदिक्षत् कुन्तलं राजा देवी
भूषणमानय । स ययाचे ततो देवी देव्याहैष्याम्यहं स्वयम् ॥ १४३ ॥ तेन दर्शितमार्गाऽसौ रोहिताश्वेन संयुता । आययौ | सदसि क्षिप्रं सुतारा सावगुण्ठना ॥ १४४ ॥ प्रणम्यैषा मुनि प्रोचे गृहाणाभरणं मम | मुनिराह पितुर्भर्तुर्वैतान्येषाऽब्रवीदिति ॥ १४५ ॥ आर्यपुत्रेण मे योग्य नेपथ्यमिदमर्पितम् । मुनिराह ततः केयं दक्षता ते प्रतिव्रते !? ॥ १४६ ।। ऊजेऽङ्गारमुखः