________________
श्रीहरिश्चन्द्र
कथानकम्।
किं न जानासि त्वमियं किल । महाकूटनिवासस्य हरिश्चन्द्रस्य गेहिनी॥१४७ ।। त्वदीयमेषाऽर्पयते वस्तु येत्युदितेऽमुना। आबद्धभृकुटीमङ्गः कुन्तलोऽथ रुषाऽवदत् ॥१४८।। अरे! तापस ! नो वेत्सि देवीमेतां महासतीम् । तदेष त्वं न भवसीत्युक्वा सोऽप्यवदद् नृपम् ॥ १४९ ।। विमृशाऽद्यापि मा मुह्यः किं यतेः स्यात् परिग्रहः । वाचश्चेमाः स्युरेते हि मुनिव्याजेन राक्षसाः?॥१५०॥ ततः कुलपतिः क्रोधादचे कर्मकराधम! आसादितपरज्ञानानधिक्षिपसि तापसान् ॥ १५१॥ यदि मेऽस्ति तपासत्यं तदा त्वमधुना द्रुतम् । श्मशानवासी गोमायुभवेत्युक्त्वा शशाप तम् ।।१५२॥ कुन्तलो जम्बूको भूत्वा शन्दं कुर्वन् ययौ क्वचित् । प्रसीद मा कुपः स्वामिन् ! मुनिमित्यानमद्नृपः ॥ १५३ ।। पादेनाहत्या परतः क्षिपति क्षमापति मुनौ । रोहिताश्वो रुदन्नाह मा स्म हन् पितरं मम ॥ १५४ ॥ किन्तु मां हि गृहाण त्वमिति श्रुत्वा शिशोर्वचः । मुनिः साश्रुदृशीभूय प्रोचेऽङ्गारमुखं मृदु ॥ १५५ ॥ बाष्परुद्धगलो नाऽस्मि शक्तोहं दातुमुत्तरम् । ऊचेऽङ्गारमुखो मैवं मुश्च स्वमधुनैव हि ॥ १५६ ।। करीभूय मुनिः प्राह सुतारां शिक्षितस्त्त्वया । बालोऽयं साऽऽह कृत्येषु नाऽयं शिक्षामपेक्षते ॥ १५७ ॥ यतःवृद्धोपास्ति विनाऽपि स्याद् दक्षः स्फुर्तिमयः पुमान् । मणिः किं गारुडेऽधीती यदसौ हरते विषम् ॥ १५८ ॥ राजाऽथ सास्त्रं दध्यौ च यत् सजीवमजीवकम् । चेद् दत्तं प्राग भुवा साधं ततः स्वर्ण ददे कुतः १ ॥ १५९ ॥ विलम्ब्य काञ्चनं कृत्वा कथञ्चिद् दातुमुत्सहे । इत्याह दैन्यात् स मुनिं मासमेकं सहस्व ते ॥ १६०॥ मुनिरूचे कथं पश्चाद् भिक्षयित्वा प्रदास्यसि ? । राजाहैक्ष्वाकवो भिक्षां दातुं दक्षा न याचितुम् ॥ १६१ ॥ कुतस्तहीति तेनोक्ते राजोचे मुनिपुङ्गव ! विक्रीय स्वमपीत्येतद् मुनिः श्रुत्वा विसिष्मिये ॥ १६२ ॥ वाचा तु कठिनः प्राह पृथ्वीं मुश्च ममाऽधुना । राज्ञोचे कुत्र याम्याह स
स्वमधुनैव हि ।
व यत् सजीवमजीवकम् । चापमान् । मणिः किं गारुडेऽधीतरत्येषु नाऽयं शिक्षामपेक्षते