________________
श्रीहरिश्चन्द्रा अथाख्यद् नृपतिः कोशात् , बहिरन्तः स वा क्षितेः ? ॥ ११३ ॥ इत्युक्त मुनिना राजा प्राह मध्ये क्षितेर्मुनिः । ब्रूते स्वामी कथानकम्।
क्षितेः कोऽत्र राजाऽऽख्यत् त्वं न चाऽपरः ॥ ११४ ॥ मुनिरूचे ततः कोऽयं प्रकर्षः कौशलस्य ते । यन्मदीयेन हेम्ना मेऽनृ॥४॥
णीभवितुमिच्छसि ? ॥ ११५ ॥ तदास्तां काञ्चनं यामो दृष्टं सत्यं तवेयता । इत्युदित्वा मुनौ याति राजा तस्य पुरोऽवदत् ॥११६॥ विलम्बध्वं क्षणं यावदानयाम्यन्यदन्यतः। सकष्टमिव तस्थौ च स मुनिर्भूभुजाऽर्थितः ।।११७॥ ततो राजा मन्त्रिकर्णे किमप्याचष्ट मन्व्यथ । केनचित् पुरुषेणाऽऽश्वज्जूहवद् वणिजोऽखिलान् ॥११८॥ मुनिना दिव्यशक्त्या ते हरिश्चन्द्र द्विषः कृताः । संभूय मन्त्रयामासुः स्वामी नोऽतः परं मुनिः॥११९॥ हरिश्चन्द्रस्य दत्तेन किं द्रव्येण वृथाऽधुना ? । यो हि स्वामी पुरस्याऽस्य देयोऽस्माभिः करोऽस्य तत् ॥१२०॥इति मन्त्रयतो मन्त्री तानूवे रहसि स्थितः। राजा वोऽर्थयते स्वर्णमधमों मुनेःस यत् ॥१२१॥ पश्यतस्तान् मिथो वक्तुं स्वर्णदाने कृतोत्तरान् । हरिश्चन्द्रस्ततोऽभ्येत्य स्वयमर्थयते स्म तान् ॥१२२।। हे पौराः! वोऽञ्जलिर्बद्धो दत्त स्वर्ण कियन्मम । कुतश्चिदपि याचित्वा दास्ये वः काञ्चनं पुनः ॥१२३।। अल्पद्रव्या वयं दातुं स्वर्णलक्षं न शक्नुमः । इत्यूचिवांसो वणिजो राज्ञादिष्टा ययुगृहम् ॥ १२४ ॥ विलक्षोऽथ नृपो दध्यौ किं करोमि कुतः पुनः। समानयामि तत् स्वर्ण हा! धिक् कीदृगुपस्थितम् ॥ १२५ ॥ ततः कुलपतिः कोपकम्पमानाधरोऽवदत् । विलम्बः कोऽयमद्याऽपि राजन् ! विसृज मां ततः ॥ १२६ ।। वसुभूतिर्मुनि प्राह विश्वदृश्वा त्वमस्यथ । हरिश्चन्द्रसमः क्वापि दृष्टः किं कोऽपि JAV साविकः ॥ १२७ ।। सोपहासमुवाचाऽथाङ्गारवक्त्रो न मन्त्र्यपि । दृष्टोऽभूत् त्वादृशो नापि हरिश्चन्द्रसमो नृपः॥१२८ ॥ नृपं प्रति मुनिः प्रोचे मायाविन् ! किं वृथोदितैः । हंसि मध्याह्नसन्ध्यां नः सच सत्यं च ते ह्यदः ॥१२९॥ ऊचेङ्गार-IPI