________________
कथानकम्।
श्रीहरिश्चन्द्र ॥१॥
(युग्मम् ) एकनक्षत्रमालेन्दु स्त्रीणां हारमुखेन्दुभिः । प्रतिबिम्बच्छलाद् व्योम यया सौधेष्वधःकृतम् ॥ ११॥ बभूव नृपतिस्तस्यां हरिश्चन्द्रो महाभुजः। धर्मेणोद्वाहिता कीर्तिर्येनतें करपीडनम् ॥ १२॥ तथा नीतिगवी तेन पोषिता सुकृतात्मना । विश्वप्रीत्यै यथाऽद्यापि यशो दुग्धं तदुद्भवम् ॥ १३ ॥ अन्यदा रात्रिपर्यन्ते पल्यङ्कस्थः स बन्दिना । पठ्यमानमिमं श्लोकं सत्वोचेजनमाणोत् ॥ १४ ॥ विपद्यपि गता सञ्चाद् ध्रुवं स्यात् संपदां पदम् । गतोऽप्यस्तं रविर्मार्गादच्युतोऽभ्युदयी पुनः ॥१५॥ इमं श्रुत्वा पठन्नेव समुत्तस्थौ महीपतिः । पुनः पुनस्तदीया) मुदा हृदि विभावयन् ॥ १६ ॥ कृत्वा प्राभातिकं राजा यावदास्थानमाययौ । तावत् कोऽपि नरोऽभ्येत्य सम्भ्रान्त इदमूचिवान् ।। १७ ॥ महाराज ! हरिश्चन्द्र ! त्वयि शासति मेदिनीम् । न श्रुतावपि लोकानां भयमित्यक्षरद्वयम् ॥ १८॥ किन्त्वेकः शूकरः शक्रावतारवनमध्यगान् । कुतोऽप्यागत्य भीष्माङ्गो भञ्जन्नास्ते लताद्रुमान् ।। १९ ।। तापसाश्चाभवंस्तत्र सर्वे भयविसंस्थुलाः । ततो दध्यौ नृपोऽमीषां किमभूद् हा ! तपस्विनाम् ? ॥ २०॥ यथा लोकः करं दत्ते खधनस्याऽवनीपतेः । मुनयोऽपि तथा धर्मषष्ठभागमिति श्रुतिः ॥ २१ ॥ ततो | रक्ष्या मयैवेते ध्यात्वेत्युत्थाय संभ्रमात् । अब्रवीच्च हहा ! कोऽयं मयि सत्यप्युपप्लवः ॥ २२ ॥ श्रीमन्नामेयदेवस्यारामशत्रु मुनिद्रुहम् । तमद्य शूकरं हन्मि प्रतिज्ञां चाऽकरोदिति ॥ २३ ॥ अथो यथागतं क्वापि वराहवेदके गते । प्रतिवमिव प्रोचं राजाऽऽरोहन तुरङ्गमम् ॥ २४ ॥ सैन्यं संनह्यदेवाऽसौ विमुच्य स्वयमेव तम् । निग्रहीतुमनाः क्रोडं त्वरीतं निर्ययौ पुरात ॥ २५ ॥ मनोवेगेन यात्यश्वे भूपतिः प्राप तत्क्षणात् । वनं शक्रावताराख्यं मुदेवाभिमुखागतम् ॥ २५ ॥ अपश्यत् स्मेराब्जमुखीं कलहंसकमण्डिताम् । मृदुवीचीभुजां तत्र शरयूमुदधिप्रियाम् ॥ २६ ॥ राजा पप्रच्छ पार्श्वस्थौ स कपिञ्जल कुन्तलौ।
॥१