________________
स्फीत्या निर्जिताऽमर-दानवम् ।। ४६२ ॥ वसुभृतिः स एवाऽयं मन्त्री मित्रं च ते नृप ! । शुकरूपः प्रविश्यानौ यो देव्याः शुद्धिमातनोत् || ४६३ || कुन्तलश्चैष ते सेवां करोति रचिताञ्जलिः । जम्बूकीभूय ते होमसङ्कटे - यस्तदारटत् ।। ४६४ ।। शूकरो दन्तमारभ्य यावदद्य नरेन्द्र ! यत् । अनुभूतं त्वया विद्धि तदस्मत्कूटनाटकम् ॥ ४६५ ॥ एतत् सर्वं भवत्सत्वपरीक्षारसिकैः खलु | अस्माभिर्विहितं तत् ते क्षन्तव्यं महतां गुरो ! ॥ ४४६ ॥ चित्रं परोपकाराय सर्त्यत्वेऽपि भवादृशाम् । अवतारः परोत्तप्त्यै स्वर्गेऽप्यस्मादृशां पुनः ॥ ४६७ ।। किंवा कोऽपि गुणोऽस्माकमपि ते सच्चदीपनात् । सुवर्णस्य कथं रेखा कपपट्टे विना भवेत् १ ।। ४६८ ।। तव सच्वेन सत्येन हरिश्चन्द्र ! महानृप । । जलदो वर्षति स्फीतशस्या भूर्मुदितो जनः ॥ ४६९ ।। स्वस्यैव सुकृतेनेदं राज्यमापि पुनस्त्वया । अस्मत्तः परितुष्टेभ्यः किञ्चिद् याचस्व साम्प्रतम् ॥ ४७० ॥ लञ्जितस्त्रिदशोपज्ञवर्णनाकर्णनाद् नृपः । उवाच न कदाऽप्यस्मि शिक्षितो याचितुं परम् ॥ ४७१ ॥ किञ्च सत्वं न मुक्तं स्वं सूर्यवंशो न लज्जितः । सत्यवाचः कृतश्चेन्द्रः किमतः परमर्थये १ || ४७२ ।। पुनरप्यूचतु देवौ नृप ! तन्वन् यशः सितम् । दिव्यशक्तिः श्रियां पात्रं सदाऽऽनन्दमयो भव || ४७३ ॥ प्रभावमिति तौ तत्र न्यस्य स्वास्पदमीयतुः । इन्द्रोऽपि परमां प्रीतिमवाप ससुरासुरः ॥ ४७४ ॥ राजाऽथ श्रीहरिश्चन्द्रस्तत्प्रभृति विशेषतः । दयालुर्जगदानन्दस्त्यक्तव्यसनकौतुकः || ४७५ ।। शक्रावतारतीर्थस्य सर्वज्ञस्य कृपानिधेः । श्रीवृषध्वजदेवस्य पर्युपास्तिपरायणः || ४७६ ।। दिव्यशक्तिप्रभावेण गगनक्रीडनादिकम् । महद्धिं दर्शयन् लोके पालयामास काश्यपीम् ॥ ४७७ ॥ (त्रिभिर्विशेषकम् )
9600+