________________
श्रीहरिश्चन्द्रा मुनिरप्याशिषं ददौ ॥ ४४ ॥ क्षतात् त्राणेन लोकानां स्वस्य क्षत्र इति प्रथाम् । कुर्वाणः सार्थिकां पुण्यैः प्रवर्धख सदा नृप! कथानकम्।
॥ ४५ ॥ राजा पप्रच्छ भगवन् ! ज्ञान-ध्यान-तपांसि वः । निर्वहन्त्यहतं कच्चित् कुशलं मृगभूरुहाम् ॥ ४६ ॥ मुनिरूचे | ॥२ ॥
महाराज! भरतान्वयभूषण ! । त्वयि प्रशासति क्षोणी कुतोऽस्माकमुपद्रवः ॥ ४७ ॥ मही राजन्वती तेजः प्रबलं विमलं यशः । वर्णाश्रम ! महीरक्षा दक्षा वृत्तिस्तवाऽखिला ॥ ४८ ॥ अस्मिन्नवसरे क्वाऽपि जातः कोलाहलो महान् । किमेतदिति सम्भ्रान्तौ मुनि-भूपौ-बभूवतुः ॥४९॥ अब्रह्मण्यमब्रह्मण्यमिति च व्याकुलं वचः । श्रुत्वा कुलपतिः शिष्यं तं ज्ञातुं प्राहिणोद् द्रुतम् ॥ ५० ॥ पुनरार्तस्वरो जज्ञे स्त्रीणां शोकस्पृशामिति । मातश्चेद् मे मृगी मां करिष्येऽनशनं तदा ॥५१॥ मातापि प्राह चेद् वत्सेऽनशनं त्वं करिष्यसि । तदाहमपि कर्तास्मि विना त्वां जीवितेन किम् ।। ५२ ॥ श्रुत्वा कुलपतिश्चैतद् हृदयं स्फोटयद् वचः । किं नः प्राणप्रिया पुत्री वञ्चनाऽनशनीयति ? ॥ ५३ ॥ इयं च निकृतिर्नूनमस्मत्सधर्मचारिणी । वत्सामनु- 12 सरन्त्येतद् ब्रूते किमसमञ्जसम् ? ॥५४॥ ततोऽङ्गारमुखादाशु स तापस्यावजूहवत् । आजग्मतुरथो तारं ते रुदत्यावुमे अपि ॥ ५५ ॥ उवाच वञ्चनां मायी मुनिः किं पुत्रि ! रोदिषि । साह जानाति तातो यदस्ति क्रीडामृगी मम ॥५६॥ सोऽप्याह या त्वया बाल्यात् पोषिता खकरार्पितैः । नीवारकवलैस्तस्यास्ततः किमभवत् सुते ! ? ॥ ५७ ॥ इत्युक्ते वञ्चना | तारस्वरं रोदिति केवलम् । ततः प्रविश्य सम्भ्रान्तः शिष्यः कुलपति जगौ ।। ५८॥ भूराजन्वती सेयमब्रह्मण्यमहो! महत् । मृगयाव्यसनात् पापः कोऽप्यहन् गर्भिणी मृगीम् ।। ५९ ॥ सास्त्रं कुलपतिः प्रोचे हहा! किं भाव्यतः परम् । यतस्तां निघ्नता तेनाऽऽनीतोऽस्माकं कुलक्षयः ॥ ६०॥ विना मृगी कथं जीवेद् वत्सा तज्जीविता ततः । न प्राणिति विना पुत्रीम
॥२॥