Book Title: Visheshavashyak Bhashya Part 04 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 7
________________ विशेषा० ||६०५॥ Jain Educations Internationa I स्वल्पपरिच्छदो भूत्वा सैन्यस्य पुरत एव यास्यामि एतच्च विपरीतमापन्नम्, तत्कथमिदं कटकलोकेन विज्ञातम् ?; इति परम्परया शोधयता विज्ञाता कुब्जा । पृष्टया च तया कथितं सर्वमपि यथावृत्तम् । तदत्र सभामण्डपकादिक्षेत्रेण निष्ठीवनस्याननुयोगः, निष्ठीवनादिरक्षण-प्रमार्जनो-पलेपनादिकस्त्वनुयोगः । एवमेकान्तनित्यम् एकम् अप्रदेशं चाकाशं प्ररूपयतोऽननुयोगः स्याद्वादलाञ्छितं तु तदेव प्ररूपयतोऽनुयोग इति । " कालाननुयोगा-नुयोगयोः स्वाध्यायदृष्टान्तः, तद्यथा - एकः साधुः प्रदोषिककालग्रहणानन्तरं कालिकश्रुतमतीतामपि तद्गुणनवेलामजानानः परावर्तयते । ततः सम्यग्दृष्टिदेवतया चिन्तितम्- बोधयाम्यमुम् मा भूद् मिथ्यादृष्टिदेवता छलमस्य । ततो मथितकारिकरूपेण मथितभृतमेव घटं मस्तके निधाय तस्यैव साधोरन्तिके गतागतानि कुर्वती 'मथितं लभ्यते इति महता शब्देन पुनः पुनर्घोषयन्ती परिभ्रमति । ततोऽत्युद्वेजितेन साधुना प्रोक्तम्- अहो ! भवत्यास्तत्रविक्रयवेला । ततो मथितकारिकयाऽप्यवाचिअहो ! तवापि स्वाध्यायवेला । ततो विस्मितः साधुरुपयुज्य मिथ्यादुष्कृतं ददाति । ततः 'अकालस्वाध्यायविधानेन मिथ्यादृष्टिदेव| ताविहितच्छलानि भवन्ति, अतः पुनरप्येवं मा कार्षीस्त्वम्' इत्यादि साधुर्देवतयाऽनुशासित इति । एष स्वाध्यायस्य कालाननुयोगः, काले तु पठतस्तदनुयोगः । प्रस्तुतेऽपि कालधर्माणां वैपरीत्या वैपरीत्यप्ररूपणेऽननुयोगाऽनुयोगौ वाच्याविति । अथ वचनविषयमननुयोगा-ऽनुयोगयोरुदाहरणद्वयमुच्यते । तत्र प्रथमं वधिरोल्लापः । तत्र चैकस्मिन् ग्रामे वधिरं कुटुम्बं परिवसति - स्थविर, स्थविरा, पुत्रः, वधूव । अन्यदा च पुत्रः क्षेत्रे हलं वाहयन् पथिकैर्मार्ग पृष्टो बधिरतया ब्रवीति गृहजातौ मम लीवर्दाविमौ न पुनरन्यस्य सत्कौ । ततो 'बधिरोऽयम्' इति विज्ञाय गताः पथिकाः । ततो भक्तं गृहीत्वा वधूः समायाता । शृङ्गितौ पथिकैर्बलीवर्दावित्यादि निवेदितं ततस्तस्याः । तया च प्रोक्तम्- 'क्षारमलवणं वेति न जानाम्यहम् एतत् त्वदीयजनम्यैव हि संस्कृतम् । ततो गृहं गतया तयापि क्षारादिभणनव्यतिकरो निवेदितः । स्थविरया च कर्तयन्त्या प्रोक्तम्- स्थूल सूक्ष्मं वा भवतु, इदं स्थविरस्य परिधानं भविष्यति । निवेदितं चैतत् सानुशयचित्तया स्थविरया गृहमागतस्य स्थविरस्य । तेनापि वियता प्रोक्तम्- तव जीवितं पिवामि यद्येकमपि तिलमहं भक्षयामीति । एवमेकवचनादिकमप्युक्तं द्विवचनादितया यः शृणोति तथैव चान्यस्य प्ररूपयति, तस्याननुयोगः, यथावच्छ्रवणप्ररूपणे त्वनुयोग इति । वचनानुयोगस्यैवेह प्राधान्यख्यापनार्थं वचनविषयमेव द्वितीयं ग्रामेयकोदाहरणमुच्यते तत्र चैकस्मिन् नगरे कस्याश्चिद् महि१.ग. छ. 'प्रदेोषिका' । For Personal and Private Use Only बृहद्वृत्तिः । ||६०५॥ www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 202