Book Title: Visheshavashyak Bhashya Part 04 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 8
________________ विशेषा० ॥६०६॥ Jain Educationa Internation लाया भर्ता मृतः । ततस्तत्रेन्धन जलादिकष्टेन बाधिताऽनिर्वहन्ती लघुना निजतनयेन सह ग्रामं गताऽसौ । ततो दृद्धिं गतेन पुत्रेण सा पृष्टा - मदीयपितुः का जीविकाssसीत् ? । तया प्रोक्तम्- राजसेवा । तेनोक्तम् अहमपि तां करोमि । तया प्रोक्तम्- पुत्र ! दुष्कराsसौ महता विनयेन क्रियते । कीदृशः पुनरसौ विनयः ? । तया प्रोक्तम्- सर्वस्यापि दृष्टस्य प्रणामः कार्यः, नीचैर्वृत्या सर्वस्यापि प्रवर्तितव्यम्, परच्छन्दानुवृत्तिपरैश्च सर्वत्र भवितव्यम् । ' एवं करिष्यामि' इत्यभ्युपगम्य चलितोऽयं राजधानीसंमुखः । मार्गे च हरिणेष्वा गच्छत्सु वृक्षमूलेष्वाकृष्टधनुर्यष्टयो निलीना व्याधा दृष्टाः । तेषां च तेन महता शब्देन योत्कारः कृतः । ततस्त्रस्ताः प्रपलाय्य गता हरिणाः । ततो व्याधैः कुट्टयित्वा बद्धोऽसौ । ततस्तेनोक्तम्- जनन्याहं शिक्षितः- 'दृष्टस्य सर्वस्यापि योत्कारः कर्तव्यः' इत्यादि । ततश्र 'ऋजुरयम्' इति ज्ञात्वा मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशेटे निलीनैरवनतैः शब्दमकुर्वद्भिः शनैर्वा जल्पद्भिर्निभृतमागम्यते' । तदद्भ्युपगम्य पुरतो गन्तुं प्रवृत्तोऽसौ । दृष्टाश्च वस्त्राणि क्षालयन्तो रजकाः । तेषां च वस्त्राणि तस्करैर्नित्यमपहियन्ते । ततस्तत्र दिने लगुडादिव्यपाण रजकाः मच्छन्नोपविष्टा हेरयन्तस्तिष्ठन्ति । आगतश्चाजल्पन्नवनतगात्रो निलीयमानः शनैः स तत्र ग्रामेयकः । स एष चौरः' इति अन्या कुयित्वा बद्धोऽसौ रजकैः । सद्भावे च कथिते मुक्तस्तैः । शिक्षितश्च यथा- 'ईदृशे कस्मिंश्चिद् दृष्ट एवमुच्यते, यथा-रोत्र पततु, शुद्धं च भवतु' इति । इदं चाभ्युपगम्य प्रवृत्तः पुरतो गन्तुम् । ततो दृष्टं कचिद् ग्रामे बहुभिर्मङ्गलैः प्रथमं हलवाहन करणं क्रियमाणम् । तत उक्तम्- ऊपमित्यादि । ततस्तैरपि कृषीवलैः पिट्टितः बद्धव | सद्भावे ज्ञाते मुक्तः । शिक्षितश्च यथा- 'ईदृशे कापि दृष्टे प्रोच्यते, यथा- गन्त्र्योत्र भ्रियन्ताम्, बहुत्र भवतु, सदैव चेदमस्तु' इति। अभ्युपगतं च तेनेदम् । अन्यत्र च मृतके वहिनयमाने प्रोक्तमिदम् । तत्रापि कुट्टितः बद्धव । सद्भावकथने च मुक्तः । शिक्षितश्च यथा- 'ईदृशं मा भूद् भवतां कदाचिदपि, वियोग शेनास्तु' इति । एतच्चान्यत्र विवाहे मोक्तम् । तत्रापि तथैव वद्धः । सद्भावे परिज्ञाते मुक्तः । शिक्षितच यथा'ईदृशे प्रोच्यते - सदैव पश्यन्त्वीदृशानि भवन्तः, शाश्वतश्च भवत्वेतत्संबन्धः, मा भूदिह वियोगः' इति । इदं चान्यत्र कचिद् निगडबद्धं राजानमवलोक्य ब्रुवाणस्तथैव कदर्थयित्वा मुक्तः । शिक्षितश्च यथा- 'ईदृशे वियोगः शीघ्रं भवत्वनेन, एवंविधं च मा भूत् कदाचिदपि' इत्यभिधीयते । एतच्चान्यत्र क्वचिद् राज्ञां संधौ जल्प्यमाने प्रोक्तम् । ततस्तत्रापि तथैव कदर्थितः । एवं स्थाने स्थाने कदर्थ्यमानोऽन्यदा कस्यापि विभवविमुक्तक्कुरस्य सेवां विधातुमारब्धः । तत्र चान्यदा गृहे आम्लखलिकायां सिद्धायां ग्रामसभाजनसमूहमध्ये उपविर tet टक्कुरस्य 'शीतलीभूतैषा भोक्तुमयोग्या भविष्यति' इति भार्यया तदाकारणाय प्रेषितो ग्रामेयकः । तेनापि जनसमूहस्य शृण्वतो | महता शब्देनोक्तम् आगच्छ ठक्कुर ! शीघ्रमेव गृहम् भुव आम्लखलिकाम्, शीतली भवति लग्नाऽसौ । ततो लज्जितष्ठक्कुरो गृहं गतः । For Personal and Private Use Only soooooooooo बृहदत्तिः ॥ ६०६॥ www.jainelibrary.orgPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 202