Book Title: Visheshavashyak Bhashya Part 03 Author(s): Jinbhadragani Kshamashraman, Chaturvijay Publisher: Harakchand Bhurabhai Shah View full book textPage 7
________________ विशेषा ॥४०५॥ अत आवश्यकादिपदानाम्-'आवश्यकम् , श्रुतस्कन्धः, अध्ययनम्' इत्येषां पदानां न्यासो निक्षेपः पृथक् पृथक् कार्यः । कुतः, इत्याह| यस्माद्धेतोः किश्चिद् नाम तावद् यथार्थं भवति, यथा दीपः, दहन इत्यादि किश्चित् त्वयथार्थं भवति, यथा पलाशः, मण्डप इत्यादि। अपरं त्वर्थशून्यं भवति, यथा डित्थः, डवित्थ इत्यादि । यथार्थं च शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थावगतेः । अतो नाम्नैव परीक्षा विचारणा क्रियते, ततो ग्राह्यमिदं यदि यथार्थ स्यादिति ॥ ८४७ ॥८४८॥ तमेवाऽऽवश्यकादिन्यासमाह नामाईओ नासो चउविहो मंगलस्स व स नेओ। विष्णेओय विसेसो सुत्तगओ, किंचि वुच्छामि ॥८४९॥ इह तावदावश्यकस्य नाम-स्थापना-द्रव्य-भावरूपश्चतुर्विधो निक्षेपो भवति, स चेहैव प्रागुक्तमङ्गलपदस्येव ज्ञातव्यः, यश्च मङ्गलनिक्षेपेण सह विशेषः स सूत्रेऽनुयोगद्वारादिलक्षणे गतः स्थितो भणितः सूत्रगतो विज्ञेयः। किश्चित्पुनस्तद्विशेष विनेयानुग्रहार्थमहमत्रापि । वक्ष्यामीति ॥ ८४९॥ तत्र नाम-स्थापने क्षुण्णत्वाद् नोच्यते । द्रव्यावश्यकं तु द्विधा- आगमतः, नोआगमतश्च । तत्राऽऽगमतः पाह आगमओ दवावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो ॥८५०॥ आगमतो द्रव्यावश्यकं भवति । कः ?, इत्याह- तदावश्यक निगदन् पठन्- अध्येता । कथंभूतः १, तस्मिन्नावश्यकेऽनुपयुक्तः। यस्याऽध्येतुः, किम् ?, इत्याह- यस्य तदावश्यकपदं प्रथमं शिक्षितं, स्थितं, जितमित्यादिविशेषणविशिष्टं भवति ।। ८५० ॥ अथ तान्येवाऽनुयोगद्वारादिसूत्रप्रोक्तानि शिक्षितादिविशेषणानि व्याख्यानयनाह*सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेत्तुक्कमेणं पि ॥ ८५१ ॥ जह सिक्खियं सनामं तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादओ ते य ॥८५२॥ PAHARI-TIREMAITHILI- LATRA सायपरम्परा १ नामादिको ग्यासश्चतुर्विधो मङ्गलस्येव स ज्ञेयः । विज्ञेयश्च विशेषः सूत्रगतः, किश्चिद् वक्ष्यामि ॥ ८४९॥ २क.ख.ग. 'वस्वरू' । ३ भागमतो जव्यावासकमावासकं पदं यस्य । शिक्षितमित्यादि तत् तदनुपयुको निगवन् ॥ ४५०॥ शिक्षितमन्तं नीतं हदये स्थितं जितं दुतमेति । संख्यासवर्गादि मितं परिजितमेत्युत्क्रमेणापि ॥ ८५१॥ पथा शिक्षितं स्वनास तथा तदपि तथा स्थितादि नामससम् । गुरुभणितघोषसाशं गृहीतमुदासादयस्ते च ॥ ८५२॥ ॥४०५॥ Jan Education Internat For Personal and Private Use Only www.jaineitrary.aryPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 202