Book Title: Visheshavashyak Bhashya Part 03
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 6
________________ BIJAAAAAA APATIALASP ॥४०४॥ ज्ञानपश्चकाभिधानमात्रमेव शास्त्रादौ मङ्गलमिष्ट, न तु तस्या नन्द्याः सर्वस्या अपि शास्वरूपाया इहाऽस्थाने व्याख्यानं युज्यते; यथा हि पथि प्रस्थितेमङ्गलभूतदधि दुर्वा-ऽक्षतादिवस्तूनामभिधान-दर्शनादीन्येव मङ्गलतया गृधन्ते, न तु तद्भक्षण-तद्गुणश्रवणादीन्यपि क्रियन्ते; तथेहापि ज्ञानोत्कीर्तनमात्रमेव मङ्गलं युज्यते, न तु नन्दिव्याख्यानम् , इह तस्याऽस्थानत्वात् । न ह्यावश्यकशास्त्रारम्भे शास्त्रान्तरभूताया नन्द्या व्याख्यानं युज्यते, अतिप्रसङ्गात् । न च वक्तव्यम्- सर्वशास्त्रान्तर्भूतैव नन्दी, यद् यस्मात् सा विष्वक् पृथगेव श्रुतस्कन्धतया सिद्धान्ते प्रसिद्धा, श्रुतस्कन्धत्वं चास्याः पद-वाक्यसमूहात्मकत्वेनैव द्रष्टव्यम् , न स्वध्ययनकलापात्मक परिभाषितम् , एकाध्ययनरूपत्वेन रूढत्वादिति ॥ ८४५॥ ननु यदि नन्दिव्याख्यानस्याऽस्थानमिदम् , तर्हि किमितीत्थमादावेव भवद्भिर्ज्ञानपञ्चकं विस्तरेण व्याख्यातम् ? इति पौर्वापर्येण स्ववचनविरोधः, इत्याशङ्कयाह इह साणुग्गहमुइयं न उ नियमोऽयमहवाऽपवादोऽयं । दाइजइ कहणाए कयाइ पुरिसादवेक्खाए ॥८४६॥ इहावश्यकारम्भे यद्विस्तरेण ज्ञानपञ्चकस्यादौ व्याख्यानम् , तत्सानुग्रहं शिष्यानुग्रहमास्थायोदितमस्माभिर्न पुनरयं नियम एव, ज्ञानोत्कीर्तनमात्रस्यैव नियमेन मङ्गलतयाऽभीष्टत्वात् । अथवा, कथनायाः कथनविधेरपवादोऽयं दश्यते, यथेह पुरुषाद्यपेक्षया कदाचिदुत्क्रमेणापि शास्त्राणि व्याख्यायन्ते- अन्यारम्भेऽन्यद् व्याख्यायत इति ॥ ८४६ ॥ तस्मादावश्यकश्रुतस्कन्धस्याऽनुयोग इति स्थिते किमिदानी कर्तव्यम् ?, इत्याह आवस्सयसुयखंधो नामं सत्थस्स तस्स जे भेया। ताई अज्झयणाई नासो आवस्सयाईणं ॥ ८४७ ॥ कज्जो पिह प्पिहाणं जहत्थमजहत्थमत्थसुण्णं ति । नामे चेव परिच्छा गझं जइ होहिइ जहत्थं ॥८४८॥ इह प्रस्तुतशास्त्रस्याऽऽवश्यकश्रुतस्कन्ध इति नाम । तस्य चावश्यकस्य ये सामायिकादयः षट् भेदास्तान्यध्ययनान्यभिधीयन्ते । १ घ.छ.'कं पारि' । २ घ.छ. 'कमेवाध्य' । ३ इह सानुग्रहमुदितं न तु नियमोऽयमयवाऽपवादोऽयम् । दश्यते कथनायाः कदाचित् पुरुषाचपेक्षया ॥ ८४६ ॥ Rig०४॥ ४ क. 'दविक्खा' । ५ आवश्यकश्रुतस्कन्धो नाम शाखस्य तस्य ये भेदाः । तान्यध्ययनानि न्यास आवश्यकामाम् ॥ ८५० ॥ कार्य। पृथक् पृथग यथार्थमयधाधमर्थशून्यामिति । नाम्चैव परीक्षा माझं यदि भवेद् यथार्थम् ॥ ८५८ ॥ For Pesos and Private Use Only HAHww.jainelibrary.org

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 202