________________
विशेषा
॥४०५॥
अत आवश्यकादिपदानाम्-'आवश्यकम् , श्रुतस्कन्धः, अध्ययनम्' इत्येषां पदानां न्यासो निक्षेपः पृथक् पृथक् कार्यः । कुतः, इत्याह| यस्माद्धेतोः किश्चिद् नाम तावद् यथार्थं भवति, यथा दीपः, दहन इत्यादि किश्चित् त्वयथार्थं भवति, यथा पलाशः, मण्डप इत्यादि।
अपरं त्वर्थशून्यं भवति, यथा डित्थः, डवित्थ इत्यादि । यथार्थं च शास्त्राभिधानमिष्यते, तत्रैव समुदायार्थावगतेः । अतो नाम्नैव परीक्षा विचारणा क्रियते, ततो ग्राह्यमिदं यदि यथार्थ स्यादिति ॥ ८४७ ॥८४८॥
तमेवाऽऽवश्यकादिन्यासमाह
नामाईओ नासो चउविहो मंगलस्स व स नेओ। विष्णेओय विसेसो सुत्तगओ, किंचि वुच्छामि ॥८४९॥
इह तावदावश्यकस्य नाम-स्थापना-द्रव्य-भावरूपश्चतुर्विधो निक्षेपो भवति, स चेहैव प्रागुक्तमङ्गलपदस्येव ज्ञातव्यः, यश्च मङ्गलनिक्षेपेण सह विशेषः स सूत्रेऽनुयोगद्वारादिलक्षणे गतः स्थितो भणितः सूत्रगतो विज्ञेयः। किश्चित्पुनस्तद्विशेष विनेयानुग्रहार्थमहमत्रापि । वक्ष्यामीति ॥ ८४९॥
तत्र नाम-स्थापने क्षुण्णत्वाद् नोच्यते । द्रव्यावश्यकं तु द्विधा- आगमतः, नोआगमतश्च । तत्राऽऽगमतः पाह
आगमओ दवावासयं तमावासयं पयं जस्स । सिक्खियमिच्चाइ तयं तयणुवउत्तो निगदमाणो ॥८५०॥
आगमतो द्रव्यावश्यकं भवति । कः ?, इत्याह- तदावश्यक निगदन् पठन्- अध्येता । कथंभूतः १, तस्मिन्नावश्यकेऽनुपयुक्तः। यस्याऽध्येतुः, किम् ?, इत्याह- यस्य तदावश्यकपदं प्रथमं शिक्षितं, स्थितं, जितमित्यादिविशेषणविशिष्टं भवति ।। ८५० ॥
अथ तान्येवाऽनुयोगद्वारादिसूत्रप्रोक्तानि शिक्षितादिविशेषणानि व्याख्यानयनाह*सिक्खियमंतं नीयं हिययम्मि ठियं जियं दुयं एइ । संखियवण्णाइ मियं परिजियमेत्तुक्कमेणं पि ॥ ८५१ ॥ जह सिक्खियं सनामं तह तं पि तहा ठियाइ नामसमं । गुरुभणियघोससरिसं गहियमुदत्तादओ ते य ॥८५२॥
PAHARI-TIREMAITHILI-
LATRA
सायपरम्परा
१ नामादिको ग्यासश्चतुर्विधो मङ्गलस्येव स ज्ञेयः । विज्ञेयश्च विशेषः सूत्रगतः, किश्चिद् वक्ष्यामि ॥ ८४९॥ २क.ख.ग. 'वस्वरू' । ३ भागमतो जव्यावासकमावासकं पदं यस्य । शिक्षितमित्यादि तत् तदनुपयुको निगवन् ॥ ४५०॥ शिक्षितमन्तं नीतं हदये स्थितं जितं दुतमेति । संख्यासवर्गादि मितं परिजितमेत्युत्क्रमेणापि ॥ ८५१॥ पथा शिक्षितं स्वनास तथा तदपि तथा स्थितादि नामससम् । गुरुभणितघोषसाशं गृहीतमुदासादयस्ते च ॥ ८५२॥
॥४०५॥
Jan Education Internat
For Personal and Private Use Only
www.jaineitrary.ary