Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 234
________________ त्रिषष्टिशलाकापुरुषचरिते ॥१८७॥ सप्तमं पर्व सप्तमः सर्गः रामलक्ष्मणरावणचरितम् । क्षणादभाङ्क्षीद्रक्षासि तमांसीव दिवाकरः । महौजसां शिरोरत्नं पवनञ्जयनन्दनः ।। ११९ ॥ रक्षोभङ्गेन सङ्क्रुद्धः कुम्भकर्णोऽथ शूलभृत् । ईशान इव भूमिष्ठः स्वयं योद्धुमधावत ।। १२० ।। कानप्यध्रिप्रहारेण मुष्टिघातेन कानपि । कांश्चित्कूर्परघातेन तलघातेन कांश्चन ।। १२१ ।। काश्चिन्मुद्गरघातेन शूलघातेन कांश्चन । कानप्यन्योऽन्यघातेन कुम्भकर्णोऽवधीत् कपीन् ।। १२२ ।। ॥युग्मम् ॥ कल्पान्तार्णवकल्पं तमापतन्तं तरस्विनम् । रावणानुजमालोक्य सुग्रीवः समधावत ।। १२३ ।। भामण्डलो दधिमुखो महेन्द्रः कुमुदोऽङ्गदः । अपरेऽप्यन्वधावन्त प्रदीपन इवोद्यतः ।। १२४ ।। दशाननानुजं पञ्चाननं व्याधा इवाऽरुधन् । वर्षन्तोऽस्त्राणि चित्राणि युगपद्वानरोत्तमाः ।। १२५ ॥ प्रस्वापनास्त्रं तेषूच्चैः कालरात्रिमिवाऽपराम् । रात्रिञ्चरवरोऽमुञ्चदमोघं मुनिवाक्यवत् ।। १२६ ।। निद्रायमाणं स्वं सैन्यं दिवा कुमुदखण्डवत् । दृष्ट्वा सस्मार सुग्रीवो महाविद्यां प्रबोधिनीम् ।। १२७ ।। अरे! क्व कुम्भकर्णोऽस्तीत्युच्चैस्तुमुलकारिणः । उत्तस्थुर्वानरभटाः खगा इव निशात्यये ।। १२८ ।। उपाद्रवन् कुम्भकर्णमाकर्णाकृष्टकार्मुकाः । सुग्रीवाधिष्ठिताः सुष्ठुयोधिनः कपिकुञ्जराः ।।१२९ ॥ सुग्रीवो दलयामास कुम्भकर्णस्य सारथिम् । रथं रथ्यांश्च गदयाऽगदारो गदानिव ॥ १३०॥ भूमिष्ठः कुम्भकर्णेऽथ हस्तेनोदेस्तमुद्गरः । एकशृङ्गो गिरिरिव सुग्रीवायाऽभ्यधावत ।।१३१ ॥ युद्धार्थ धावतस्तस्याऽङ्गवातेन गरीयसा । भूयांसः कपयः पेतुः करिस्पर्शेन वृक्षवत् ।। १३२ ।। १ हनुमद्विशेषणम् । २ बलिनम् । ३ सिंहम् । ४ वैद्यो रोगानिव । ५ उदस्तः-ऊर्वीकृतो मुद्गरो येन सः । रामरावणसैन्ययोयुद्धम् । ॥ १८७ ।।

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324