Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 263
________________ त्रिषष्टिशलाकापुरुषचरिते I२१६॥ सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावण चरितम् । प्रयच्छ मथुरां मह्यं स्वयमेव मधोरहम् । प्रतीकारं करिष्यामि व्याधेरिव भिषग्वरः ।। १६३ ।। शत्रुघ्नमत्याग्रहिणं ज्ञात्वा रामोऽन्वशादिति । अपशूलः प्रमत्तश्च योधनीयो मधुस्त्वया ।। १६४ ।। अनुशिष्येत्यदाद्रामस्तूणावक्षय्यसायकौ । कृतान्तवदनं नाम सेनान्यं च सहाऽदिशत् ।। १६५ ॥ शिलीमुखानग्निमुखानणवावर्तधन्व च । लक्ष्मणोऽपि ददौ तस्मायाशंसन् विजयं परम् ।। १६६ ।। ततः प्रतस्थे शत्रुघ्नः प्रयाणैश्च निरन्तरैः । ययावुपमधूपघ्नमवात्सीच्च नदीतटे ।। १६७ ।। तत्राऽऽदौ प्रेषिताश्चारास्तस्याऽऽख्यन्नेत्य यन्मधुः । गतः कुबेरोद्यानेऽस्ति मथुरापूर्वदिस्थिते ।। १६८ ।। पल्या जयन्त्या साधू स तत्र क्रीडापरोऽधुना । अस्त्रागारे च तच्छूलं कालोऽयं तस्य योधने ।। १६९ ॥ ततश्छलज्ञः शत्रुघ्नः प्राविशन्मथुरां निशि । प्रविशन्तं मधुं तत्र रुरोध च बलैः स्वयम् ।। १७०॥ जघान समरे चाऽऽदौ लवणं मधुनन्दनम् । रामायणरणारम्भे खरं नारायणो यथा ।। १७१ ॥ मधुः सुतवधक्रुद्धो धावित्वा स्फालयन् धनुः । युयुधे दाशरथिना रथिना रथिनां वरः ।। १७२ ।। अन्योऽन्यमस्त्रैरस्त्राणि च्छिन्दानौ तावुभावपि । शस्त्राशस्त्रि प्रचक्राते चिरं देवासुराविव ।। १७३ ।। धनुः समुद्रावर्त चाऽग्निमुखांश्च शिलीमुखान् । सौमित्रिदत्तानस्मार्षीत्तुर्यो दशरथात्मजः ।। १७४ ।। तत्स्मृतोपनतं धन्वाऽधिज्यीकृत्याऽग्निपत्रिभिः । तैर्जघान मधुं वीरः शार्दूलमिव लुब्धकः ।। १७५ ।। तद्बाणघातविधुरो मधुरेवमचिन्तयत् । शूलं पाणौ न मेऽभ्यागान्न हतो लक्ष्मणानुजः ।। १७६ ॥ गतं मम मुधा जन्म जिनेन्द्रो न यदर्चितः । कारितानि न चैत्यानि दत्तं पात्रेषु नो मया ।। १७७ ।। १ शूलरहितः । २ अक्षय्याः सायका इषवो ययोस्तौ । ३ मधूपघ्नस्य समीपम् । ४ अग्निशरैः । लक्ष्मणस्य | राज्या|भिषेकः, सर्वेषां राज्यविभागः, शत्रुघ्नस्य मधुना सह युद्धम् । ।। २१६ ।।

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324