Book Title: Trishashti Shakala Purush Charitam Part 4
Author(s): Hemchandracharya,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
त्रिषष्टिशलाकापुरुषचरिते ||२२२॥
सप्तमं पर्व अष्टमः सर्गः रामलक्ष्मणरावणचरितम् ।
सूनवो द्वे शते सार्धे तेष्वष्ट महिषीभवाः । श्रीधरोऽभूद्विशल्याभूः पृथिवीतिलकः पुनः ।। २५० ॥ रूपवत्यङ्गजो वनमालाजोऽर्जुनसङ्घकः । श्रीकेशी जितपद्मायाः कल्याणायास्तु मङ्गलः ।।२५१ ।। सुपार्श्वकीर्तिस्तु मनोरमाया विमलः पुनः । रतिमालाभूरभयवतीभूः सत्यकीर्तिकः ।। २५२ ।। रामस्याऽऽसन्महादेव्यश्चततस्तत्र मैथिली । प्रभावती रतिनिभा श्रीदामा तु चतुर्थिका ।।२५३ ॥ सीतैकदा ऋतुस्नाता निशान्ते स्वप्नमैक्षत । च्युतौ विमानाच्छरभौ प्रविशन्तौ निजानने ।। २५४ ॥ व्याख्याद्रामस्तयाऽऽख्याते वीरौ ते भाविनौ सुतौ । च्युतौ विमानाच्छरभौ यत्तु तन्न मुदे मम ।। २५५ ।। धर्मस्य ते च माहात्म्यात् सर्व भावि शुभं प्रभो !। इत्यूचे जानकी देवी तदा गर्भ दधार च ।। २५६ ॥ सीता प्राणप्रियाऽग्रेऽपि प्राप्तगर्भा विशेषतः । बभूव रामचन्द्रस्य लोचनानन्दचन्द्रिका ।। २५७ ॥ ईर्ष्यालवः सपल्यस्तां मायाविन्योऽब्रुवन्नदः । कीदृग्रूपो रावणोऽभूत् ? तं लिखित्वा प्रदर्शय ।।२५८ ।। सीताऽप्यूचे मया दृष्टः सर्वाङ्गं न हि रावणः । दृष्टौ तच्चरणावेव कथं नाम लिखामि तम् ? ।। २५९ ।। तत्पादावप्यालिख त्वं कौतुकं नस्तदीक्षणे । इत्युक्ता प्रकृतिऋज्वी दशास्याङ्ग्री लिलेख सा ।।२६० ।। स्थाने तत्राऽऽगमद्रामो बभाषे ताभिरप्यदः । रावणस्य स्मरत्यद्याऽप्यसौ सीता तव प्रिया ।। २६१ ॥ सीतास्वहस्तलिखितं रावणस्य क्रमद्वयम् । पश्यैतन्नाथ ! जानीहि सीता तस्यैव नाथते ।। २६२ ।। दृष्ट्वाऽपि तत्तथा रामो गम्भीरत्वान्महामनाः । तथैव ववृते सीतादेव्यामनुपलक्षितः ।। २६३ ।। १ अष्टापदमृगौ । २ प्रकृत्या स्वभावेन ऋज्वी सरला । ३ क्रमश्चरणः । ४ पूर्ववत् ।
मनोरमाया लक्ष्मणेन सह लग्नः , सीताया गर्भधारणम् ।
॥२२२ ॥

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324